करभेश्वरमाहात्म्यवर्णनम्
श्रीहर उवाच
त्रिसप्ततीश्वरं विद्धि करभेशं वरानने ॥
यस्य दर्शनमात्रेण कुयोनिर्नैव लभ्यते
॥१॥वीरकेतुरभूद्धीमानयोध्याया महीपतिः ॥
विद्याविनयसौभाग्यलावण्यामृत पूरितः
॥२॥स सम्यक्पालयामास प्रजाः पुत्रानिवौरसान् ॥
अतीतानागतज्ञानपरिनिष्ठितमानसः
॥३॥अथैकस्मिन्दिने राजा जगाम गहनं वनम् ॥
मृगसिंहगजाकीर्णं व्याघ्रसंबरसंकुलम्
॥४॥स तत्र विविधान्वन्यान्विव्याध परवीरहा ॥
मृगांश्च महिषांश्चैव वराहांश्च सहस्रशः
॥५॥लोडितं तद्वनं सर्वं पशुपक्षिमृगाकुलम् ॥
रहितं श्वापदैः सर्वैः कृतं तेन महीभृता
॥६॥यदा न श्वापदास्तस्मिन्दृश्यते गहने वने ॥
तदा विद्धस्तु करभो बाणेनानतपर्वणा
॥७॥स चापि करभो देवि बाणमादाय सत्वरम् ॥
विद्धोऽपि निःसृतोऽत्यर्थं राज्ञस्तस्यैव पश्यतः ॥
स च राजा बली तूर्णं ससार करभं प्रति
॥८॥ततो निम्नस्थलं चैव स चोष्ट्रोऽद्रवदाशुगः ॥
मुहूर्तेन ततो देवि योजनानि बहून्यपि
॥९॥ततः स राजा तारुण्या दौरसेन बलेन च ॥
ससार बाणासनधृक्सखड्गः सहयो नृपः
॥१०॥ततो नदान्नदीश्चैव पल्वलानि वनानि च ॥
अतिक्रम्यानतिक्रम्य ससारैव वनेचरम्
॥११॥स चापि करभो देवि आसाद्यासाद्य तं नृपम् ॥
पुनरप्येति जवनो जवेन महता ततः
॥१२॥स तस्य बाणैर्बहुभिः करभो विह्वलीकृतः ॥
पृष्ठतः पार्श्वतश्चैव पुनरभ्येति चांतिकम् ॥
पुनश्च जवमास्याय पार्श्वे चाग्रे च दृश्यते
॥१३॥अथारण्यं महारौद्रं प्रविष्टः करभस्तदा ॥
अन्तर्धानं जगामाशु स च राजा वनेऽविशत्
॥१४॥प्रविश्य च महारण्यं तापसानामथाश्रमम् ॥
आससाद ततो राजा श्रांताश्वोपा विशत्पुनः
॥१५॥तं कार्मुककरं दृष्ट्वा श्रमार्त्तं क्षुधितं तदा ॥
समभ्येत्यर्षयस्तस्मै पूजां चकुर्यथाविधि
॥१६॥स पूजामृषिभिर्दत्तां प्रतिगृह्य यथाविधि ॥
अपृच्छत्तापसान्सर्वांस्तपसो वृद्धिमुत्तमाम्
॥१७॥ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः ॥
ऋषयो राजशार्दूलं पप्रच्छुस्त त्प्रयोजनम्
॥१८॥केन भद्र सुखार्थेन संप्राप्तोऽसि तपोवनम् ॥
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर
॥१९॥एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानद ॥
कस्मिन्कुले च जातस्त्वं किं नामा ब्रूहि पार्थिव
॥२०॥ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभः ॥
आचख्यौ तद्यथा न्यायं कुलं गोत्रं च तत्त्वतः
॥२१॥इक्ष्वाकूणां कुले जातो वीरकेतुर्द्विजर्षभाः ॥
चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः
॥२२॥बलेन महता युक्तः सामात्यः सपरिच्छदः ॥
यदा न लब्धो गहने मृगो वा सूकरोऽपि वा
॥२३॥महिषश्चित्तलो वापि शशो वा शंबरो वने ॥
तदा मे करभो विद्धो बाणेनानतपर्वणा
॥२४॥स प्रणष्टः क्षणेनैव सबाणो मम पश्यतः ॥
तं द्रवंतमनुप्राप्तो वनमेतद्यदृच्छया
॥२५॥भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः ॥
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ॥
भवंतः सुमहाभागास्तस्मात्पृच्छाभि संशयम्
॥२६॥क्व गतः करभो विद्धो मया बाणेन सांप्रतम् ॥
क्व च प्राप्स्यामि सहसा ब्रूत तत्सुसमाहिताः
॥२७॥ततस्तेषां समस्तानामृषीणामृषिसत्तमः ॥
ऋषभो देवि करभं स्मरन्निदमथाब्रवीत्
॥२८॥गतः स करभो भूप महाकालवने शुभे ॥
गच्छ त्वं च महाराज महाकालवने शुभे
॥२९॥यत्र देवो महादेवः कारभं रूपमास्थितः ॥
विनोदार्थं च देवानां लिंगमूर्त्तिरभूत्पुरा
॥३०॥पश्चिमे क्षेत्रपालस्य कैलासस्य महीपते ॥
समीपे तस्य विघ्नेशो मोदक प्रियसंज्ञकः
॥३१॥ब्रह्मणा पूजितो राजन्देवानामर्थसिद्धये ॥
स च धर्मध्वजो राजा हैहयानां कुलोद्वहः
॥३२॥तुरगेण कदाचित्तु नीतो बदरिकाश्रमम् ॥
प्रसिद्धं त्रिषु लोकेषु नरनारायणाश्रमम्
॥३३॥तत्र वीराजिनधरं कृशं विप्रं ददर्श ह ॥
शरीरमपि राजेंद्र न केनापि समं तदा ॥
दृष्ट्वा च हसितो विप्रस्तेन राज्ञा प्रमादतः
॥३४॥यस्माद्धससि मां दृष्ट्वा तस्मादुष्ट्रो भविष्यसि ॥
लंबोष्ठो लंबदंतश्च विस्वरो विकृता कृतिः
॥३५॥इत्युक्तस्तेन विप्रेण शप्तोपि नृपसत्तमः ॥
तं विप्रं प्रार्थयामास स च तुष्टोब्रवीदिदम्
॥३६॥न मे वागनृता भूप कदा चिदपि विद्यते ॥
अवश्यं करभो भूत्वा पश्चान्मुक्तिमवाप्स्यसि
॥३७॥यदा त्वं करभो जातो विद्धो वै वीरकेतुना ॥
अयोध्याधिपभूपेन गमिष्यसि शराहतः
॥३८॥महाकालवनं दिव्यं तत्र त्वं लिंगदर्शनात् ॥
गमिष्यसि परं स्थानं यत्र देवो महेश्वरः
॥३९॥स चेक्ष्वाकुकुलद्भूतो वीरकेतुर्महाबलः ॥
लिंगदर्शनतो भूप चक्रवर्तित्वमाप्स्यति
॥४०॥इत्युक्तो नृप भूपालः करभत्वं समागतः ॥
स त्वयाभिहतो भूप बाणेनानतपर्वणा ॥
द्रक्ष्यसि त्वं विमानस्थं विमुक्तं लिंगदर्शनात्
॥४१॥इत्युक्तो नृपतिस्तेन ऋषभेण द्विजेन तु ॥
आजगाम त्वरायुक्तो महाकालवनं शुभम्
॥४२॥ददर्श तत्र तल्लिंगं पूजितं त्रिदशैः सदा ॥
एतस्मिन्नंतरे वाणी श्रुता तेन महीभृता
॥४३॥विमानस्थेन या प्रोक्ता तूष्ट्रेण मधुरस्वरा ॥
भोभो राजेंद्र मां पश्य विमाने चोद्धृते शुभे
॥४४॥दर्शनादस्य लिंगस्य प्राप्ता मे परमा गतिः ॥
त्वया हतोऽहं बाणेन तेनाहं त्वागतो वने ॥
समीपमस्य लिंगस्य त्वं मे बंधुः परो यतः
॥४५॥इत्युक्त्वा स नृपं देवि वचः समधुराक्षरम् ॥
गतस्तु परमं स्थानं नित्यमव्ययमक्षयम्
॥४६॥ततो देवगणा व्योम्नि सकिंनरमहोरगाः ॥
यक्षराक्षसगंधर्वाः सपिशाचाप्सरोगणाः
॥४७॥ब्रह्मेंद्रहरिमुख्याश्च विमानैर्देवि संस्थिताः ॥
आजग्मुर्मुदितास्तत्र द्रष्टुं कौतुकमानसाः
॥४८॥विलोक्य करभं मुक्तं विमानस्थं विराजितम् ॥
लिंगदर्शनमात्रेण संस्तुतं विविधैः स्तवैः
॥४९॥अच्छरत्नसमूहेन मुकुटेनोज्वलत्विषा ॥
भासंतं रविकोटीनां जगदानंदकारकम्
॥५०॥नाम चक्रुस्ततो देवा दृष्ट्वा माहात्म्यमुत्तमम् ॥
दर्शनादस्य लिंगस्य मुक्तोऽयं करभो यतः
॥५१॥तस्मात्त्रिष्वपि लोकेषु विख्यातः करभेश्वरः ॥
भविष्यति न संदेहः पशुयोनिविमोचकः
॥५२॥इत्युक्त्वा त्रिदशाः सर्वे गताः स्वं धिष्ण्यमुत्तमम् ॥
अयोध्याधिपतिर्वीरो वीरकेतुः स्वमालयम् ॥
समृद्धं निःसपत्नं च ततो राज्यं चकार सः
॥५३॥यः पश्यति नरो देवि करभेश्वरसंज्ञकम् ॥
स प्रयात्यक्षयाँल्लोकान्पूज्यमानो गणाधिपः
॥५४॥यदा कालादिहायातो राजराजेश्वरो महान् ॥
पृथिव्यामेकराड्भूत्वा क्रमान्मोक्षमवाप्नुयात्
॥५५॥न दुःखं जायते तस्य व्याधिशोकभयं तथा ॥
ये पश्यंति प्रसंगेन तल्लिंगं करभेश्वरम्
॥५६॥सर्वमेधेषु यत्पुण्यं सर्वदानेषु यत्फलम् ॥
तत्फलं त्वधिकं देवि करभेश्वरदर्शनात्
॥५७॥व्याधयो नोपजायंते दारिद्र्यं न कदाचन ॥
ऐश्वर्यं चातुलं तेषां जायते दर्शनात्सदा
॥५८॥पशुयोनिगता ये च पितरो दुःखितास्तु ये ॥
तिष्ठंति चांबरे ते तु चिंतयंतः स्वगोत्रजम्
॥५९॥आगमिष्यति नः पुत्रो नप्ता वा संतताविह ॥
कदा पश्यति देवेशं करभेश्वरमीश्वरम् ॥
तेन दर्शनमात्रेण मुक्तिर्नो भविता ध्रुवम्
॥६०॥यो यमुद्दिश्य वै कामं दर्शनं तु करिष्यति ॥
तस्य तज्जायते सर्वं मृतस्य परमा गतिः
॥६१॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
करभेशस्य देवस्य शृणु राजस्थलेश्वरम्
॥६२॥इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे करभेश्वरमाहात्म्य वर्णनंनाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥