मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १५३

3
अवन्तीखण्डः · रेवाखण्डः · 153

आदित्येश्वरतीर्थमाहात्म्यवर्णनम्

मार्कण्डेय उवाच

तस्यैवानन्तरं चान्यद्रवितीर्थमनुत्तमम् ।

यस्य संदर्शनादेव मुच्यन्ते पातकैर्नराः

॥१॥

रवितीर्थे तु यः स्नात्वा नरः पश्यति भास्करम् ।

तस्य यत्फलमुद्दिष्टं स्वयं देवेन तच्छृणु

॥२॥

नान्धो न मूको बधिरः कुले भवति कश्चन ।

कुरूपः कुनखी वापि तस्य जन्मानि षोडश

॥३॥

दद्रुचित्रककुष्ठानि मण्डलानि विचर्चिका ।

नश्यन्ति देवभक्तस्य षण्मासान्नात्र संशयः

॥४॥

चरितं तस्य देवस्य पुराणे यच्छ्रुतं मया ।

न तत्कथयितुं शक्यं संक्षेपेण नृपोत्तम

॥५॥

तत्र तीर्थे तु यद्दानं रविमुद्दिश्य दीयते ।

विधिना पात्रविप्राय तस्यान्तो नास्ति कर्हिचित्

॥६॥

अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा ।

रवितीर्थे प्रदत्तानां दानानां फलमुत्तमम्

॥७॥

संक्रान्तौ यानि दानानि हव्यकव्यानि भारत ।

अपामिव समुद्रस्य तेषामन्तो न लभ्यते

॥८॥

येन येन यदा दत्तं येन येन यदा हुतम् ।

तस्य तस्य तदा काले सविता प्रतिदायकः

॥९॥

सप्त जन्मानि तान्येव ददात्यर्कः पुनः पुनः ।

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये

॥१०॥

संक्रान्तौ शतसाहस्रं व्यतीपाते त्वनन्तकम्

॥११॥

युधिष्ठिर उवाच

रवितीर्थं कथं तात पुण्यात्पुण्यतरं स्मृतम् ।

विस्तरेण ममाख्याहि श्रवणौ मम लम्पटौ

॥१२॥

श्रीमार्कण्डेय उवाच

शृणुष्वावहितो भूत्वा ह्यादित्येश्वरमुत्तमम् ।

उत्तरे नर्मदाकूले सर्वव्याधिविनाशनम्

॥१३॥

पुरा कृतयुगस्यादौ जाबालिर्ब्राह्मणोऽभवत् ।

वसिष्ठान्वयसम्भूतो वेदशास्त्रार्थपारगः

॥१४॥

पतिव्रता साधुशीला तस्य भार्या मनस्विनी ।

ऋतुकाले तु सा गत्वा भर्तारमिदमब्रवीत्

॥१५॥

वर्तते ऋतुकालो मे भर्तारं त्वामुपस्थिता ।

भज मां प्रीतिसंयुक्तः पुत्रकामां तु कामिनीम्

॥१६॥

एवमुक्तो द्विजः प्राह प्रियेऽद्याहं व्रतान्वितः ।

गच्छेदानीं वरारोहे दास्य ऋत्वन्तरे पुनः

॥१७॥

पुनर्द्वितीये सम्प्राप्ते ऋतुकालेऽप्युपस्थिता ।

पुनः सा छन्दिता तेन व्रतस्थोऽद्येति भारत

॥१८॥

इत्थं वा बहुशस्तेन छन्दिता च पुनः पुनः ।

निराशा चाभवत्तत्र भर्तारं प्रति भामिनी

॥१९॥

दुःखेन महताविष्टा विधायानशनं मृता ।

तेन भ्रूणहतेनैव पापेन सहसा द्विजः

॥२०॥

शीर्णघ्राणाङ्घ्रिरभवत्तपः सर्वं ननाश च ।

दृष्ट्वात्मानं स कुष्ठेन व्याप्तं ब्राह्मणसत्तमः

॥२१॥

विषादं परमं गत्वा नर्मदातटमाश्रितः ।

अपृच्छद्भास्करं तीर्थं द्विजेभ्यो द्विजसत्तमः

॥२२॥

आरोग्यं भास्करादिच्छेदिति संचिन्त्य चेतसि ।

कुतस्तद्भास्करं तीर्थं भो द्विजाः कथ्यतां मम

॥२३॥

तपस्तप्याम्यहं गत्वा तस्मिंस्तीर्थे सुभावितः

॥२४॥

द्विजा ऊचुः

रेवाया उत्तरे कूले आदित्येश्वरनामतः ।

विद्यते भास्करं तीर्थं सर्वव्याधिविनाशनम्

॥२५॥

तत्र याह्यविचारेण गन्तुं चेच्छक्यते त्वया ।

एवमुक्तो द्विजैर्विप्रो गन्तुं तत्र प्रचक्रमे

॥२६॥

व्याधिना परिभूतस्तु घोरेण प्राणहारिणा ।

यदा गन्तुं न शक्नोति तदा तेन विचिन्तितम्

॥२७॥

सामर्थ्यं ब्राह्मणानां हि विद्यते भुवनत्रये ।

लिङ्गपातः कृतो विप्रैर्देवदेवस्य शूलिनः

॥२८॥

समुद्रः शोषितो विप्रैर्विन्ध्यश्चापि निवारितः ।

अहमप्यत्र संस्थस्तु ह्यानयिष्यामि भास्करम्

॥२९॥

तपोबलेन महता ह्यादित्येश्वरसंज्ञितम् ।

इति निश्चित्य मनसा ह्युग्रे तपसि संस्थितः

॥३०॥

वायुभक्षो निराहारो ग्रीष्मे पञ्चाग्निमध्यगः ।

शिशिरे तोयमध्यस्थो वर्षास्वप्रावृताकृतिः

॥३१॥

साग्रे वर्षशते पूर्णे रविस्तुष्टोऽब्रवीदिदम्

॥३२॥

सूर्य उवाच

वरं वरय भद्रं ते किं ते मनसि वाञ्छितम् ।

अदेयमपि दास्यामि ब्रूहि मां त्वं चिरं कृथाः

॥३३॥

किमसाध्यं हि ते विप्र इदानीं तपसि स्थितः

॥३४॥

जाबालिरुवाच

यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।

मम प्रतिज्ञा देवेश ह्यादित्येश्वरदर्शने

॥३५॥

कृता तां पारितुं देव न शक्तो व्याधिना वृतः ।

शुक्लतीर्थेऽत्र तिष्ठ त्वमादित्येश्वरमूर्तिधृक्

॥३६॥

एवमुक्ते तु देवेशो बहुरूपो दिवाकरः ।

उत्तरे नर्मदाकूले क्षणादेव व्यदृश्यत

॥३७॥

तदाप्रभृति भूपाल तद्धि तीर्थं प्रचक्षते ।

सर्वपापहरं प्रोक्तं सर्वदुःखविनाशनम्

॥३८॥

यस्तु संवत्सरं पूर्णं नित्यमादित्यवासरे ।

स्नात्वा प्रदक्षिणाः सप्त दत्त्वा पश्यति भास्करम्

॥३९॥

यत्फलं लभते तेन तच्छृणुष्व मयोदितम् ।

प्रसुप्तं मण्डलानीह दद्रुकुष्ठविचर्चिकाः

॥४०॥

नश्यन्ति सत्वरं राजंस्तूलराशिरिवानले ।

धनपुत्रकलत्राणां पूरयेद्वत्सरत्रयात्

॥४१॥

यस्तु श्राद्धप्रदस्तत्र पित्ःनुद्दिश्य संक्रमे ।

तृप्यन्ति पितरस्तस्य पितृदेवो हि भास्करः

॥४२॥

इति ते कथितं सर्वमादित्येश्वरमुत्तमम् ।

सर्वपापहरं दिव्यं सर्वरोगविनाशनम्

॥४३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः ॥