मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ३२

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 32

त्रिषु लोकेषु विख्यातं द्वात्रिंशत्तममुत्तमम्

ईश्वर उवाच

त्रिषु लोकेषु विख्यातं द्वात्रिंशत्तममुत्तमम् ॥

विद्धि सिद्धिप्रदं पुंसां पत्तनेश्वरमीश्वरम्

॥१॥

पुराऽहं पर्वते देवि मंदरे चारुकन्दर् ॥

क्रीडन्सार्द्धं त्वया पृष्टः कदाचिद्रहसि स्थितः

॥२॥

किमर्थं पर्वतं त्यक्त्वा कैलासं रमणीयकम् ॥

मुक्ता फलशिलाशुभ्रं शङ्खचन्द्रांशुनिर्मलम्

॥३॥

सिद्धचारणगन्धर्वकिंनरोद्गीतनादितम् ॥

सदा पुष्पद्रुमच्छन्नं कदलीवनराजितम्

॥४॥

अथ कोकिलचक्राह्वचकोरकुरराकुलम् ॥

पुऽण्यलोकोपमं स्थानं त्रिविष्टपविभूषणम्

॥५॥

महाकालवने शून्ये नानागुल्मलतावृते ॥

गजेंद्रगजशार्दूल सिंहशम्बरसंकुले

॥६॥

ऋक्षवानरगोमायुजन्तुकादिविराजिते ॥

मयूरसर्पमार्जारमूषिकादिविराजिते

॥७॥

कथं वासः कृतो देव कौतूहलमिदं मम

॥८॥

इति पृष्टस्त्वया देवि मंदरे चारुकन्दरे ॥

मया प्रोक्तं प्रसन्नेन पत्तनं च मम प्रिये

॥९॥

महाकालवनं रम्यं स्वर्गात्सुखकरं परम् ॥

. स्मशानपीठसत्क्षेत्रवनोपरसमाश्रितम्

॥१०॥

अनौपम्यगुणं विद्धि पत्तनं पर्वतात्मजे ॥

एवं पत्तनदेवो वै न दृष्टो भुवनत्रये ॥

गीतवादित्रचातुर्यैः स्पर्द्धते यः सुरालयम्

॥११॥

एतस्मिन्नंतरे देवि देवर्षिर्नारदो मुनिः ॥

द्रष्टुकामः समायातो मन्दरे मां यशस्विनि

॥१२॥

विनोदार्थं मया पृष्टस्त्वत्प्रियार्थं कुतूहलात् ॥

क्व त्वया गमितः कालः कल्पसंख्यो महामुने

॥१३॥

कस्मिन्नाश्रमसंस्थाने तपसः संचयः कृतः ॥

तीर्थानि कानि भ्रांतानि क्व ते रतिरभूच्चिरम्

॥१४॥

कौतुकं दृष्टपूर्वं तु वद मे मुनिसत्तम ॥

इति पृष्टो मया देवि ब्रह्मपुत्रो महामुनिः ॥

कथयामास वृत्तांतं पत्तनस्य प्रयत्नतः

॥१५॥

बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ॥

पत्तनानि विचित्राणि देशाश्च नगराणि च

॥१६॥

अटनार्थं महादेव जंबूद्वीपे मनोरमे ॥

दृष्टः पत्तनराजश्च सदानंदकरः परः

॥१७॥

स्वेच्छाकल्पितविन्यासः प्रासादशतकल्पितः ॥

इच्छाकामफलावाप्तिर निर्देश्यसुखावहः

॥१८॥

सर्वर्तुकुसुमामोदसुखस्पर्शानिलावृतः ॥

वीणावेणुरवैर्घुष्टो मनःप्रह्लादकारकः

॥१९॥

वज्रेंद्रनीलवैडूर्यचन्द्रकांतादिदी पितः ॥

जरामृत्युभयोपेतः सर्वव्याधिविवर्जितः

॥२०॥

शक्राग्नियमरक्षोब्धिवायुसोमेशसेवितः ॥

ऊर्द्धाधः सप्तलोकेषु पुण्येषु निवसंति हि

॥२१॥

सदा प्रमुदिता देवास्तेऽपि कांक्षंति पत्तनन्न् ॥

तत्र शांता महात्मानो निवसंते महेश्वर

॥२२॥

विद्योतितदिशो दांताः सूर्य वैश्वानरप्रभाः ॥

दिव्यांबरधरा धीरा जगमुकुटधारिणः

॥२३॥

विप्रा माहेश्वराः पुण्याः क्षत्रिया हरतत्पराः ॥

मुमुक्षवस्तपोनिष्ठा वैश्या शूद्राश्चिरायुपः

॥२४॥

स शुभ्ररूपः स च लोहिताकृतिः स चापि पीतः ससितेतरः क्वचित् ॥

स नामधेयः स च नामवर्ज्यः सोऽदृ श्यरूपः स च दृष्टरूपः

॥२५॥

क्वचिद्रविसहस्राक्षः क्वचिदेकरविप्रभः ॥

क्वचिच्चन्द्राद्विशिष्येत क्वचिदंगुलिकांतिमान्

॥२६॥

जन्म मृत्युजरारोगैर्दुःखानि विविधानि च ॥

प्रयाति विलयं तानि प्रसन्ने पत्तनेश्वरे

॥२७॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

पत्तनेशस्य देवस्य आनंदेशमतः शृणु

॥२८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये पत्तनेश्वर माहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥