ओं नमो हरिहरहिरण्यगर्भेभ्यो नमो व्यासवाल्मीकिशुकपराशरेभ्यो नमो ग…
श्रीगणेशाय नमः
ओं नमः श्रीपुरुषोत्तमाय
ओं नमः श्रीनर्मदायै
ओं नमो हरिहरहिरण्यगर्भेभ्यो नमो व्यासवाल्मीकिशुकपराशरेभ्यो नमो गुरुगोब्राह्मणेभ्यः
ओं मज्जन्मातङ्गगण्डच्युतमदमदिरामोदमत्तालिमालं स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् ।
सायं प्रातर्मुनीनां कुसुमचयसमाच्छन्नतीरस्थवृक्षं पायाद्वो नर्मदाम्भः करिमकरकराक्रान्तरहंस्तरंगम्
॥२॥उभयतटपुण्यतीर्था प्रक्षालितसकलललोकदुरितौघा ।
देवमुनिमनुजवन्द्या हरतु सदा नर्मदा दुरितम्
॥३॥नाशयतु दुरितमखिलं भूतं भव्यं भवच्च भुवि भविनाम् ।
सकलपवित्रि तव सुधा पुण्यजला नर्मदा भवति
॥४॥तटपुलिनं शिवदेवा यस्या यतयोऽपि कामयन्ते वा ।
मुनिनिवहविहितसेवा शिवाय मम जायतां रेवा
॥५॥नारायणं नमस्कृत्वा नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
॥६॥नैमिषे पुण्यनिलये नानाऋषिनिषेविते ।
शौनकः सत्रमासीनः सूत पप्रच्छ विस्तरात्
॥७॥मन्येऽहं धर्मनैपुण्यं त्वयि सूत सदार्चितम् ।
पुण्यामृतकथावक्ता व्याससशिष्यस्त्वमेव हि
॥८॥अतस्त्वां परिपृच्छामि धर्मतीर्थाश्रयं कवे ।
बहूनि सन्ति तीर्थानि बहुशो मे श्रुतानि च
॥९॥श्रुता दिव्यनदी ब्राह्मी तथा विष्णुनदी मया ।
तृतीया न मया क्वापि श्रुता रौद्री सरिद्वरा
॥१०॥तां वेदगर्भां विख्यातां विबुधौघाभिवन्दिताम् ।
वद मे त्वं महाप्राज्ञ तीर्थपूगपरिष्कृताम्
॥११॥कं देशमाश्रिता रेवा कथं श्रीरुद्रसंभवा ।
तत्संश्रितानि तीर्थानि यानि तानि वदस्व मे
॥१२॥सूत उवाच
साधु पृष्टं कुलपते चरित्रं नर्मदाश्रितम् ।
चित्रं पवित्रं दोषघ्नं श्रुतमुक्तं च सत्तम
॥१३॥वेदोपवेदवेदाङ्गादीन्यभिव्यस्य पूरितः ।
अष्टादशपुराणानां वक्ता सत्यवतीसुतः
॥१४॥तं नमस्कृत्य वक्ष्यामि पुराणानि यथाक्रमम् ।
येषामभिव्याहरणादभिवृद्धिर्वृषायुषोः
॥१५॥श्रुतिः स्मृतिश्च विप्राणां चक्षुषी परिकीर्तिते ।
काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः
॥१६॥श्रुतिस्मृतिपुराणानि विदुषां लोचनत्रयम् ।
यस्त्रिभिर्नयनैः पश्येत्सोऽंशो माहेश्वरो मतः
॥१७॥आत्मनो वेदविद्या च ईश्वरेण विनिर्मिता ।
शौनकीया च पौराणी धर्मशास्त्रात्मिका च या
॥१८॥तिस्रो विद्या इमा मुख्याः सर्वशास्त्रविनिर्णये ।
पुराणं पञ्चमो वेद इति ब्रह्मानुशासनम्
॥१९॥यो न वेद पुराणं हि न स वेदात्र किंचन ।
कतमः स हि धर्मोऽस्ति किं वा ज्ञानं तथाविधम्
॥२०॥अन्यद्वा तत्किमत्राह पुराणे यन्न दृश्यते ।
वेदाः प्रतिष्ठिताः पूर्वं पुराणे नात्र संशयः
॥२१॥बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ।
इतिहासपुराणैश्च कृतोऽयं निश्चयः पुरा
॥२२॥आत्मा पुराणं वेदानां पृथगंगानि तानि षट् ।
यच्च दृष्टं हि वेदेषु तद्दृष्टं स्मृतिभिः किल
॥२३॥उभाभ्यां यत्तु दृष्टं हि तत्पुराणेषु गीयते ।
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणः स्मृतम्
॥२४॥अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ।
पुराणमेकमेवासीदस्मिन् कल्पान्तरे मुने
॥२५॥त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ।
स्मृत्वा जगाद च मुनीन्प्रति देवश्चतुर्मुखः
॥२६॥प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः ।
कालेनाग्रहणं दृष्ट्वा पुराणस्य ततो मुनिः
॥२७॥व्यासरूपं विभुः कृत्वा संहरेत्स युगे युगे ।
अष्टलक्षप्रमाणे तु द्वापरे द्वापरे सदा
॥२८॥तदष्टादशधा कृत्वा भूलोकेऽस्मिन् प्रभाष्यते ।
अद्यापि देवलोके तच्छतकोटिप्रविस्तरम्
॥२९॥तथात्र चतुर्लक्षं संक्षेपेण निवेशितम् ।
पुराणानि दशाष्टौ च साम्प्रतं तदिहोच्यते ।
नामतस्तानि वक्ष्यामि शृणु त्वमृषिसत्तम
॥३०॥सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम्
॥३१॥ब्राह्मं पुराणं तत्राद्यं संहितायां विभूषितम् ।
श्लोकानां दशसाहस्रं नानापुण्यकथायुतम्
॥३२॥पाद्मं च पञ्चपञ्चाशत्सहस्राणि निगद्यते ।
तृतीयं वैष्णवंनाम त्रयोविंशतिसंख्यया
॥३३॥चतुर्थं वायुना प्रोक्तं वायवीयमिति स्मृतम् ।
शिवभक्तिसमायोगाच्छैवं तच्चापराख्यया
॥३४॥चतुर्विंशतिसंख्यातं सहस्राणि तु शौनक ।
चतुर्भिः पर्वभिः प्रोक्तं भविष्यं पञ्चमं तथा
॥३५॥चतुर्दशसहस्राणि तथा पञ्च शतानि तत् ।
मार्कण्डं नवसाहस्रं षष्ठं तत्परिकीर्तितम्
॥३६॥आग्नेयं सप्तमं प्रोक्तं सहस्राणि तु षोडश ।
अष्टमं नारदीयं तु प्रोक्तं वै पञ्चविंशतिः
॥३७॥नवमं भगवन्नाम भागद्वयविभूषितम् ।
तदष्टादशसाहस्रं प्रोच्यते ग्रन्थसंख्यया
॥३८॥दशमं ब्रह्मवैवर्तं तावत्संख्यमिहोच्यते ।
लैङ्गमेकादशं ज्ञेयं तथैकादशसंख्यया
॥३९॥भागद्वयं विरचितं तल्लिङ्गमृषिपुंगव ।
चतुर्विंशतिसाहस्रं वाराहं द्वादशं विदुः
॥४०॥विभक्तं सप्तभिः खण्डैः स्कान्दं भाग्यवतां वर ।
तदेकाशीतिसाहस्रं संख्यया वै निरूपितम्
॥४१॥ततस्तु वामनं नाम चतुर्दशतमं स्मृतम् ।
संख्यया दशसाहस्रं प्रोक्तं कुलपते पुरा
॥४२॥कौर्मं पञ्चदशं प्राहुर्भागद्वयविभूषितम् ।
दशसप्तसहस्राणि पुरा सांख्यपते कलौ
॥४३॥मात्स्यं मत्स्येन यत्प्रोक्तं मनवे षोडशं क्रमात् ।
तच्चतुर्दशसाहस्रं संख्यया वदतां वर
॥४४॥गारुडं सप्तदशमं स्मृतं चैकोनविंशतिः ।
अष्टादशं तु ब्रह्माण्डं भागद्वयविभूषितम्
॥४५॥तच्च द्वादशसाहस्रं शतमष्टसमन्वितम् ।
तथैवोपपुराणानि यानि चोक्तानि वेधसा
॥४६॥इदं ब्रह्मपुराणस्य सुलभं सौरमुत्तमम् ।
संहिताद्वयसंयुक्तं पुण्यं शिवकथाश्रयम्
॥४७॥आद्या सनत्कुमारोक्ता द्वितीया सूर्यभाषिता ।
सनत्कुमारनाम्ना हि तद्विख्यातं महामुने
॥४८॥द्वितीयं नारसिंहं च पुराणे पाद्मसंज्ञिते ।
शौकेयं हि तृतीयं तु पुराणे वैष्णवे मतम्
॥४९॥बार्हस्पत्यं चतुर्थं च वायव्यं संमतं सदा ।
दौर्वाससं पञ्चमं च स्मृतं भागवते सदा
॥५०॥भविष्ये नारदोक्तं च सूरिभिः कथितं पुरा ।
कापिलं मानवं चैव तथैवोशनसेरितम्
॥५१॥ब्रह्माण्डं वारुणं चाथ कालिकाद्वयमेव च ।
माहेश्वरं तथा साम्बं सौरं सर्वार्थसंचयम्
॥५२॥पाराशरं भागवतं कौर्मं चाष्टादशं क्रमात् ।
एतान्युपपुराणानि मयोक्तानि यथाक्रमम्
॥५३॥पुराणसंहितामेतां यः पठेद्वा शृणोति च ।
सोऽनन्तपुण्यभागी स्यान्मृतो ब्रह्मपुरं व्रजेत्
॥५४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुराणसंहितावर्णनां प्रथमोऽध्यायः ॥