मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १६

3
अवन्तीखण्डः · रेवाखण्डः · 16

ब्रह्मकृतशिवस्तुतिवर्णनम्

श्रीमार्कण्डेय उवाच

समातृभिर्भूतगणश्च घोरैर्वृतः समन्तात्स ननर्त शूली ।

गजेन्द्रचर्मावरणे वसानः संहर्तुकामश्च जगत्समस्तम्

॥१॥

महेश्वरः सर्वसुरेश्वराणां मन्त्रैरनेकेखबद्धमाली ।

मेदोवसारक्तविचर्चिताङ्गस्त्रैलोक्यदाहे प्रणनर्त शम्भुः

॥२॥

स कालरात्र्या सहितो महात्मा काले त्रिलोकीं सकलां जहार ।

संवर्तकाख्यः सहभानुभावः शम्भुर्महात्मा जगतो वरिष्ठः

॥३॥

स विस्फुलिङ्गोत्करधूममिश्रं महोल्कवज्राशनिवाततुल्यम् ।

ततोऽट्टहासं प्रमुमोच घोरं विवृत्य वक्त्रं वडवामुखाभम्

॥४॥

सहस्रवज्राशनिसंनिभेन तेनाट्टहासेन हरोद्गतेन ।

आपूरितास्तत्र दिशो दशैव संक्षोभिताः सर्वमहार्णवाश्च

॥५॥

स ब्रह्मलोकं प्रजगाम शब्दो ब्रह्माण्डभाण्डं प्रचचाल सर्वम् ।

किमेतदित्याकुलचेतनास्ते वित्रस्तरूपा ऋषयो बभूवुः

॥६॥

प्रणम्य सर्वे सहसैव भीता ब्रह्माणमूचुः परमेश्वरेशम् ।

भीताश्च सर्वे ऋषयस्ततस्ते सुरासुरैश्चैव महोरगैश्च

॥७॥

विद्युत्प्रभाभासुरभीषणाङ्गः क एष चिक्रीडति भूतलस्थः ।

कालानलं गात्रमिदं दधानो यस्याट्टहासेन जगद्विमूढम्

॥८॥

वित्रस्तरूपं प्रबभौ क्षणेन संहर्तुमिच्छेत्किमयं त्रिलोकीम् ।

सार्धं त्वया सप्तभिरर्णकैश्च जनस्तपः सत्यमभिप्रयाति

॥९॥

संहर्तुकामो हि क एष देव एतत्समस्तं कथयाप्रमेय ।

न दृष्टमेतद्विषमं कदापि जानासि तत्त्वं परमो मतो नः

॥१०॥

निशम्य तद्वाक्यमथाबभाषे ब्रह्मा समाश्वास्य सुरादिसङ्घान्

॥११॥

श्रीब्रह्मोवाच

स एष कालस्त्रिदिवं त्वशेषं संहर्तुकामो जगदक्षयात्मा ।

पूर्णे च शेते परिवत्सराणां भविष्यतीशानविभुर्न चित्रम्

॥१२॥

संवत्सरोऽयं परिवत्सरश्च उद्वत्सरो वत्सर एष देवः ।

दृष्टोऽप्यदृष्टः प्रहुतः प्रकाशी स्थूलश्च सूक्ष्मः परमाणुरेषः

॥१३॥

नातः परं किंचिदिहास्ति लोके परापरोऽयं प्रभुरात्मवादी ।

तुष्येत मे कालसमानरूप इत्येवमुक्त्वा भगवान्सुरेशः

॥१४॥

सनत्कुमारप्रमुखैः समेतः संतोषयामास ततो यतात्मा

॥१५॥

ब्रह्मोवाच

नमोऽस्तु सर्वाय सुशान्तमूर्ताये ह्यघोररूपाय नमोनमस्ते ।

सर्वात्मने सर्व नमोनमस्ते महात्मने भूतपते नमस्ते

॥१६॥

ओङ्कार हुङ्कारपरिष्कृताय स्वधावषट्कार नमोनमस्ते ।

गुणत्रयेशाय महेश्वराय ते त्रयीमयाय त्रिगुणात्मने नमः

॥१७॥

त्वं शङ्करत्वं हि महेश्वरोऽसि प्रधानमग्र्यं त्वमसि प्रविष्टः ।

त्वं विष्णुरीशः प्रपितामहश्च त्वं सप्तजिह्वस्त्वमनन्तजिह्वः

॥१८॥

स्रष्टासि सृष्टिश्च विभो त्वमेव विश्वस्य वेद्यं च परं निधानम् ।

आहुर्द्विजा वेदविदो वरेण्यं परात्परस्त्वं परतः परोऽसि

॥१९॥

सूक्ष्मातिसूक्ष्मं प्रवदन्ति यच्च वाचो निवर्तन्ति मनो यतश्च

॥२०॥

श्रीमहादेव उवाच

त्वया स्तुतोऽहं विविधैश्च मन्त्रैः पुष्णामि शान्तिं तव पद्मयोने ।

ईक्षस्व मां लोकमिमं ज्वलन्तं वक्त्रैरनेकैः प्रसभं हरन्तम्

॥२१॥

एवमुक्त्वा स देवेशो देव्या सह जगत्पतिः ।

पितामहं समाश्वास्य तत्रैवान्तरधीयत

॥२२॥

इदं महत्पुण्यतमं वरिष्ठं स्तोत्रं निशम्येह गतिं लभन्ते ।

पापैरनेकैः परिवेष्टिता ये प्रयान्ति रुद्रं विमलैर्विमानैः

॥२३॥

भयं च तेषां न भवेत्कदाचित्पठन्ति ये तात इदं द्विजाग्र्याः ।

सङ्ग्रामचौराग्निवने तथाब्धौ तेषां शिवस्त्राति न संशयोऽत्र

॥२४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये ब्रह्मकृतशिवस्तुतिवर्णनं नाम षोडशोऽध्यायः ॥