मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १४०

3
अवन्तीखण्डः · रेवाखण्डः · 140

नन्दाह्रदतीर्थमाहात्म्यवर्णनम्

मार्कण्डेय उवाच

ततो गच्छेन्महाराज नन्दाह्रदमनुत्तमम् ।

यत्र सिद्धा महाभागा नन्दा देवी वरप्रदा

॥१॥

महिषासुरे महाकाये पुरा देवभयंकरे ।

शूलिन्या शूलभिन्नाङ्गे कृते दानवसत्तमे

॥२॥

येनैकादशरुद्राश्च ह्यादित्याः समरुद्गणाः ।

वसवो वायुना सार्द्धं चन्द्रादित्यौ सुरेश्वर

॥३॥

बलिना निर्जिता येन ब्रह्मविष्णुमहेश्वराः ।

सङ्ग्रामे सुमहाघोरे कृते देवभयंकरे

॥४॥

कृत्वा तत्कदनं घोरं नन्दा देवी सुरेश्वरी ।

यस्मात्स्नाता विशालाक्षी तेन नन्दाह्रदः स्मृतः

॥५॥

तत्र तीर्थे तु यः स्नात्वा नन्दामुद्दिश्य भारत ।

ददाति दानं विप्रेभ्यः सोऽश्वमेधफलं लभेत्

॥६॥

भैरवं चैव केदारं तथा रुद्रं महालयम् ।

नन्दाह्रदश्चतुर्थः स्यात्पञ्चमं भुवि दुर्लभम्

॥७॥

बहवस्तं न जानन्ति कामरागसमन्विताः ।

नर्मदाया ह्रदं पुण्यं सर्वपातकनाशनम्

॥८॥

तत्र तीर्थे तु यः स्नात्वा नन्दां देवीं प्रपूजयेत् ।

किं तस्य हिमवन्मध्यगमनेन प्रयोजनम्

॥९॥

परमार्थमविज्ञाय पर्यटन्ति तमोवृताः ।

तेषां समागमे पार्थ श्रम एव हि केवलम्

॥१०॥

पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् ।

तत्फलं समवाप्नोति स्नात्वा नन्दाह्रदे नृप

॥११॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दाह्रदतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः ॥