मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ८४

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 84

उत्तरेश्वरमाहात्म्यमशेषपापनाशनम्

श्रीमहादेव उवाच

उत्तरेश्वरमाहात्म्यमशेषपापनाशनम् ॥

जन्ममृत्युजराव्याधिस्फोटनं शृणु पार्वति

॥१॥

अयोध्यायामतिख्यातकुलोत्पन्नश्च पार्थिवः ॥

सुधीः परीक्षिन्नामा च मृगयामगमत्स च

॥२॥

मृगमनुससाराथ मृगो दूरमपासरत्

॥३॥

तदाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतः कस्मिंश्चिद्वनोद्देशे नीलवनमपश्यच्चाविवेश

॥४॥

तस्य वनखण्डस्य दक्षिणभागे सरो दृष्ट्वा साश्व एव व्यगाहत

॥५॥

अथाश्वस्थः सन्मृणालमश्वस्याग्रतो निक्षिप्य पुष्करिणीं समुपाविशत्

॥६॥

शयितस्ततः शयानो गीतमशृणोत्

॥७॥

स श्रुत्वाचिंतयन्नेह मनुष्यगतिं प्रपश्यामि

॥८॥

कस्य खल्वयं गीतशब्द इत्यवलोकयामास

॥९॥

अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाणि विचिन्वंतीं चाथ राजा समीपे पर्यक्रामत्

॥१०॥

तामब्रवीद्राजा कस्यासि त्वं कन्या परमरूपदर्शनीया पुष्पाणि विचिन्वती

॥११॥

साथ राजसमीपे गत्वेति प्रोवाच कन्यास्मीति

॥१२॥

राजोवाच

अर्थी तवास्मीति

॥१३॥

अथोवाच कन्या ॥

समयेनाहं त्वया शक्योपालब्धुं नान्यथेति

॥१४॥

तां राजा समपृच्छत्कस्ते समय इति

॥१५॥

ततः कन्या तमुवाच नोदकं दर्शयितव्यमिति

॥१६॥

राजा बाढमित्युक्ता तां समागम्य तया सहास्ते

॥१७॥

तत्रैवासन्ने राजनि सेना त्वागच्छत् तया सहोपविष्टं राजानं परिवार्य चातिष्ठत्

॥१८॥

सभाजितश्च राजा तथैव शिबि कया प्रायात् ॥

अथ झटिति तया सह स्वं नगरमनुप्राप्य रहसि तया सह रममाणः सन्नान्यं किंचिदपश्यदथ प्रधानोमात्यस्तस्याभ्याशचरास्ताः स्त्रियोऽभ्यपृच्छत्

॥१९॥

किमत्र प्रयोजनं विद्यते इत्यब्रुवंस्ताः स्त्रियो पूर्वमेव पश्यामस्तदुदकं नात्राश्रियत इति

॥२०॥

अथामा त्यश्च निरुदकं कारयित्वा दारुवृक्षं वृद्धपुष्पफलं शरद्युपलभ्य राजानामब्रवीत् ॥

वनमिदमनुदकं साध्वत्र रम्यतामिति

॥२१॥

स तस्य वचनात्त यैव सह देव्या वनं प्राविशत्

॥२२॥

सकलत्रस्तस्मिन्वने रम्ये तयैव सह रेमे

॥२३॥

प्रविश्य च राजा सह प्रियया सुधाधवलसलिलपूर्णां वापीमपश्यत्

॥२४॥

वापीं दर्दुरैः पूर्णां दृष्ट्वैव च तां तस्या एव तीरे तया देव्यातिष्ठत्

॥२५॥

अथ तां देवीं राजाब्रवीत् ॥

शांततरं वापीसलिलमिति

॥२६॥

सा च तद्वचः श्रुत्वा तीर्थवापीं न्यमज्जन्न पुनरुदमज्जत् ॥

तां मृगयमाणो राजा नापश्यत्

॥२७॥

वापीं दर्दुरैर् पूर्णां दृष्ट्वा आज्ञापयामास भृत्यान्सर्वदर्दुरवधः क्रियतामिति

॥२८॥

यो ममार्थी स तैर्ददुरैरुपायनैर्मामनुतिष्ठेत्

॥२९॥

अथ कश्चिन्महान्दर्दुरो दर्दुरवधे क्रियमाणे सर्वासु दिक्ष्वभ्यगात्

॥३०॥

उपेत्य चैनमुवाचेदं ज्ञात्वा क्रोधवशंगतम् ॥

प्रसादं कुरु नार्हसि दर्दुराणामनपराधिनां वधं कर्तुमिति

॥३१॥

श्लोकश्चात्र भवति ॥

मा दुर्दुरान्प्रभिंद्यास्त्वं कोपं संधारयाच्युत ॥

प्रक्षीयते महाधर्मो जनानां परिजानताम्

॥३२॥

तमेवं वादिनमिष्टजनवियोगे शाकपरीतात्मानं स राजा प्रोवाच ॥

नहि काममप्येतन्निष्कामेन निबर्हणीया इति

॥३३॥

एतैर्दुरात्मभिर्म स्त्री भक्षिता सर्वथैव त्विम वध्या दर्दुराः ॥

नार्हसि विद्वन्नुपरोद्धुमिति

॥३४॥

स तद्वाक्यमुपश्रुत्य व्यथितेंद्रियमनाः प्रोवाच प्रसीद राजन्नहमायुर्नामभूपालः

॥३५॥

प्राप्ता सा मम दुहिता ॥

सा कन्या नागलोकं गता ॥

अत्रास्ते नागचूडो नागराजः ॥

स्मृता आगमिष्यति

॥३६॥

तामब्रवीद्राजा तां स्मृत्वानीय मे दीयतामिति

॥३७॥

अथैनां स्मृत्वा राज्ञे अदात् ॥

अब्रवीच्च

॥३८॥

मयावहसितो गालवो महान्मुनिः तपसा कर्शितांगः ॥

क्षमेश्वरो दर्दुरबाल्यात्प्रकोपितः तेनाहं शप्तः यन्मामनादृत्य दर्दुरबाल्यादवहसितस्तस्माद्दर्दुरो भविष्यसि

॥३९॥

प्रसादितस्तु विप्रः प्रत्युवाच

अवितथोऽयं मम शापस्तस्मादन्यजन्मनि दर्दुरराजो भूत्वा त्वं हि दुहितरमिक्ष्वाकुकुलोत्पन्नाय सर्वगुणान्विताय दत्त्वा यदा यास्यसि महाकालवने तस्योत्तरदिग्भागे तदा लिंगस्य दर्शनेन मुक्तिमवाप्स्यसि

॥४१॥

दुहिता कियत्पातालं यास्यति स्मृता चागमिष्यति ॥

स्वस्ति तेऽस्तु साधयिष्यामि कार्याणि, इत्युक्त्वा दर्दुरो महाकालवनमगच्छत्

॥४२॥

तस्योत्तरे लिंगं ददर्श तस्य दर्शनादनेकमा णिक्यरचितं सिद्धगन्धर्वसेवितं विमानवरमारुह्य शक्रलोकं गतः

॥४३॥

तस्य माहात्म्यमवलोक्य देवाचार्यो बृहस्पतिर्वाक्यं जगाद

॥४४॥

अहो लिंगस्य माहात्म्यमहो लिंगस्य वैभवम् ॥

संप्राप्तो वासवं लोकं शापभ्रष्टो हि दर्दुरः

॥४५॥

आयुराख्यो हि भूपालो मुक्तो दर्दुरतां गतः

॥४६॥

इति तद्वचनं श्रुत्वा देवाचार्यस्य पार्वति ॥

देवास्ते हष्टमनसो नाम चकुः समाहिताः

॥४७॥

यस्माद्दर्दुरभूपालो मुक्तो दर्दुरयोनितः ॥

दर्शनात्तस्य लिंगस्य तस्मात्ख्यातो भविष्यति

॥४८॥

उत्तरेश्वरदेवश्च शापपापप्रणोदकः ॥

इत्युक्त्वा त्रिदशैः सर्वैः पूजितो ह्युत्तरेश्वरः

॥४९॥

भुक्तिमुक्तिप्रदो देवि महापातकनाशनः ॥

क्षेत्रस्य रक्षणार्थाय नियुक्तो यो मया गणः ॥

दर्दुरो हि दुराधर्षः स चापीश्वरतां गतः

॥५०॥

उत्तराशामथो गत्वा यः पश्येदुत्तरेश्वरम् ॥

स सर्वैश्वर्यसंयुक्तो याति लोकमथोत्तरम्

॥५१॥

सुभगः सर्वदा दांतः सुरूपः पुत्रवानिति ॥

नीरोगः पुण्यशीलश्च जायते सप्तजन्म च

॥५२॥

या वृद्धिस्तु कुबेरस्य शक्रस्य च यमस्य च ॥

वरुणस्य च या वृद्धिः सा वृद्धिरुत्तरोत्तरा ॥

जायते नात्र सन्देह उत्तरेश्वरदर्शनात

॥५३॥

कृष्णपक्षे चतुर्दश्यां ये पश्यंति यशस्विनि ॥

उत्तरेश्वरसंज्ञं तु ते कृतार्थाः कलौ युगे

॥५४॥

किं दानैः किं तपोभिश्च किं यज्ञैर्बहुदक्षिणैः ॥

दर्शनाल्लभते राज्यं स्वर्गं मोक्षं क्रमेण तु

॥५५॥

आजन्म च कृतं पापं स्वल्पं वा यदि वा बहु ॥

तत्सर्वं नाशमायाति उत्तरेश्वरदर्शनात्

॥५६॥

इत्येवं चतुराशीतिः संख्याता ईश्वरास्तव ॥

कथिता ये त्वया पृष्टा महाकालवने मया

॥५७॥

य एतेषां देवि यात्रां प्रतिलोमानुलोमतः ॥

करिष्यंति नरा भक्त्या ते यास्यंति परं पदम्

॥५८॥

यश्चापि पूजयेत्तत्र लिंगं भक्त्या तु मानवः ॥

स कुलं तारयत्येव पैतृकं मातृकं शतम्

॥५९॥

एष ते कथितो देवि प्रभावः पाप नाशनः ॥

चतुराशीतिलिंगानां किं भूयः श्रोतुमिच्छसि

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवाद उत्तरेश्वरलिंगमाहात्म्यवर्णनपूर्वक चतुरशीतिलिंगमाहात्म्यवर्णनंनाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥

इति श्रीस्कांदे महापुराणे पंचम आवन्त्यखण्डे द्वितीयमवन्तीस्थचतुरशीतिलिंगमाहात्म्यं समाप्तम् ॥ ( ५-२)