मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १८१

3
अवन्तीखण्डः · रेवाखण्डः · 181

श्रीमार्कण्डेय उवाच - अतः परं प्रवक्ष्यामि भृगुतीर्थस्य विस्तरम्

श्रीमार्कण्डेय उवाच

अतः परं प्रवक्ष्यामि भृगुतीर्थस्य विस्तरम् ।

यं श्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः

॥१॥

तत्र तीर्थे तु विख्यातं वृषखातमिति श्रुतम् ।

भृगुणा तत्र राजेन्द्र तपस्तप्तं पुरा किल

॥२॥

युधिष्ठिर उवाच

भृगुकच्छे स विप्रेन्द्रो निवसन् केन हेतुना ।

तपस्तप्त्वा सुविपुलं परां सिद्धिमुपागतः

॥३॥

को वा वृष इति प्रोक्तस्तत्खातं येन खानितम् ।

एतत्सर्वं यथान्यायं कथयस्व ममानघ

॥४॥

श्रीमार्कण्डेय उवाच

एष प्रश्नो महाराज यस्त्वया परिपृच्छितः ।

तत्सर्वं कथयिष्यामि शृणुष्वैकमना नृप

॥५॥

षष्ठस्तु ब्रह्मणः पुत्रो मानसो भृगुसत्तमः ।

तपश्चचार विपुलं श्रीवृते क्षेत्र उत्तमे

॥६॥

दिव्यं वर्षसहस्रं तु संशुष्को मुनिसत्तमः ।

निराहारो निरानन्दः काष्ठपाषाणवत्स्थितः

॥७॥

ततः कदाचिद्देवेशो विमानवरमास्थितः ।

उमया सहितः श्रीमांस्तेन मार्गेण चागतः

॥८॥

दृष्ट्वा तत्र महाभागं भृगुं वल्मीकवत्स्थितम् ।

उवाच देवी देवेशं किमिदं दृश्यते प्रभो

॥९॥

ईश्वर उवाच

भृगुर्नाम महादेवि तपस्तप्त्वा सुदारुणम् ।

दिव्यं वर्षसहस्रं तु मम ध्यानपरायणः

॥१०॥

जलबिन्दु कुशाग्रेण मासे मासे पिबेच्च सः ।

संवत्सरशतं साग्रं तिष्ठते च वरानने

॥११॥

तच्छ्रुत्वा वचनं गौरी क्रोधसंवर्तितेक्षणा ।

उवाच देवी देवेशं शूलपाणिं महेश्वरम्

॥१२॥

सत्यमुग्रोऽसि लोके त्वं ख्यापितो वृषभध्वज ।

निष्कारुण्यो दुराराध्यः सर्वभूतभयंकरः

॥१३॥

दिव्यं वर्षसहस्रं तु ध्यायमानस्य शङ्करम् ।

ब्राह्मणस्य वरं कस्मान्न प्रयच्छसि शंस मे

॥१४॥

एवमुक्तोऽथ देवेशः प्रहस्य गिरिनन्दिनीम् ।

उवाच नरशार्दूल मेघगम्भीरया गिरा

॥१५॥

स्त्री विनश्यति गर्वेण तपः क्रोधेन नश्यति ।

गावो दूरप्रचारेण शूद्रान्नेन द्विजोत्तमाः

॥१६॥

क्रोधान्वितो द्विजो गौरी तेन सिद्धिर्न विद्यते ।

वर्षायुतैस्तथा लक्षैर्न किंचित्कारणं प्रिये

॥१७॥

एवम्भूतस्य तस्यापि क्रोधस्य चरितं महत् ।

एवमुक्त्वा ततः शम्भुर्वृषं दध्यौ च तत्क्षणे

॥१८॥

वृषो हि भगवन्ब्रह्मा वृषरूपी महेश्वरः ।

ध्यानप्राप्तः क्षणादेव गर्जयन् वै मुहुर्मुहुः

॥१९॥

किं करोमि सुरश्रेष्ठ ध्यातः केनैव हेतुना ।

करोमि कस्य निधनमकाले परमेश्वर

॥२०॥

ईश्वर उवाच

कोपयस्व द्विजश्रेष्ठं गत्वा त्वं भृगुसत्तमम् ।

येन मे श्रद्दधत्येषा गौरी लोकैकसुन्दरी

॥२१॥

एतच्छ्रुत्वा वृषो गत्वा धर्षणार्थं द्विजोत्तमम् ।

नर्मदायास्तटे रम्ये समीपे चाश्रमे भृगुः

॥२२॥

ततः शृङ्गैर्गृहीत्वा तु प्रक्षिप्तो नर्मदाजले ।

ततः क्रुद्धो भृगुस्तत्र दण्डहस्तो महामुनिः

॥२३॥

पशुवत्ते वधिष्यामि दण्डघातेन मस्तके ।

शिखायज्ञोपवीते च परिधानं वरासने

॥२४॥

सुसंवृतं कृतं तेन धावन्वै पृष्ठतो ब्रवीत्

॥२५॥

भृगुरुवाच

पापकर्मन्दुराचार कथं यास्यसि मे वृष ।

अवमानं समुत्पाद्य कृत्वा गर्तं खुरैस्तथा

॥२६॥

गर्जयित्वा महानादं ततो विप्रमपातयत् ।

आत्मानं पातितं ज्ञात्वा वृषेण परमेष्ठिना

॥२७॥

भृगुः क्रोधेन जज्वाल हुताहुतिरिवानलः ।

करे गृह्य महादण्डं ब्रह्मदण्डमिवापरम्

॥२८॥

हन्तुकामो वृषं विप्रोऽभ्यधावत युधिष्ठिर ।

धावमानं ततो दृष्ट्वा स वृषः पूर्वसागरे

॥२९॥

जम्बूद्वीपं कुशां क्रौञ्चं शाल्मलिं शाकमेव च ।

गोमेदं पुष्करं प्राप्तः पूर्वतो दक्षिणापथम्

॥३०॥

उत्तरं पश्चिमं चैव द्वीपाद्द्वीपं नरेश्वर ।

पातालं सुतलं पश्चाद्वितलं च तलातलम्

॥३१॥

तामिस्रमन्धतामिस्रं पातालं सप्तमं ययौ ।

ततो जगाम भूर्लोकं प्राणार्थी स वृषोत्तमः

॥३२॥

भुवः स्वश्चैव च महस्तपः सत्यं जनस्तथा ।

अनुगम्यमानो विप्रेण न शर्म लभते क्वचित्

॥३३॥

पापं कृत्वैव पुरुषः कामक्रोधबलार्दितः ।

ततो जगाम शरणं ब्रह्माणं विष्णुमेव च

॥३४॥

इन्द्रं चन्द्रं तथादित्यैर्याम्यवारुणमारुतैः ।

यदा सर्वैः परित्यक्तो लोकालोकैः सुरेश्वरैः

॥३५॥

तदा देवं नमस्कृत्वा रक्ष रक्षस्व चाब्रवीत् ।

वध्यमानं महादेवो भृगुणा परमेष्ठिना

॥३६॥

सर्वलोकैः परित्यक्तमनाथमिव तं प्रभो ।

दृष्ट्वा श्रान्तं वृषं देवः पतितं चरणाग्रतः

॥३७॥

ततः प्रोवाच भगवान् स्मितपूर्वमिदं वचः

॥३८॥

ईश्वर उवाच

पश्य देवि महाभागे शमं विप्रस्य सुन्दरि

॥३९॥

पार्वत्युवाच

यावद्विप्रो न चास्माकं कुप्यते परमेश्वर ।

तावद्वरं प्रयच्छाशु यदि चेच्छसि मत्प्रियम्

॥४०॥

ततो भस्मी जटी शूली चन्द्रार्धकृतशेखरः ।

उमार्द्धदेहो भगवान्भूत्वा विप्रमुवाच ह

॥४१॥

भोभो द्विजवरश्रेष्ठ क्रोधस्ते न शमं गतः ।

यस्मात्तस्मादिदं तात क्रोधस्थानं भविष्यति

॥४२॥

ततो दृष्ट्वा च तं शम्भुं भृगुः श्रेष्ठं त्रिलोचनम् ।

जानुभ्यामवनिं गत्वा इदं स्तोत्रमुदैरयत्

॥४३॥

भृगुरुवाच

प्रणिपत्य भूतनाथं भवोद्भवं भूतिदं भयातीतम् ।

भवभीतो भुवनपते विज्ञप्तुं किंचिदिच्छामि

॥४४॥

त्वद्गुणनिकरान्वक्तुं का शक्तिर्मानुषस्यास्य ।

वासुकिरपि न तावद्वक्तुं वदनसहस्रं भवेद्यस्य

॥४५॥

भक्त्या तथापि शङ्कर शशिधर करजालधवलिताशेष ।

स्तुतिमुखरस्य महेश्वर प्रसीद तव चरणनिरतस्य

॥४६॥

सत्त्वं रजस्तमस्त्वं स्थित्युत्पत्तिविनाशनं देव ।

भवभीतो भुवनपते भुवनेश शरणनिरतस्य

॥४७॥

यमनियमयज्ञदानं वेदाभ्यासश्च धारणायोगः ।

त्वद्भक्तेः सर्वमिदं नार्हन्ति वै कलासहस्रांशम्

॥४८॥

उत्कृष्टरसरसायनखड्गां जनविवरपादुकासिद्धिः ।

चिह्नं हि तव नतानां दृश्यत इह जन्मनि प्रकटम्

॥४९॥

शाठ्येन यदि प्रणमति वितरसि तस्यापि भूतिमिच्छया देव ।

भवति भवच्छेदकरी भक्तिर्मोक्षाय निर्मिता नाथ

॥५०॥

परदारपरस्वरतं परपरिभवदुःखशोकसंतप्तम् ।

परवदनवीक्षणपरं परमेश्वर मां परित्राहि

॥५१॥

अधिकाभिमानमुदितं क्षणभङ्गुरविभवविलसन्तम् ।

क्रूरं कुपथाभिमुखं शङ्कर शरणागतं परित्राहि

॥५२॥

दीनं द्विजं वरार्थे बन्धुजने नैव पूरिता ह्याशा ।

छिन्द्धि महेश्वर तृष्णां किं मूढं मां विडम्बयसि

॥५३॥

तृष्णां हरस्व शीघ्रं लक्ष्मीं दद हृदयवासिनीं नित्यम् ।

छिन्द्धि मदमोहपाशं मामुत्तारय भवाच्च देवेश

॥५४॥

करुणाभ्युदयं नाम स्तोत्रमिदं सर्वसिद्धिदं दिव्यम् ।

यः पठति भृगुं स्मरति च शिवलोकमसौ प्रयाति देहान्ते

॥५५॥

एतच्छ्रुत्वा महादेवः स्तोत्रं च भृगुभाषितम् ।

उवाच वरदोऽस्मीति देव्या सह वरोत्तमम्

॥५६॥

भृगुरुवाच

प्रसन्नो देवदेवेश यदि देयो वरो मम ।

सिद्धिक्षेत्रमिदं सर्वं भविता मम नामतः

॥५७॥

भवद्भिः सन्निधानेन स्थातव्यं हि सहोमया ।

देवक्षेत्रमिदं पुण्यं येन सर्वं भविष्यति

॥५८॥

अत्र स्थाने महास्थानं करोमि जगदीश्वर ।

तव प्रसादाद्देवेश पूर्यन्तां मे मनोरथाः

॥५९॥

ईश्वर उवाच

श्रिया कृतमिदं पूर्वं किं न ज्ञातं त्वया द्विज ।

अनुमान्य श्रियं देवीं यदीयं मन्यते भवान्

॥६०॥

कुरुष्व यदभिप्रेतं त्वत्कृतं नः तदन्यथा ।

एवमुक्त्वा गते देवे स्नात्वा गत्वा भृगुः श्रियम्

॥६१॥

कृत्वा च पारणं तत्र वसन्विप्रस्तया सह ।

श्रिया च सहितः काल इदं वचनमब्रवीत्

॥६२॥

भृगुरुवाच

यदि ते रोचते भद्रे दुःखासीनं च ते यदि ।

त्वया वृते महाक्षेत्रे स्वीयं स्थानं करोम्यहम्

॥६३॥

श्रीरुवाच

मम नाम्ना तु विप्रर्षे तव नाम्ना तु शोभनम् ।

स्थानं कुरुष्वाभिप्रेतमविरोधेन मे मतिः

॥६४॥

भृगुरुवाच

कच्छपाधिष्ठितं ह्येतत्तस्य पृष्ठिगतं रमे ।

संमन्त्र्य सहितं तेन शोभनं भवती कुरु

॥६५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छोत्पत्तिवर्णनं नामैकाशीत्युत्तरशततमोऽध्यायः ॥