मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ३२

3
अवन्तीखण्डः · रेवाखण्डः · 32

पत्रेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

पत्त्रेश्वरं ततो गच्छेत्सर्वपापप्रणाशनम् ।

यत्र सिद्धो महाभागश्चित्रसेनसुतो बली

॥१॥

युधिष्ठिर उवाच

कोऽसौ सिद्धस्तदा ब्रह्मंस्तस्मिंस्तीर्थे महातपाः ।

पुत्रः कस्य तु को हेतुरेतदिच्छामि वेदितुम्

॥२॥

श्रीमार्कण्डेय उवाच

चित्रोनाम महातेजा इन्द्रस्य दयितः पुरा ।

तस्य पुत्रो नृपश्रेष्ठ पत्त्रेश्वर इति श्रुतः

॥३॥

रूपवान् सुभगश्चैव सर्वशत्रुभयंकरः ।

इन्द्रस्य दयितोऽत्यर्थं जय इत्येव चापरः

॥४॥

स कदाचित्सभामध्ये सर्वदेवसमागमे ।

मेनकानृत्यगीतेन मोहितः सुचिरं किल

॥५॥

तिष्ठते गतमर्यादो गतप्राण इव क्षणात् ।

तावत्सुरपतिर्देवः शशापाथाजितेन्द्रियम्

॥६॥

यस्मात्त्वं स्वर्गसंस्थोऽपि मर्त्यधर्ममुपेयिवान् ।

तस्मान्मर्त्ये चिरं कालं क्षपयिष्यस्यसंशयम्

॥७॥

एवमुक्तः सुरेन्द्रेण चित्रसेनसुतो युवा ।

वेपमानः सुरश्रेष्ठः कृताञ्जलिरुवाच ह

॥८॥

पत्त्रेश्वर उवाच

मया पापेन मूढेन अजितेन्द्रियचेतसा ।

प्राप्तं वै यत्फलं तस्य प्रसादं कर्तुमर्हसि

॥९॥

शक्र उवाच

नर्मदातटमाश्रित्य द्वादशाब्दं जितेन्द्रियः ।

आराधय शिवं शान्तं पुनः प्राप्स्यसि सद्गतिम्

॥१०॥

सत्यशौचरतानां च धर्मिष्ठानां जितात्मनाम् ।

लोकोऽयं पापिनां नैव इति शास्त्रस्य निश्चयः

॥११॥

एवमुक्ते महाराज सहस्राक्षेण धीमता ।

गन्धर्वतनयो धीमान्प्रणम्यागात्तु भूतलम्

॥१२॥

रेवाया विमले तोये ब्रह्मावर्तसमीपतः ।

स्नात्वा जप्त्वा विधानेन अर्चयित्वा च शङ्करम्

॥१३॥

वाय्वम्बुपिण्याकफलैश्च पुष्पैः पर्णैश्च मूलाशनयावकेन ।

तताप पञ्चाग्नितपोभिरुग्रैस्ततश्च तोषं समगात्स देवः

॥१४॥

पिनाकपाणिं वरदं त्रिशूलिनमुमापतिं ह्यन्धकनाशनं च ।

चन्द्रार्धमौलिं गजकृत्तिवाससं दृष्ट्वा पपाताग्रगतं समीक्ष्य

॥१५॥

ईश्वर उवाच

वरं वृणीष्व भद्रं ते वरदोऽहं तवानघ ।

यमिच्छसि ददाम्यद्य नात्र कार्या विचारणा

॥१६॥

पत्त्रेश्वर उवाच

यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।

अत्र त्वं सततं तीर्थे मम नाम्ना भव प्रभो

॥१७॥

एतच्छ्रुत्वा महादेवो हर्षगद्गदया गिरा ।

तथेत्युक्त्वा ययौ हृष्ट उमया सह शङ्करः

॥१८॥

सोऽपि तत्तीर्थमाप्लुत्य गते देवे दिवं प्रति ।

स्नात्वा जाप्यविधानेन तर्पयित्वा पितॄन् पुनः

॥१९॥

स्थापयामास देवेशं तस्मिंस्तीर्थे विधानतः ।

पत्त्रेश्वरं तु विख्यातं त्रिषु लोकेषु भारत

॥२०॥

इन्द्रलोकं गतः शापान्मुक्तः सोऽपि नरेश्वर ।

हृष्टः प्रमुदितो रम्यं जयशब्दादिमङ्गलैः

॥२१॥

एष ते कथितः प्रश्नः पृष्टो यो वै युधिष्ठिर ।

तत्र स्नानेन चैकेन सर्वपापैः प्रमुच्यते

॥२२॥

यस्त्वर्चयेन्महादेवं तस्मिंस्तीर्थे युधिष्ठिर ।

स्नात्वाभ्यर्च्य पित्ःन् देवान् सोऽश्वमेधफलं लभेत्

॥२३॥

मृतो वर्षशतं साग्रं क्रीडित्वा च शिवे पुरे ।

राजा वा राजतुल्यो वा पश्चान्मर्त्येषु जायते

॥२४॥

वेदवेदाङ्गतत्त्वज्ञो जीवेच्च शरदः शतम् ।

व्याधिशोकविनिर्मुक्तः पुनः स्मरति तज्जलम्

॥२५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पत्रेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥