मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ६९

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 69

एकोनसप्ततिं देवि शृणु पार्वति यत्नतः

ईश्वर उवाच

एकोनसप्ततिं देवि शृणु पार्वति यत्नतः ॥

यस्य दर्शनमात्रेण संगमो जायते सदा

॥१॥

कलिंगविषये देवि सुबाहुर्नाम पार्थिवः ॥

बभूव भुवि विख्यातो यज्वा परमधार्मिकः

॥२॥

तस्य पत्नी विशालाक्षी दुहिता दृढधन्वनः ॥

कांचीपुरनिवासस्य क्षात्रव्रतरतस्य च

॥३॥

परस्परानुरागत्वात्परा प्रीतिरभूत्तयोः ॥

तस्य राज्ञः शिरोऽर्त्तिस्तु मध्याह्ने जायते सदा

॥४॥

आयुर्वेदविदां मुख्यैः शरीरस्य चिकित्सकैः ॥

तैः प्रणीताः प्रिये योगा व्यथावृद्धिर्दिनेदिने

॥५॥

एवं बहुतरे काले गते देवि महीपतिम् ॥

प्रत्युवाच विशालाक्षी भर्त्तुर्दुःखेन पीडिता

॥६॥

कथमेषा शिरोरोगे जरा ते पृथिवीपते ॥

वैद्याश्च बहवो देव नानाशास्त्रविशारदाः ॥

प्रयतंतेऽस्य नाशाय तथाप्येष न शाम्यति

॥७॥

एवं स प्रियया प्रोक्तः सुबाहुः पृथिवीपतिः ॥

प्रत्युवाच प्रियां भार्यां प्रेम्णा प्रणयवत्सलाम्

॥८॥

सुखदुःखाश्रयं देवि शरीरं सर्वदेहिनाम् ॥

पूर्वकर्मानुसारेण सुखं दुःखं च जायते

॥९॥

इति संबोधिता राज्ञी तेन राज्ञा वरानने ॥

पुनः प्रोवाच हार्द्देन तमेवार्थं सुदुःखिता

॥१०॥

यदा सा वारितात्यर्थं पृच्छत्येव पुनःपुनः ॥

तदा राजा प्रहस्यैव तां च राज्ञीमुवाच ह

॥११॥

यदि त्वं श्रोतुकामासि रोगस्यास्य समुद्भवम् ॥

कारणं तत्त्वतो देवि नाख्यास्याम्यहमत्र वै

॥१२॥

महाकालवनं गत्वा सिद्धगंधर्वसेवितम् ॥

तत्र ते कथयिष्यामि यदि कौतूहलं तव

॥१३॥

श्वः प्रभाते गमिष्यामि त्वया सार्द्धं शुचिस्मिते ॥

इति तस्य वचः श्रुत्वा सा राज्ञी विस्मिता स्थिता ॥

उत्सुका गमनार्थाय महाकालवनं शुभम्

॥१४॥

अथ सा रजनी वृत्ता प्रभाते नृपसत्तमः ॥

प्रतस्थे भार्यया सार्द्धं सैन्येन महता वृतः

॥१५॥

आजगाम क्रमेणैव महाकालवनं शुभम् ॥

आवासं विदधे धीमाच्छिप्रातीरे नृपस्तदा

॥१६॥

पातालवाहिनी तत्र गंगा त्रिपथगामिनी ॥

द्वितीया नीलगंगा च शिप्रया सह संगता

॥१७॥

तासां च संगमस्तत्र तल्लिंगं संगमेश्वरम् ॥

पूजितं गंगया सार्द्धं शिप्रया नीलगंगया

॥१८॥

अथ प्राप्ते सुबाहौ च सा राज्ञी विस्मयान्विता ॥

पप्रच्छ प्रणयोपेता कथ्यतामत्र कारणम् ॥

यत्त्वयोक्तं पुरा देव कथयिष्यामि तत्र वै

॥१९॥

एवमुक्तः सुबाहुस्तु प्रियया पृथिवीपतिः ॥

प्रत्युवाच प्रियां प्रेम्णा प्रहस्य च पुनःपुनः

॥२०॥

सुखं स्वपिहि भद्रांगि श्रांता वयमनिंदिते ॥

प्रभाते कथयिष्यामि शिरोरोगस्य कारणम्

॥२१॥

अथ सा रजनी वृत्ता प्रभाते नृपसत्तमः ॥

कथयामास माहात्म्यं देवस्य परमेष्ठिनः

॥२२॥

अहमासं कुशूद्रस्तु सर्वदा वेदनिंदकः ॥

विश्वासघातको नित्यं त्वमप्येवं तथाविधा

॥२३॥

पुत्रो जातस्तु दुःशीलो देवब्राह्मणवंचकः ॥

कुरूपः कर्कशो दुष्टः प्रकृत्या पापपूरुषः

॥२४॥

अथ दीर्घेण कालेन द्वादशाब्दं भयावहा ॥

अनावृष्टिस्तु संजाता सर्वप्राणिभयंकरी

॥२५॥

वियोगस्तु त्वया प्राप्तो मया सार्द्धं सुतेन च ॥

ततोऽहं दुःखसंतप्तो वैराग्यं परमं गतः

॥२६॥

इच्छता निधनं सद्यो मया प्रोक्तमिदं वचः ॥

मम पुण्यविहीनस्य पापध्यानरतस्य च

॥२७॥

सुतेन भार्यया सार्द्धं संगमो दुर्लभः पुनः ॥

कथं स्वपिति पापिष्ठः कृत्वा पापं सुदारुणम्

॥२८॥

कुटुंबार्थे करोत्येवमेकाकी निस्तरत्यसौ ॥

धर्म एव परो बंधुर्धर्म एव परा गतिः ॥

धर्मेण साध्यते सर्वं तस्माद्धर्मं समाश्रयेत्

॥२९॥

इति चिंतयतोऽत्यर्थं मम प्राणा गताः प्रिये ॥

विविधा यातना प्राप्ता मया नरककोटिषु

॥३०॥

अंतकालेऽपि धर्मस्य प्रशंसा या मया कृता ॥

मत्स्योऽहं तेन पुण्येन जातः शिप्राजले शुभे

॥३१॥

त्वं च श्येनी ततो जाता तस्मिन्नेव वनोत्तमे ॥

प्रावृट्कालेऽथ संप्राप्ते आश्लेषानुगते रवौ

॥३२॥

नदीत्रयरयेणैव निःसृतोऽहं जलात्ततः ॥

त्वया शिरसि संप्राप्तो नखैर्विद्धोऽस्मि सुंदरि

॥३३॥

आनीतोऽहं त्वया देवि संगमेश्वरसंनिधौ ॥

कैवर्तैर्निधनं प्राप्तं त्वया सार्द्धं वरानने

॥३४॥

म्रियमाणेन मे दृष्टो देवोऽसौ संगमेश्वरः ॥

शिप्रया स्नापितोऽत्यर्थं गंगया नीलगंगया

॥३५॥

तस्य दर्शन मात्रेण जातोऽहं पृथिवीपतिः ॥

कलिंगविषये देवि सर्वभूपालवंदितः

॥३६॥

सुता त्वं वल्लभा जाता कांचीपुरनिवासिनः ॥

क्षात्रव्रतरतस्यैव सुभगा दृढधन्वनः

॥३७॥

आवां राजत्वमापन्नौ तस्य लिंगस्य दर्शनात् ॥

त्वया कररुहैर्विद्धो मारितो लगुडैश्च तैः

॥३८॥

मध्याह्ने कदनं स्मृत्वा ततो मे शिरसि व्यथा ॥

स्मरामि जातिमात्मीयामस्य देवस्य दर्शनात्

॥३९॥

एतत्ते कथितं देवि पृष्टोऽहं यत्त्वया पुरा ॥

गच्छ सुंदरि भद्रं ते यत्र ते वर्त्तते मनः

॥४०॥

स्थातव्यं च मयात्रैव सेव्योऽसौ संगमेश्वरः

॥४१॥

ततः सा निरवद्यांगी नीलोत्पलविलोचना ॥

करुणं सुस्वरं कृत्वा भर्त्तार मिदमब्रवीत्

॥४२॥

मयापि संस्मृतं देव पूर्वजन्मनि चेष्टितम् ॥

अस्य लिंगस्य माहात्म्यात्तिर्यग्योनिगतावपि

॥४३॥

प्राप्तावावां मनुष्यत्वं निर्मलेषु कुलेषु च ॥

प्राप्ता श्रीरतुला लोके प्राप्तं राज्यमकंटकम्

॥४४॥

प्राप्ता भार्या प्रियाहं ते त्वं च प्राप्तो मया नृप ॥

ख्यातोयं त्रिषु लोकेषु नामतः संगमेश्वरः

॥४५॥

अस्य देवस्य माहात्म्याद्वियोगो न भविष्यति ॥

यथा कृष्णस्य लक्ष्म्या च पार्वत्या च शिवस्य च

॥४६॥

पुनः प्रणम्य प्रणता सहसा मन्मथाकुला ॥

भर्त्ता सुबाहुर्मे भूयादन्यस्मिन्निह जन्मनि

॥४७॥

तव देवप्रसादेन यदि त्वं संगमेश्वरः ॥

ततो विलोक्य सोन्मेषं कुसुमेषुतरंगिताम् ॥

कांतां पिबन्निव दृशा प्राह तां तरलेक्षणाम्

॥४८॥

सहजेनाभिजन्येन गुणैः कांत्या विभूषिता ॥

मया प्राप्ता विशालाक्षि प्राप्तं मज्जन्मनः फलम्

॥४९॥

ततस्तां भयसंत्रस्तां कंपिताधरपल्लवाम् ॥

गृहीत्वा च करे कांतां जगामांतःपुरं निजम्

॥५०॥

वदन्कंदर्पसर्पेण दष्टोऽहं दैवतोऽधुना ॥

चचार तत्र निःसारं संसारं कलयन्धिया

॥५१॥

पुरे मम वरारोहे चिरं रेमे तया सह ॥

एवं राजा प्रियां प्राप्य निवेद्य च निजां कथाम्

॥५२॥

भेजे राज्यं तया सार्द्धं विस्तारितमहोत्सवः ॥

अशाश्वतमिदं ज्ञात्वा अर्थिभ्योऽपि ददौ धनम्

॥५३॥

अपूर्वत्यागिना तेन त्रैलोक्यं विस्मयं ययौ ॥

राज्यं कृत्वा चिरं कालं सभार्यो नृपसत्तमः

॥५४॥

भुक्त्वा च विपुलान्भोगांस्तस्मिँल्लिंगे लयं गतः ॥

अतो देवि सुविख्यातो देवोऽसौ संगमेश्वरः

॥५५॥

यः पश्येत्परया भक्त्या तल्लिंगं संगमेश्वरम् ॥

न वियोगो भवेत्तस्य पुत्रभ्रातृप्रियादिभिः

॥५६॥

नियमेन तु यः पश्येत्तल्लिंगं संगमेश्वरम् ॥

राजसूयसहस्रस्य फलं तस्याधिकं भवेत्

॥५७॥

गांगं च सफलं पुण्यं यामुनं नामर्दं तथा ॥

जायते चांद्रभागं च संगमेश्वरदर्शनात्

॥५८॥

यः पश्येच्छ्रावणे मासि तल्लिंगं संगमेश्वरम् ॥

कार्तिकस्वामिनो यात्रा कृता तेन न संशयः

॥५९॥

मासि चाश्वयुजे देवं यः पश्येत्संगमेश्वरम् ॥

कृतं तेन सहस्रं तु वाजपेयं वरानने

॥६०॥

यः पश्येत्कार्त्तिके मासि तल्लिंगं संगमेश्वरम् ॥

राजसूयसहस्रं तु कृतं तेन न संशयः

॥६१॥

चतुरो वार्षिकान्मासान्यः पश्येत्संगमेश्वरम् ॥

स याति परमं स्थानं ममाभीष्टतरं प्रिये

॥६२॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

संगमेश्वरदेवस्य शृणु दुर्द्धर्षमीश्वरम्

॥६३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनंनामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥