मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २२

3
अवन्तीखण्डः · रेवाखण्डः · 22

विशल्यासम्भवः

श्री मार्कण्डेय उवाच

अतः परं प्रवक्ष्यामि सा विशल्या ह्यभूद्यथा ।

आश्चर्यभूता लोकस्य सर्वपापक्षयंकरी

॥१॥

ब्रह्मणो मानसः पुत्रो मुख्यो ह्यग्निरजायत ।

मुख्यो वह्निरितिप्रोक्त ऋषिः परमधार्मिकः

॥२॥

तस्य स्वाहाभवत्पत्नी स्मृता दाक्षायणी तु सा ।

तस्यां मुख्या महाराज त्रयः पुत्रास्तदाऽभवन्

॥३॥

अग्निराहवनीयस्तु दक्षिणाग्निस्तथैव च ।

गार्हपत्यस्तृतीयस्तु त्रैलोक्यं यैश्च धार्यते

॥४॥

तथा वै गार्हपत्योऽग्निर्जज्ञे पुत्रद्वयं शुभम् ।

पद्मकः शङ्कुनामा च तावुभावग्निसत्तमौ

॥५॥

वसन्नग्निर्नदीतीरे समाश्रित्य महत्तपः ।

रुद्रमाराधयामास जितात्मा सुसमाहितः

॥६॥

दशवर्षसहस्राणि चचार विपुलं तपः ।

तमुवाच महादेवः प्रसन्नो वृषभध्वजः

॥७॥

भोभो ब्रूहि महाभाग यत्ते मनसि वर्तते ।

दाता ह्यहमसंदेहो यद्यपि स्यात्सुदुर्लभम्

॥८॥

अग्निरुवाच

नर्मदेयं महाभागा सरितो याश्च षोडश ।

भवन्तु मम पत्न्यस्तास्त्वत्प्रसादान्महेश्वर

॥९॥

तासु वै चिन्तितान् पुत्रानग्र्यानुत्पादयाम्यहम् ।

एष एव वरो देव दीयतां मे महेश्वर

॥१०॥

ईश्वर उवाच

एतास्तु धिष्णिनाम्न्यो वै भविष्यन्ति सरिद्वराः ।

पत्न्यस्तव विशालाक्ष्यो वेदे ख्याता न संशयः

॥११॥

तासां पुत्रा भविष्यन्ति ह्यग्नयो येऽध्वरे स्मृताः ।

धिष्ण्यानाम सुविख्याता यावदाभूतसम्प्लवम्

॥१२॥

एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ।

नर्मदा च सरिच्छ्रेष्ठा तस्य भार्या बभूव ह

॥१३॥

कावेरी कृष्णवेणी च रेवा च यमुना तथा ।

गोदावरी वितस्ता च चन्द्रभागा इरावती

॥१४॥

विपाशा कौशिकी चैव सरयूः शतरुद्रिका ।

शिप्रा सरस्वती चैव ह्रादिनी पावनी तथा

॥१५॥

एताः षोडशा नद्यो वै भार्यार्थं संव्यवस्थिताः ।

तदात्मानं विभज्याशु धिष्णीषु स महाद्युतिः

॥१६॥

व्यभिचारात्तु भर्तुर्वै नर्मदाद्यासु धिष्णिषु ।

उत्पन्नाः शुचयः पुत्राः सर्वे ते धिष्ण्यपाः स्मृताः

॥१७॥

तस्याश्च नर्मदायास्तु धिष्णीन्द्रो नाम विश्रुतः ।

बभूव पुत्रो बलवान्रूपेणाप्रतिमो नृप

॥१८॥

ततो देवासुरं युद्धमभवल्लोमहर्षणम् ।

मयतारकमित्येवं त्रिषु लोकेषु विश्रुतम्

॥१९॥

तत्र दैत्यैर्महाघोरैर्मयतारपुरोगमैः ।

ताडितास्ते सुरास्त्रस्ता विष्णुं वै शरणं ययुः

॥२०॥

त्रायस्व नो हृषीकेशा घोरादस्मान्महाभयात् ।

दैत्यान्सर्वान्संहरस्व मयतारपुरोगमान्

॥२१॥

एवमुक्तः स भगवान्दिशो दश व्यलोकयत् ।

ततो भगवता दृष्टौ रणे पावकमारुतौ

॥२२॥

आहूतौ विष्णुना तौ तु सकाशं जग्मतुः क्षणात् ।

स्थितौ तौ प्रणतौ चाग्रे देवदेवस्य धीमतः

॥२३॥

ततो धिष्णिः पावकेन्द्रो देवेनोक्तो महात्मना ।

निर्दहेमान्महाघोरान्नार्मदेय महासुरान्

॥२४॥

अथैवमुक्तौ तौ देवौ रणे पावकमारुतौ ।

दैत्यान् ददहतुः सर्वान्मयतारपुरोगमान्

॥२५॥

दह्यमानास्तु ते सर्वे शस्त्रैरग्निं त्ववेष्टयन् ।

दिव्यैरग्न्यर्कसङ्काशैः शतशोऽथ सहस्रशः

॥२६॥

तांश्चाग्निः शस्त्रनिकरैर्निर्ददाह महासुरान् ।

ज्वालामालाकुलं सर्वं वायुना निर्मितं तदा

॥२७॥

दह्यमानास्ततो दैत्या अग्निज्वालासमावृताः ।

प्रविश्य पातालतलं जले लीनाः सहस्रशः

॥२८॥

ततः कुमारमग्निं तु नर्मदापुत्रमव्ययम् ।

पूजयित्वा सुराः सर्वे जग्मुस्ते त्रिदशालयम्

॥२९॥

सशल्यस्तु महातेजा रेवापुत्रो वृतोऽग्निभिः ।

नर्मदामागतः क्षिप्रं मातरं द्रष्टुमुत्सुकः

॥३०॥

तं दृष्ट्वा पुत्रमायान्तं शस्त्रौघेण परिक्षतम् ।

नर्मदा पुण्यसलिला अभ्युत्थाय सुविस्मिता

॥३१॥

पर्यष्वजत बाहुभ्यां प्रस्नवापीडितस्तनी ।

सशल्यं पुत्रमादाय कापिलं ह्रदमाविशत्

॥३२॥

प्रविष्टमात्रे तु ह्रदे कापिले पापनाशिनि ।

सशल्यं तं विशल्यं च क्षणात्कृतवती तदा

॥३३॥

स विशल्योऽभवद्यस्मात्प्राप्य तस्याः शिवं जलम् ।

कपिला नामतस्तेन विशल्या चोच्यते बुधैः

॥३४॥

अन्येऽपि तत्र ये स्नाताः शुचयस्तु समाहिताः ।

पापशल्यैः प्रमुच्यन्ते मृता यान्ति सुरालयम्

॥३५॥

एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं पुरा त्वया ।

उत्पत्तिकारणं तात विशल्याया नरेश्वर

॥३६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये विशल्यासम्भवो नाम द्वाविंशोऽध्यायः ॥