कपालेश्वरसंज्ञं च ह्यष्टमं विद्धि पार्वति
श्रीरुद्र उवाच
कपालेश्वरसंज्ञं च ह्यष्टमं विद्धि पार्वति ॥
यस्य दर्शनमात्रेण ब्रह्महत्या प्रणश्यति
॥१॥पुरा वैवस्वते कल्पे त्रेताकाले समागते ॥
महाकालवने दिव्ये यजे पैतामहे प्रिये
॥२॥उपविष्टेषु विप्रेषु हूयमाने हुताशने ॥
वेषं कापालिकं कृत्वा गतोऽहं तत्र संसदि
॥३॥जीर्णकंथावृतो देवि मुंडः खट्वांगधारकः ॥
चिताभस्मविलिप्तांगो विकृतो विकृताननः ॥
कपालं च करे कृत्वा कपालकृतभूषणः
॥४॥ब्राह्मणाश्च ततः क्रुद्धा दृष्ट्वा मां जाल्मरूपिणम् ॥
कपालधारिणं सर्वे धिक्छब्दैश्च जगर्हिरे
॥५॥असकृत्पापपापेति गच्छगच्छ विडंबिताः ॥
कथं च होमः क्रियते प्राप्ते कापालिके पुरः
॥६॥अकपालानि शौचानि इति वेदेषु गीयते ॥
यज्ञवेदिर्न तेर्हा तु मनुष्यास्थि धरस्य वै
॥७॥मया प्रोक्तास्तु ते विप्राः श्रूयतां द्विजसत्तमाः ॥
यूयं कारुणिकाः सर्वे परदुःखेन दुःखिताः
॥८॥कर्त्तव्या च दया सद्भिः सर्वदा सर्वदेहिनाम् ॥
सर्वेषामेव जंतूनां मित्रं ब्राह्मण उच्यते
॥९॥अहं कापालिको विप्रो भस्मभूषितविग्रहः ॥
कापालव्रतमास्थाय चरामि पृथिवीतले
॥१०॥आराधयामि सततं महादेवं जगत्पतिम् ॥
ब्रह्महत्याविनाशाय व्रतं द्वादशवार्षिकम्
॥११॥अघघ्नं विश्रुतं लोके प्रारब्धं हि मया द्विजाः ॥
प्रायश्चित्तनिमित्तं तु शुद्धो यास्यामि सद्गतिम्
॥१२॥मदीयं वचनं श्रुत्वा तैः प्रोक्तं द्विजसत्तमैः ॥
अतीव पापिष्ठतरो यो ह्येवं भाषसेऽधम
॥१३॥कपालैर्भूषितो निंद्यो विशेषेण तु विप्रहः ॥
नाकारितो महादेवो दक्षयज्ञमहोत्सवे
॥१४॥यस्मिन्यज्ञे समायाता आदित्या वसवस्तथा ॥
विश्वेदेवाश्च मरुतो गंधर्वाः किंनरास्तथा
॥१५॥ब्रह्मा विष्णुः सहस्राक्षो वरुणो वायुरेव च ॥
धनदः सागरा नद्यः सरांसि सकलानि च
॥१६॥सुपर्णा गिरयो नागाः सर्वे चाकारिताः क्रतौ ॥
सानुगास्ते सभार्याश्च ब्राह्मणा वेदपारगाः
॥१७॥ब्रह्मर्षयो महाभागास्तथा देवर्षयोऽमलाः ॥
एवमुक्त्वा महादेवं मानुषास्थिविभूषितम्
॥१८॥अपवित्रमिति ज्ञात्वा कथं त्वं वक्तुमर्हसि ॥
प्रवेशो दीयतां मह्यं विशेषेणासि ब्रह्महा
॥१९॥इत्युक्तोऽहं यदा विप्रैर्मया प्रोक्तं वचस्तदा ॥
प्रतीक्ष्यतां मुहूर्तं तु भुक्त्वा यास्याम्यहं पुनः
॥२०॥इत्युक्ते वचने देवि ताडितोऽहं भृशं तदा ॥
लोष्ठैर्लगुडकैः पादैर्मुष्टिभिश्च पुनःपुनः
॥२१॥अथ प्रहस्य तत्क्षिप्त्वा तां वेदिं दर्भसंस्तृताम् ॥
कपालदीपवन्नष्टो न ज्ञातोऽहं द्विजोत्तमैः
॥२२॥मयि नष्टे कपालं तत्क्षिप्तं मंडपबाह्यतः ॥
अथान्यत्तत्र संजातं तादृग्रूपं यशस्विनि
॥२३॥एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ॥
तत्र क्षिप्तानि जातानि ततस्ते विस्मयान्विताः
॥२४॥अथाहुर्ज्ञानिनः सर्वे नेदमन्यस्य चेष्टितम् ॥
ऋते देवान्महादेवाद्गंगाचंद्रार्द्धशेखरात्
॥२५॥ततोऽहं विविधैः स्तोत्रैः स्तुतो विप्रैः पृथक्पृथक् ॥
होमं चक्रुश्च ते वह्नौ मंत्रैश्च शतरुद्रियेः
॥२६॥अहं तुष्टस्तदा देवि द्विजानामनुकंपया ॥
व्रियतां ब्राह्मणाः सर्वे वरं यन्मनसेप्सितम्
॥२७॥तदा ते ब्राह्मणाः प्रोचुर्यदज्ञानाद्वधस्तव ॥
कृतस्तेन कृतास्माभिर्ब्रह्महत्या जगत्प्रभो
॥२८॥ब्रह्महत्याविनाशाय प्रसादं कुरु नः प्रभो ॥
वरयामो वरं ह्येनं नान्यं वरमभीप्सितम्
॥२९॥द्विजानां च तदा तेषामग्रे कथितवानिदम् ॥
यत्र राशिः कपालानां भवद्भिर्विहितो भुवि
॥३०॥अनादिलिंगं तत्रासीच्छन्नं कालविपर्यये ॥
पश्यंतु विप्रास्तल्लिंगं ब्रह्महत्याविमोचनम्
॥३१॥कृता मयापि विप्रेंद्रा ब्रह्महत्या स्वयं पुरा ॥
छिंदता ब्रह्मणः शीर्षं पञ्चमं तेजसोत्कटम्
॥३२॥ब्रह्महत्या ततो जाता ममातीव सुदुःसहा ॥
कपालं च करे लग्नं तथा चातीव दुःसहम्
॥३३॥दह्यमानस्ततश्चाहं व्याप्तो वै ब्रह्महत्यया ॥
नाशाय सत्वरं तस्याः स्वार्थयात्रामहं गतः
॥३४॥गतः सर्वेषु तीर्थेषु नैव मुक्तस्तु हत्यया ॥
ततो दुःखी सुसंतप्तो नैव लेभे सुखं क्वचित
॥३५॥एतस्मिन्नंतरे दैवी वागुवाचाशरीरिणी ॥
गच्छावन्तीं स्वयं नाथ किमर्थं खिद्यते वृथा
॥३६॥महाकालवनं पुण्यं त्वया नाथ विनिर्मितम् ॥
कपालकरसंस्थानं रुद्रमद्भुतदर्शनम् ॥
न जानासि कथं क्षेत्रं महापातकनाशनम्
॥३७॥तस्मिन्क्षेत्रे महल्लिंगं गजरूपस्य संनिधौ ॥
विद्यते पश्य देवेश ब्रह्महत्या प्रणश्यति
॥३८॥ततोऽहमागतस्तूर्ण वाक्यं श्रुत्वा तदोत्तमम् ॥
महल्लिंगं मया दृष्टं(?) कपालकरसंस्थितम्
॥३९॥मम हस्तात्तदा विप्राः कपालमपतद्भुवि ॥
कपालेश्वरदेवोऽयमिति नाम मया कृतम्
॥४०॥पश्यंतु विप्रास्तं देवं कपालेश्वरसंज्ञ कम् ॥
यस्य दर्शनमात्रेण निष्कलंका भविष्यथ
॥४१॥लिंगं दृष्टं तदा तैस्तु कपालैर्बहुभिवृतम् ॥
कृतार्थास्ते तदा जातास्तस्य लिंगस्य दर्शनात्
॥४२॥अतोऽसौ भुवि विख्यातः कपालेश्वरसंज्ञकः ॥
येऽर्चयन्ति महादेवि कपालेश्वरसंज्ञकम्
॥४३॥कृतपुण्या नरा देवि ते यांति परमं पदम् ॥
कृत्वापि पातकं घोरं ब्रह्महत्यादिकं नरः
॥४४॥तत्पापं विलयं याति लिंगस्यास्य च दर्शनात् ॥
कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥
तत्क्षपयति देवोऽयं चतुर्द्दश्यां समर्चितः
॥४५॥प्रसंगादपि ये पूजां करिष्यंति वरानने ॥
तेऽपि कामानवाप्स्यंति यांश्च कांश्चित्सुदुर्लभान् ॥
ऐश्वर्यधर्ममतुलं दीर्घमायुररोगताम्
॥४६॥निःसपत्नत्वमतुलं यच्चान्यत्तदवाप्नुयात् ॥
अतीव पापिनो ये च क्रूरकर्मरता नराः
॥४७॥विपाप्मानो भविष्यंति गणेशाश्च मम प्रिये ॥
नियमेन प्रपश्यंति ये देवं वत्सरं प्रिये ॥
ते पश्यंति तनुं त्यक्त्वा मदीयं भवनं प्रियम्
॥४८॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
कपालेश्वरदेवस्य स्वर्गद्वारेश्वरं शृणु
॥४९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये कपालेश्वरमाहात्म्यवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥