मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ५९

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 59

एकोनषष्टिकं विद्धि देवं सिद्धेश्वरं प्रिये

श्रीमहादेव उवाच

एकोनषष्टिकं विद्धि देवं सिद्धेश्वरं प्रिये ॥

यस्य दर्शनमात्रेण सिद्धिः पुंसां प्रजायते

॥१॥

आसीदश्वशिरानाम राजा परमधार्मिकः ॥

सोऽश्वमेधेन यज्ञेन इष्ट्वा सबहुदक्षिणम्

॥२॥

स्नातश्चावभृथे हृष्टो ब्राह्मणैः परिवारितः ॥

यावदास्ते स राजर्षिस्तावत्सिद्धोऽतिदीप्तिमान्

॥३॥

नानौषधिप्रभावज्ञो मंत्रतंत्र विशारदः ॥

आययौ कपिलः श्रीमान्जैगीषव्यश्च सिद्धराट्

॥४॥

तयोस्त्वरितमुत्थाय स राजाभ्यागतक्रियाम् ॥

चकार परया युक्तो मुदा वै पृथि वीपतिः

॥५॥

तावर्चितावासनस्थौ क्षमाशीलौ शुचिव्रतौ ॥

महौजसौ महाभागौ मुमुक्षू मुनिपुंगवौ ॥

विद्याविनयसंपन्नौ ब्रह्मचर्यपरायणौ ॥

अनेकसृष्टिसंहारस्थितिकार्यपरायणौ

॥७॥

उदयादित्यसंकाशौ विभावसुसमद्युती ॥

तेजोराशिसमायुक्तौ दुर्निरीक्ष्यौ पृथग्जनैः

॥८॥

विनयेनोपसंगम्य प्रणिपत्याभिवाद्य च ॥

स राजा प्रांजलिर्भूत्वा प्रश्नमेनमपृच्छत

॥९॥

अश्वशिरा उवाच

श्रुतं मया मुनिश्रेष्ठौ नान्यो देवो जनार्द्दनात् ॥

ध्यातोथ पूजितो नॄणां मुक्तिदो भवबंधनात्

॥१०॥

संस्मृते तु हृषीकेशे नराणां कोटिजन्मजम् ॥

अशुभं क्षयमाप्नोति कथं न प्रणमेद्धरिम्

॥११॥

समाराध्य जगन्नाथं शक्राद्यास्त्रिदिवौकसः ॥

वसंति मुदिताः स्वर्गे दिव्यद्युतिसमन्विताः

॥१२॥

जन्ममृत्युजरा रोगैर्दुःखानि विविधानि च ॥

प्रयांति विलयं सद्यः प्रसन्ने गरुडध्वजे

॥१३॥

इति पृष्टस्तदा तेन प्रार्थितेन यशस्विना ॥

ऊचतुस्तं नृपं सिद्धौ सिद्धिविज्ञानकोविदौ

॥१४॥

क एष प्रोच्यते राजंस्त्वया नारायणोऽधुना ॥

आवां नारायणौ द्वौ तु त्वत्प्रत्यक्षं गतौ नृप

॥१५॥

अश्वशिरा उवाच

भवंतौ ब्राह्मणौ सिद्धौ तपसा दग्धकिल्विषौ ॥

युवां नारायणौ कस्मादिति वाक्यमुवाच सः

॥१६॥

शंखचक्रगदापाणिः पीतवासा जनार्द्दनः ॥

गरुडस्थो हृषीकेशः कस्तस्य सदृशो भुवि

॥१७॥

तस्य राज्ञो वचः श्रुत्वा संसिद्धौ योगकोविदौ ॥

दर्शयामासतुस्तौ हि कृत्वा नारायणं वपुः

॥१८॥

कपिलो मंत्रमाहात्म्यात्स्वयं विष्णुर्बभूव ह ॥

शंखचक्रगदापाणिः पीतवासाश्च तत्क्षणात्

॥१९॥

जैगीषव्यश्च गरुडस्तत्क्षणात्समजायत ॥

ततः समभवत्तत्र राजवेश्मनि कौतुकम्

॥२०॥

दृष्ट्वा नारायणं देवं गरुडस्थं सनातनम् ॥

आश्चर्यं तादृशं दृष्ट्वा स राजा विस्मयान्वितः ॥

उवाच क्षाम्यतां सिद्धौ नायं विष्णुरथेदृशः

॥२१॥

तस्य ब्रह्मा समुत्पन्नो नाभिपंकजमध्यतः ॥

तस्मात्तु ब्रह्मणो रुद्रः स विष्णुः परमेश्वरः

॥२॥

इति राज्ञो वचः श्रुत्वा तदा तौ सिद्धसत्तमौ ॥

चक्रतुः परमां मायां योगाचार्यौ सुमांत्रिकौ

॥२३॥

कपिलः पद्मनाभस्तु पद्ममध्ये प्रजापतिः ॥

बभूव स्वयमेवात्र सहसा योगतस्तदा

॥२४॥

जैगीषव्योऽथ रुद्रस्तु तस्यैवांके व्यवस्थितः ॥

ददर्श महदाश्चर्यं स राजा योगमोहितः

॥२५॥

कौतुकात्प्रत्युवाचेदं भीतः कंपितकन्धरः ॥

नेत्थं भवति विश्वेशो माया योगिनां तदा ॥

सर्वरूपी हरिः श्रीमान्सर्वगः सर्वदः स्मृतः

॥२६॥

ततो वाक्यावसाने तु तस्य राज्ञश्च संसदि ॥

मशका मत्कुणा यूका भ्रमराः पक्षिणो मृगाः

॥२७॥

अश्वा गावो हयाः सिंहा व्याघ्रा गोमहिषास्तथा ॥

अन्येपि पशवः कीटा ग्राम्यारण्याश्च सर्वशः

॥२८॥

दृश्यंते राजभवने कोटिशः पर्वतात्मजे ॥

तं दृष्ट्वा भूतसंघातं राजा विस्मितमानसः

॥२९॥

यावच्चिंतयते किं स्यात्तावज्ज्ञातं नृपेण हि ॥

जैगीषव्यस्य माहात्म्यं कपिलस्य महात्मनः

॥३०॥

कृतांजलिपुटो भूत्वा स राजाऽश्वशिरास्तदा ॥

पप्रच्छ च द्विजौ भक्त्या किमिदं सिद्धसत्तमौ

॥३१॥

सामर्थ्यमीदृशं लब्धं कस्माद्वै तपसो बलात् ॥

अद्य मे सफलोत्पत्तिरद्य मे सफलं श्रुतम्

॥३२॥

सफला मे मनोवृत्तिर्युवयोर्दर्शनेन वै ॥

तस्य तद्वचनं श्रुत्वा कपिलो वाक्यमब्रवीत्

॥३३॥

महाकालवने राजन्विद्यते लिंगमुत्तमम् ॥

ख्यातं सिद्धेश्वरं नाम्ना सिद्धैरभ्यर्चितं सदा

॥३४॥

सौभाग्येश्वरपूर्वे तु सौभाग्यारोग्यदायकम् ॥

प्रभावात्तस्य लिंगस्य प्राप्ता सिद्धिरनुत्तमा

॥३५॥

जैगीषव्येन सिद्धेन मया वैं नृपसत्तम ॥

तस्माद्व्रज महाबाहो महाकालवनं शुभम्

॥३६॥

तत्र द्रक्ष्यसि सर्वेशं शंखचक्रगदाधरम ॥

लिंगमूर्त्तौ स्थितं विष्णुं यस्ते सिद्धिं प्रदास्यति

॥३७॥

संसिद्धा बहवस्तत्र सनकाद्या नरेश्वर ॥

तस्य तद्वचनं श्रुत्वा कपिलस्य महात्मनः

॥३८॥

जगाम सहसा तत्र स राजाश्वशिरास्तदा ॥

ददर्श चैव तौ सिद्धौ सिद्धेश्वरसमीपतः

॥३९॥

अन्ये च बहवः सिद्धाः सिद्धनाथास्तथा परे ॥

ज्ञात्वा सिद्धेश्वरं देवं सिद्धसंघैः समर्चितम्

॥४०॥

लिंगमध्ये स्थित विष्णुं ज्ञात्वा स नृपसत्तमः ॥

पूजयामास भावेन परमेण समाधिना

॥४१॥

ततस्तुष्टोऽब्रवीद्देवो वरं वरय सुव्रत ॥

यत्तेभिलषितं सर्वमहं दास्यामि भूपते

॥४२॥

लिंगस्य वचनं श्रुत्वा नृपेणोक्तं च तच्छृणु ॥

यदि मेऽस्ति दया देव प्रसन्नोऽसि हि चेत्प्रभो

॥४३॥

यत्ते रूपं परं नाथ तद्दर्शय ममाच्युत ॥

एतदेव हि मे देव सदाभिलषितं हृदि

॥४४॥

आजन्मनो जगन्नाथ कदा द्रक्ष्ये जनार्द्दनम् ॥

एतदिच्छाम्यहं देव वराणां प्रवरं वरम् ॥

दीयमानं त्वयाभीष्टं ख्यातं सिद्धेश्वरं क्षितौ

॥४५॥

नृपस्य वचनं श्रुत्वा लिंगेनोक्तं वरानने ॥

न मे विदुर्देवगणा नासुरा न महर्षयः

॥४६॥

परं रूपं नृपश्रेष्ठ कृष्णोऽहं लिंगतां गतः ॥

ममलोकं तु ये प्राप्ता मुनयो मंत्रभूषिताः

॥४७॥

न चैते मां विजानंति परमार्थेन पार्थिव ॥

यदेतद्दृश्यते तेजो लिंगरूपेण मामकम्

॥४८॥

एतदेव हि ब्रह्माद्या ध्यायन्ति त्रिदशास्त्वमी ॥

अतो न मे परं रूपं द्रष्टुं कश्चित्क्षमो भवेत्

॥४९॥

अनेकजन्मसंशुद्धा योगिनो मदनुग्रहात् ॥

प्रविशंति तनौ मह्यं मुक्ताः संसारबंधनैः

॥५०॥

एवं हि बुवतस्तस्य सिद्धिः प्राप्ता नृपेण हि ॥

विष्णुरूपं समास्थाय तस्मिँल्लिंगे लयं गतः

॥५१॥

अतो देवि सुविख्यातं लिंगं सिद्धेश्वरं परम् ॥

ये पश्यंति नरा भक्त्या तेषां सिद्धिश्च शाश्वती

॥५२॥

अंजनं पादलेपं च पादुकासिद्धिरेव च ॥

गुटिका खड्गसिद्धिश्च महासिद्धिः सुदुर्लभा

॥५३॥

दिव्यौषधैश्च या सिद्धिर्मंत्रस्पर्शोद्भवा च या ॥

एतास्तु सिद्धयः प्रोक्ता अपरा लघिमादयः

॥५४॥

धर्मार्थकाम सिद्धिश्च मोक्षसिद्धिरनुत्तमा ॥

जायते नात्र सन्देहः श्रीसिद्धेश्वरदर्शनात्

॥५५॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

सिद्धेश्वरस्य देवस्य मतंगेशमथो शृणु

॥५६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीति लिङ्गमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥