मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ३

3
अवन्तीखण्डः · रेवाखण्डः · 3

मार्कण्डेयकृतपोतार्धारोहणवृत्तान्तवर्णनम्

युधिष्ठिर उवाच

सप्तकल्पक्षया घोरास्त्वया दृष्टा महामुने ।

न चापीहास्ति भगवन्दीर्घायुरिह कश्चन

॥१॥

त्वया ह्येकार्णवे सुप्तः पद्मनाभः सुरारिहा ।

दृष्टः सहस्रचरणः सहस्रनयनोदरः

॥२॥

त्वं किलानुग्रहात्तस्य दह्यमाने चराचरे ।

न क्षयं समनुप्राप्तो वरदानान्महात्मनः

॥३॥

किं त्वयाश्चर्यभूतं हि दृष्टं च भ्रमतानघ ।

एतदाचक्ष्व भगवन्परं कौतूहलं हि मे

॥४॥

सम्प्राप्ते च महाघोरे युगस्यान्ते महाक्षये ।

अनावृष्टिहते लोके पुरा वर्षशताधिके

॥५॥

औषधीनां क्षये घोरे देवदानववर्जिते ।

निर्वीर्ये निर्वषट्कारे कलिना दूषिते भृशम्

॥६॥

सरित्सरस्तडागेषु पल्वलोपवनेषु च ।

संशुष्केषु तदा ब्रह्मन्निराकारे युगक्षये

॥७॥

जनं प्राप्ते महर्लोके ब्रह्मक्षत्रविशादयः ।

ऋषयश्च महात्मानो दिव्यतेजःसमन्विताः

॥८॥

स्थितानि कानि भूतानि गतान्येव महामुने ।

एतत्सर्वं महाभाग कथयस्व पृथक्पृथक्

॥९॥

भूतानि कानि विप्रेन्द्र कथं सिद्धिमवाप्नुयात् ।

ब्रह्मविष्ण्विन्द्ररुद्राणां काले प्राप्ते सुदारुणे

॥१०॥

एवमुक्तस्ततः सोऽथ धर्मराजेन धीमता ।

मार्कण्डः प्रत्युवाचेदमृषिसंघैः समावृतः

॥११॥

श्रीमार्कण्डेय उवाच

शृण्वन्तु ऋषयः सर्वे त्वया सह नरेश्वर ।

महत्पुराणं पूर्वोक्तं शंभुना वायुदैवते

॥१२॥

वायोः सकाशात्स्कन्देन श्रुतमेतत्पुरातनम् ।

वसिष्ठः श्रुतवांस्तस्मात्पराशरस्ततः परम्

॥१३॥

तस्माच्च जातूकर्ण्येन तस्माच्चैव महर्षिभिः ।

एवं परम्पराप्रोक्तं शतसंख्यैर्द्विजोत्तमैः

॥१४॥

संहिता शतसाहस्री पुरोक्ता शंभुना किल ।

आलोड्य सर्वशास्त्राणि वदार्थं तत्त्वतः पुरा

॥१५॥

युगरूपेण सा पश्चाच्चतुर्धा विनियोजिता ।

मदप्रज्ञानुसारेण नराणां तु महर्षिभिः

॥१६॥

आराध्य पशुभर्तारं मया पूर्वं महेश्वरम् ।

पुराणं श्रुतमेतद्धि तत्ते वक्ष्याम्यशेषतः

॥१७॥

यच्छ्रुत्वा मुच्यते जन्तुः सर्वपापैर्नरेश्वर ।

मानसैः कर्मजैश्चैव सप्तजन्मसु संचितैः

॥१८॥

सप्तकल्पक्षया घोरा मया दृष्टाः पुनःपुनः ।

प्रसादाद्देवदेवस्य विष्णोश्च परमेष्ठिनः

॥१९॥

द्वादशादित्यनिर्दग्धे जगत्येकार्णवीकृते ।

श्रान्तोऽहं विभ्रमंस्तत्र तरन्बाहुभिरर्णवम्

॥२०॥

अथाहं सलिले राजन्नादित्यसमरूपिणम् ।

पुरा पुरुषमद्राक्षमनादिनिधनं प्रभुम्

॥२१॥

शृङ्गं चैवाद्रिराजस्य भासयन्तं दिशो दश ।

द्वितीयोऽन्यो मनुर्दृष्टः पुत्रपौत्रसमन्वितः

॥२२॥

अगाधे भ्रमते सोऽपि तमोभूते महार्णवे ।

अविश्रमन्मुहूर्तं तु चक्रारूढ इव भ्रमन्

॥२३॥

अथाहं भयादुद्विग्नस्तरन्बाहुभिरर्णवम् ।

तत्रस्थोऽहं महामत्स्यमपश्यं मदसंयुतम्

॥२४॥

ततोऽब्रवीत्स मां दृष्ट्वा एह्येहीति च भारत ।

परं प्रधानः सर्वेषां मत्स्यरूपो महेश्वरः

॥२५॥

ततोऽहं त्वरया गत्वा तन्मुखे मनुजेश्वर ।

सुश्रान्तो विगतज्ञानः परं निर्वेदमागतः

॥२६॥

ततोऽद्राक्षं समुद्रान्ते महदावर्तसंकुलाम् ।

उद्यत्तरंगसलिलां फेनपुञ्जाट्टहासिनीम्

॥२७॥

नदीं कामगमां पुण्यां झषमीनसमाकुलाम् ।

नद्यास्तस्यास्तु मध्यस्था प्रमदा कामरूपिणी

॥२८॥

नीलोत्पलदलश्यामा महत्प्रक्षोभवाहिनी ।

दिव्यहाटकचित्राङ्गी कनकोज्ज्वलशोभिता

॥२९॥

द्वाभ्यां संगृह्य जानुभ्यां महत्पोतं व्यवस्थिता ।

तां मनुः प्रत्युवाचेदं का त्वं दिव्यवराङ्गने

॥३०॥

तिष्ठसे केन कार्येण त्वमत्र सुरसुन्दरि ।

सुरासुरगणे नष्टे भ्रमसे लीलयार्णवे

॥३१॥

सरितः सागराः शैलाः क्षयं प्राप्ता ह्यनेकशः ।

त्वमेका तु कथं साध्वि तिष्ठसे कारणं महत् ।

श्रोतुमिच्छाम्यहं देवि कथयस्व ह्यशेषतः

॥३२॥

अबलोवाच

ईश्वराङ्गसमुद्भूता ह्यमृतानाम विश्रुता ।

सरित्पापहरा पुण्या मामाश्रित्य भयं कुतः

॥३३॥

साहं पोतमिमं तुभ्यं गृहीत्वा ह्यागता द्विज ।

न ह्यस्य पोतस्य क्षयो यत्र तिष्ठति शंकरः

॥३४॥

तस्यास्तद्वचनं श्रुत्वा विस्मयोत्फुल्ललोचनः ।

मनुना सह राजेन्द्र पोतारूढो ह्यहं तदा

॥३५॥

कृताञ्जलिपुटो भूत्वा प्रणम्य शिरसा विभुम् ।

व्यापिनं परमेशानमस्तौषमभयप्रदम्

॥३६॥

सद्योजाताय देवाय वामदेवाय वै नमः ।

भवे भवे नमस्तुभ्यं भक्तिगम्याय ते नमः

॥३७॥

भूर्भुवाय नमस्तुभ्यं रामज्येष्ठाय वै नमः ।

नमस्ते भद्रकालाय कलिरूपाय वै नमः

॥३८॥

अचिन्त्याव्यक्तरूपाय महादेवाय धामने ।

विद्महे देवदेवाय तन्नो रुद्र नमोनमः

॥३९॥

जगत्सृष्टिविनाशानां कारणाय नमोनमः ।

एवं स्तुतो महादेवः पूर्वं सृष्टया मयानघ

॥४०॥

प्रसन्नो मावदत्पश्चाद्वरं वरय सुव्रत

॥४१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मार्कण्डेयधर्मराजसंवादे कल्पक्षये मार्कण्डेयकृतपोतार्धारोहणवृत्तान्तवर्णनंनाम तृतीयोऽध्यायः ॥