दशकन्यातीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् ।
सर्वपापहरं पुण्यं दशकन्येति विश्रुतम् ।
महादेवकृतं पुण्यं सर्वकामफलप्रदम्
॥१॥तत्र तीर्थे महादेवो दशकन्या गुणान्विताः ।
ब्रह्मणो वरयामास ह्युद्वाहेन युयोज ह
॥२॥तदाप्रभृति तत्तीर्थं दशकन्येति विश्रुतम् ।
सर्वपापहरं पुण्यमक्षयं कीर्तितं फलम्
॥३॥तत्र तीर्थे तु यः कन्यां ददाति समलंकृताम् ।
प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या स्वलंकृताम्
॥४॥तेन दानोत्थपुण्येन पूतात्मानो नराधिप ।
वसन्ति रोमसंख्यानि वर्षाणि शिवसन्निधौ
॥५॥ततः कालेन महता त्विह लोके नरेश्वर ।
मानुष्यं प्राप्य दुष्प्राप्यं धनकोटीपतिर्भवेत्
॥६॥तत्र तीर्थे तु यो भक्त्या स्नात्वा विप्राय काञ्चनम् ।
सम्प्रयच्छति शान्ताय सोऽत्यन्तं सुखमश्नुते
॥७॥वाचिकं मानसं वापि कर्मजं यत्पुरा कृतम् ।
तत्सर्वं विलयं याति स्वर्णदानेन भारत
॥८॥नरो दत्त्वा सुवर्णं चापि वालाग्रमात्रकम् ।
तत्र तीर्थे दिवं याति मृतो नास्त्यत्र संशयः
॥९॥तत्र विद्याधरैः सिद्धैर्विमानवरमास्थितः ।
पूज्यमानो वसेत्तावद्यावदाभूतसम्प्लवम्
॥१०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशकन्यातीर्थमाहात्म्यवर्णनं नाम षडुत्तरद्विशततमोऽध्यायः ॥