मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १०३

3
अवन्तीखण्डः · रेवाखण्डः · 103

एरण्डीसङ्गमतीर्थफलमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल एरण्डीसङ्गमं परम् ।

यच्छ्रुतं वै मया राजञ्छिवस्य वदतः पुरा

॥१॥

एतदेव पुरा प्रश्नं गौर्या पृष्टस्तु शङ्करः ।

प्रोवाच नृपशार्दूल गुह्याद्गुह्यतरं शुभम्

॥२॥

ईश्वर उवाच

शृणु देवि परं गुह्यं नाख्यातं कस्यचिन्मया ।

रेवायाश्चोत्तरे कूले तीर्थं परमशोभनम् ।

भ्रूणहत्याहरं देवि कामदं पुत्रवर्धनम्

॥३॥

पार्वत्युवाच

कथयस्व महादेव तीर्थं परमशोभनम् ।

भ्रूणहत्याहरं कस्मात्कामदं स्वर्गदर्शनम्

॥४॥

ईश्वर उवाच

अत्रिर्नाम महादेवि मानसो ब्रह्मणः सुतः ।

अग्निहोत्ररतो नित्यं देवतातिथिपूजकः

॥५॥

सोमसंस्थाश्च सप्तैव कृता विप्रेण पार्वति ।

अनसूयेति विख्याता भार्या तस्य गुणान्विता

॥६॥

पतिव्रता पतिप्राणा पत्युः कार्यहिते रता ।

एवं याति ततः काले न पुत्रा न च पुत्रिका

॥७॥

अपराह्णे महादेवि सुखासीनौ तु सुन्दरि ।

वदन्तौ सुखदुःखानि पूर्ववृत्तानि यानि च

॥८॥

अत्रिरुवाच

सौम्ये शुभे प्रिये कान्ते चारुसर्वाङ्गसुन्दरि ।

विद्याविनयसम्पन्ने पद्मपत्रनिभेक्षणे

॥९॥

पूर्णचन्द्रनिभाकारे पृथुश्रोणिभरालसे ।

न त्वया सदृशी नारी त्रैलोक्ये सचराचरे

॥१०॥

रतिपुत्रफला नारी पठ्यते वेदवादिभिः ।

पुत्रहीनस्य यत्सौख्यं तत्सौख्यं मम सुन्दरि

॥११॥

यथाहं न तथा पुत्रः समर्थः सर्वकर्मसु ।

पुन्नामनरकाद्भद्रे जातमात्रेण सुन्दरि

॥१२॥

पतन्तं रक्षयेद्देवि महापातकिनं यदि ।

महाघोरे गता वापि दुष्टकर्मपितामहाः

॥१३॥

तद्धरन्ति सुपुत्राश्च वैतरण्यां गतानपि ।

पुत्रेण लोकाञ्जयति पौत्रेण परमा गतिः

॥१४॥

अथ पुत्रस्य पौत्रेण प्रगच्छेद्ब्रह्म शाश्वतम् ।

नास्ति पुत्रसमो बन्धुरिह लोके परत्र च

॥१५॥

अहश्च मध्यरात्रे च चिन्तयानस्य सर्वदा ।

शुष्यन्ति मम गात्राणि ग्रीष्मे नद्युदकं यथा

॥१६॥

अनसूयोवाच

यत्त्वया शोचितं विप्र तत्सर्वं शोचयाम्यहम् ।

तवोद्वेगकरं यच्च तन्मे दहति चेतसि

॥१७॥

येन पुत्रा भविष्यन्ति आयुष्मन्तो गुणान्विताः ।

तत्कार्यं च समीक्षस्व येन तुष्येत्प्रजापतिः

॥१८॥

अत्रिरुवाच

तपस्तप्तं मया भद्रे जातमात्रेण दुष्करम् ।

व्रतोपवासनियमैः शाकाहारेण सुन्दरि

॥१९॥

क्षीणदेहस्तु तिष्ठामि ह्यशक्तोऽहं महाव्रते ।

तेन शोचामि चात्मानं रहस्यं कथितं मया

॥२०॥

अनसूयोवाच

भर्तुः पतिव्रता नारी रतिपुत्रविवर्धिनी ।

त्रिवर्गसाधना सा च श्लाघ्या च विदुषां जने

॥२१॥

जपस्तपस्तीर्थयात्रा मृडेज्यामन्त्रसाधनम् ।

देवताराधनं चैव स्त्रीशूद्रपतनानि षट्

॥२२॥

ईदृशं तु महादोषं स्त्रीणां तु व्रतसाधने ।

वदन्ति मुनयः सर्वे यथोक्तं वेदभाषितम्

॥२३॥

अनुज्ञाता त्वया ब्रह्मंस्तपस्तप्स्यामि दुष्करम् ।

पुत्रार्थित्वं समुद्दिश्य तोषयामि सुरोत्तमान्

॥२४॥

अत्रिरुवाच

साधु साधु महाप्राज्ञे मम संतोषकारिणि ।

आज्ञाता त्वं मया भद्रे पुत्रार्थं तप आश्रय

॥२५॥

देवतानां मनुष्याणां पित्ःणामनृणो भवे ।

न भार्यासदृशो बन्धुस्त्रिषु लोकेषु विद्यते

॥२६॥

तेन देवाः प्रशंसन्ति न भार्यासदृशं सुखम् ।

सन्मुखे मन्मुखाः पुत्राः विलोमे तु पराङ्मुखाः

॥२७॥

तेन भार्यां प्रशंसन्ति सदेवासुरमानुषाः ।

महाव्रते महाप्राज्ञे सत्त्ववति शुभेक्षणे

॥२८॥

तपस्तपस्व शीघ्रं त्वं पुत्रार्थं तु ममाज्ञया ।

एतद्वाक्यावसाने तु साष्टाङ्गं प्रणताब्रवीत्

॥२९॥

त्वत्प्रसादेन विप्रेन्द्र सर्वान्कामानवाप्नुयाम् ।

हंसलीलागतिः सा च मृगाक्षी वरवर्णिनी

॥३०॥

नियमस्था ततो भूत्वा सम्प्राप्ता नर्मदां नदीम् ।

शिवस्वेदोद्भवां देवीं सर्वपापप्रणाशनीम्

॥३१॥

यस्या दर्शनमात्रेण नश्यते पापसञ्चयः ।

स्नानमात्रेण वै यस्या अश्वमेधफलं लभेत्

॥३२॥

ये पिबन्ति महादेवि श्रद्दधानाः पयः शुभम् ।

सोमपानेन तत्तुल्यं नात्र कार्या विचारणा

॥३३॥

ये स्मरन्ति दिवा रात्रौ योजनानां शतैरपि ।

मुच्यन्ते सर्वपापेभ्यो रुद्रलोकं प्रयान्ति ते

॥३४॥

नर्मदायाः समीपे तु तावुभौ योजनद्वये ।

न पश्यन्ति यमं तत्र ये मृता वरवर्णिनि

॥३५॥

ततस्तदुत्तरे कूले एरण्ड्याः सङ्गमे शुभे ।

नियमस्था विशालाक्षी शाकाहारेण सुन्दरि

॥३६॥

तोषयन्ती त्रींश्च देवाञ्छुभैः स्तोत्रैर्व्रतैस्तथा ।

ग्रीष्मेषु च महादेवि पञ्चाग्निं साधयेत्ततः

॥३७॥

वर्षाकाले चार्द्रवासाश्चरेच्चान्द्रायणानि च ।

हेमन्ते तु ततः प्राप्ते तोयमध्ये वसेत्सदा

॥३८॥

प्रातःस्नानं ततः सन्ध्यां कुर्याद्देवर्षितर्पणम् ।

देवानामर्चनं कृत्वा होमं कुर्याद्यथाविधि

॥३९॥

यजते वैष्णवांल्लोकान् स्नानजाप्यहुतेन च ।

एवं वर्षशते प्राप्ते रुद्रविष्णुपितामहाः

॥४०॥

सम्प्राप्ता द्विजरूपैस्तु एरण्ड्याः सङ्गमे प्रिये ।

पुरतः संस्थितास्तस्या वेदमभ्युद्धरन्ति च

॥४१॥

अनसूया जपं त्यक्त्वा निरीक्ष्य तान्मुहुर्मुहुः ।

उत्थिता सा विशालाक्षी अर्घं दत्त्वा यथाविधि

॥४२॥

अद्य मे सफलं जन्म अद्य मे सफलं तपः ।

दर्शनेन तु विप्राणां सर्वपापैः प्रमुच्यते

॥४३॥

प्रदक्षिणं ततः कृत्वा साष्टाङ्गं प्रणताब्रवीत् ।

कन्दमूलफलं शाकं नीवारानपि पावनान् ।

प्रयच्छाम्यहमद्यैव मुनीनां भावितात्मनाम्

॥४४॥

विप्रा ऊचुः

तपसा तु विचित्रेण तपःसत्येन सुव्रते ।

तृप्ताः स्म सर्वकामैस्तु सुव्रते तव दर्शनात्

॥४५॥

अस्माकं कौतुकं जातं तापसेन व्रतेन यत् ।

स्वर्गमोक्षसुतस्यार्थे तपस्तपसि दुष्करम्

॥४६॥

अनसूयोवाच

तपसा सिध्यते स्वर्गस्तपसा परमा गतिः ।

तपसा चार्थकामौ च तपसा गुणवान्सुतः ।

तप एव च मे विप्राः सर्वकामफलप्रदम्

॥४७॥

विप्रा ऊचुः

तन्वी श्यामा विशालाक्षी स्निग्धाङ्गी रूपसंयुता ।

हंसलीलागतिगमा त्वं च सर्वाङ्गसुन्दरी

॥४८॥

किं च ते तपसा कार्यमात्मानं शोच्यसे कथम्

॥४९॥

अनसूयोवाच

यदि रुद्रश्च विष्णुश्च स्वयं साक्षात्पितामहः ।

गूढरूपधराः सर्वे तच्चिह्नमुपलक्षये

॥५०॥

तस्या वाक्यावसाने तु स्वरूपं दर्शयन्ति ते ।

स्वस्वरूपैः स्थिता देवाः सूर्यकोटिसमप्रभाः

॥५१॥

चतुर्भुजो महादेवि शङ्खचक्रगदाधरः ।

अतसीपुष्पवर्णस्तु पीतवासा जनार्दनः

॥५२॥

गरुत्मान्वाहनं यस्य श्रिया च सहितो हरिः ।

प्रसन्नवदनः श्रीमान्स्वयंरूपो व्यवस्थितः

॥५३॥

पीतवासा महादेवि चतुर्वदनपङ्कजः ।

हंसोपरि समारूढो ह्यक्षमालाकरोद्यतः

॥५४॥

आगतो नर्मदातीरे ब्रह्मा लोकपितामहः ।

योऽसौ सर्वजगद्व्यापी स्वयं साक्षान्महेश्वरः

॥५५॥

वृषभं तु समारूढो दशबाहुसमन्वितः ।

भस्माङ्गरागशोभाढ्यः पञ्चवक्त्रस्त्रिलोचनः

॥५६॥

जटामुकुटसंयुक्तः कृतचन्द्रार्द्धशेखरः ।

एवंरूपधरो देवः सर्वव्यापी महेश्वरः

॥५७॥

अनसूया निरीक्ष्यैतद्देवानां दर्शनं परम् ।

वेपमाना ततः साध्वी सुरान्दृष्ट्वा मुहुर्मुहुः

॥५८॥

अनसूयोवाच

किं व्यापारस्वरूपास्तु विष्णुरुद्रपितामहाः ।

एतद्वै श्रोतुमिच्छामि ह्यशेषं कथयन्तु मे

॥५९॥

ब्रह्मोवाच

प्रावृट्कालो ह्यहं ब्रह्मा आपश्चैव प्रकीर्तिताः ।

मेघरूपो ह्यहं प्रोक्तो वर्षयामि च भूतले

॥६०॥

अहं सर्वाणि बीजानि प्राक्सन्ध्यासूदिते रवौ ।

एतद्वै कारणं सर्वं रहस्यं कथितं परम्

॥६१॥

विष्णुरुवाच

हेमन्तश्च भवेद्विष्णुर्विश्वरूपं चराचरम् ।

पालनाय जगत्सर्वं विष्णोर्माहात्म्यमुत्तमम्

॥६२॥

रुद्र उवाच

ग्रीष्मकालो ह्यहं प्रोक्तः सर्वभूतक्षयंकरः ।

कर्षयामि जगत्सर्वं रुद्ररूपस्तपस्विनि

॥६३॥

एवं ब्रह्मा च विष्णुश्च रुद्रश्चैव महाव्रते ।

त्रयो देवास्त्रयः सन्ध्यास्त्रयः कालास्त्रयोऽग्नयः

॥६४॥

तथा ब्रह्मा च विष्णुश्च रुद्रश्चैकात्मतां गतः ।

वरं दद्युश्च ते भद्रे यस्त्वया मनसीप्सितम्

॥६५॥

अनसूयोवाच

धन्या पुण्या ह्यहं लोके श्लाघ्या वन्द्या च सर्वदा ।

ब्रह्मा विष्णुश्च रुद्रश्च प्रसन्नवदनाः शुभाः

॥६६॥

यदि तुष्टास्त्रयो देवा दयां कृत्वा ममोपरि ।

अस्मिंस्तीर्थे तु सांनिध्याद्वरदाः सन्तु मे सदा

॥६७॥

रुद्र उवाच

एवं भवतु ते वाक्यं यत्त्वया प्रार्थितं शुभे ।

प्रत्यक्षा वैष्णवी माया एरण्डीनाम नामतः

॥६८॥

यस्या दर्शनमात्रेण नश्यते पापसञ्चयः ।

चैत्रमासे तु सम्प्राप्ते अहोरात्रोषितो भवेत्

॥६९॥

एरण्ड्याः सङ्गमे स्नात्वा ब्रह्महत्यां व्यपोहति ।

रात्रौ जागरणं कुर्यात्प्रभाते भोजयेद्द्विजान्

॥७०॥

यथोक्तेन विधानेन पिण्डं दद्याद्यथाविधि ।

प्रदक्षिणां ततो दद्याद्धिरण्यं वस्त्रमेव च

॥७१॥

रजतं च तथा गावो भूमिदानमथापि वा ।

सर्वं कोटिगुणं प्रोक्तमिति स्वायम्भुवोऽब्रवीत्

॥७२॥

ये म्रियन्ति नरा देवि एरण्ड्याः सङ्गमे शुभे ।

यावद्युगसहस्रं तु रुद्रलोके वसन्ति ते

॥७३॥

अहोरात्रोषितो भूत्वा जपेद्रुद्रांश्च वैदिकान् ।

एकादशैकसंज्ञांश्च स याति परमां गतिम्

॥७४॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।

पुत्रार्थी लभते पुत्रांल्लभेत्कामान् यथेप्सितान्

॥७५॥

एरण्ड्याः सङ्गमे स्नात्वा रेवाया विमले जले ।

महापातकिनो वापि ते यान्ति परमां गतिम्

॥७६॥

अनसूयोवाच

यदि तुष्टास्त्रयो देवा मम भक्तिप्रचोदिताः ।

मम पुत्रा भवन्त्वेव हरिरुद्रपितामहाः

॥७७॥

विष्णुरुवाच

पूज्या यत्पुत्रतां यान्ति न कदाचिच्छ्रुतं मया ।

शुभे ददामि पुत्रांस्ते देवतुल्यपराक्रमान् ।

रूपवन्तो गुणोपेतान्यज्विनश्च बहुश्रुतान्

॥७८॥

अनसूयोवाच

ईप्सितं तच्च दातव्यं यन्मया प्रार्थितं हरे ।

नान्यथा चैव कर्तव्या मम पुत्रैषणा तु या

॥७९॥

विष्णुरुवाच

पूर्वं तु भृगुसंवादे गर्भवास उपार्जितः ।

तस्याहं चैव पारं तु नैव पश्यामि शोभने

॥८०॥

स्मरमाणः पुरावृत्तं चिन्तयामि पुनःपुनः ।

एवं संचिन्त्य ते देवाः पितामहमहेश्वराः

॥८१॥

अयोनिजा भविष्यामस्तव पुत्रा वरानने ।

योनिवासे महाप्राज्ञि देवा नैव व्रजन्ति च

॥८२॥

सांनिध्यात्सङ्गमे देवि लोकानां तु वरप्रदाः ।

एरण्डी वैष्णवी माया प्रत्यक्षा त्वं भविष्यसि

॥८३॥

त्रयो देवाः स्थिताः पाथ रेवाया उत्तरे तटे ।

वरप्राप्ता तु सा देवी गता माहेन्द्रपर्वतम्

॥८४॥

क्षीणाङ्गी शुक्लदेहा च रूक्षकेशी सुदारुणा ।

कृतयज्ञोपवीता सा तपोनिष्ठा शुभेक्षणा

॥८५॥

शिलातलनिविष्टोऽसौ दृष्टः कान्तो महायशाः ।

हृष्टचित्तोऽभवद्देवि उत्तिष्ठोत्तिष्ठ साब्रवीत्

॥८६॥

अत्रिरुवाच

साधु साधु महाप्राज्ञे ह्यनसूये महाव्रते ।

अचिन्त्यं गालवादीनां वरं प्राप्तासि दुर्लभम्

॥८७॥

अनसूयोवाच

त्वत्प्रसादेन देवर्षे वरं प्राप्तास्मि दुर्लभम् ।

तेन देवाः प्रशंसन्ति सिद्धाश्च ऋषयोऽमलाः

॥८८॥

एवमुक्ता तु सा देवी हर्षेण महता युता ।

आलोकयेत्ततः कान्तं तेनापि शुभदर्शना

॥८९॥

ईक्षणाच्चैव संजातं ललाटे मण्डलं शुभम् ।

नवयोजनसाहस्रं मण्डलं रश्मिभिर्वृतम्

॥९०॥

कदम्बगोलकाकारं त्रिगुणं परिमण्डलम् ।

तस्य मध्ये तु देवेशि पुरुषो दिव्यरूपधृक्

॥९१॥

हेमवर्णोऽमृतमयः सूर्यकोटिसमप्रभः ।

आद्यः पुत्रोऽनसूयायाः स्वयं साक्षात्पितामहः

॥९२॥

चन्द्रमा इति विख्यातः सोमरूपो नृपात्मज ।

इष्टापूर्ते च संपाति कलाषोडशकेन तु

॥९३॥

प्रतिपच्च द्वितीया च तृतीया च महेश्वरि ।

चतुर्थी पञ्चमी चैव अव्यया षोडशी कला

॥९४॥

चतुर्विधस्य लोकस्य सूक्ष्मो भूत्वा वरानने ।

आप्रीणाति जगत्सर्वं त्रैलोक्यं सचराचरम्

॥९५॥

सर्वे ते ह्युपजीवन्ति हुतं दत्तं शशिस्थितम् ।

वनस्पतिगते सोमे धनवांश्च वरानने

॥९६॥

भुञ्जन् परगृहे मूढो ददेदब्दकृतं शुभम् ।

वनस्पतिगते सोमे यस्तु छिन्द्याद्वनस्पतीन् ।

तेन पापेन देवेशि नरा यान्ति यमालयम्

॥९७॥

वनस्पतिगते सोमे मैथुनं यो निषेवते ।

ब्रह्महत्यासमं पापं लभते नात्र संशयः

॥९८॥

वनस्पतिगते सोमे मन्थानं योऽधिवाहयेत् ।

गावस्तस्य प्रणश्यन्ति याश्च वै पूर्वसंचिताः

॥९९॥

वनस्पतिगते सोमे ह्यध्वानं योऽधिगच्छति ।

भवन्ति पितरस्तस्य तं मासं रेणुभोजनाः

॥१००॥

अमावस्यां महादेवि यस्तु श्राद्धप्रदो भवेत् ।

अब्दमेकं विशालाक्षि तृप्तास्तत्पितरो ध्रुवम्

॥१०१॥

हिरण्यं रजतं वस्त्रं यो ददाति द्विजातिषु ।

सर्वं लक्षगुणं देवि लभते नात्र संशयः

॥१०२॥

एवं गुणविशिष्टोऽसौ सोमरूपः प्रजापतिः ।

संजातः प्रथमः पुत्रो ह्यनसूयासुनन्दनः

॥१०३॥

द्वितीयस्तु महादेवि दुर्वासा नाम नामतः ।

सृष्टिसंहारकर्ता च स्वयं साक्षान्महेश्वरः

॥१०४॥

ऋषिमध्यगतो देवि तपस्तपति दुष्करम् ।

सोऽपि रुद्रत्वमायाति सम्प्राप्ते भूतविप्लवे

॥१०५॥

इन्द्रोऽपि शप्तस्तेनैव दुर्वाससा वरानने ।

द्वितीयस्य तु पुत्रस्य सम्भवः कथितो मया

॥१०६॥

दत्तात्रेयस्वरूपेण भगवान्मधुसूदनः ।

जगद्व्यापी जगन्नाथः स्वयं साक्षाज्जनार्दनः

॥१०७॥

एते देवास्त्रयः पुत्रा अनसूयाया महेश्वरि ।

वरदानेन ते देवा ह्यवतीर्णा महीतले

॥१०८॥

पुत्रप्राप्तिकरं तीर्थं रेवायाश्चोत्तरे तटे ।

अनसूयाकृतं पार्थ सर्वपापक्षयं परम्

॥१०९॥

श्रीमार्कण्डेय उवाच

आश्चर्यभूतं लोकेऽस्मिन्नर्मदायां पुरातनम् ।

भ्रूणहत्या गता तत्र ब्राह्मणस्य नराधिप

॥११०॥

युधिष्ठिर उवाच

इतिहासं द्विजश्रेष्ठ कथयस्व ममानघ ।

सर्वपापहरं लोके दुःखार्तस्य च कथ्यताम्

॥१११॥

श्रीमार्कण्डेय उवाच

सुवर्णशिलके ग्रामे गौतमान्वयसम्भवः ।

कृषीवलो महादेवि भार्यापुत्रसमन्वितः

॥११२॥

वसते तत्र गोविन्दः संजातो विपुले कुले ।

पुत्रदारसमोपेतो गृहक्षेत्ररतः सदा

॥११३॥

शकटं पूरयित्वा तु काष्ठानामगमद्गुहम् ।

प्रक्षिप्तानि च काष्ठानि ह्येकाकी क्षुधयान्वितः

॥११४॥

रिङ्गमाणस्तदा पुत्रः पितुः शब्दात्समागतः ।

न दृष्टस्तेन वै पुत्रः काष्ठैः संछादितोऽवशः

॥११५॥

आगतस्त्वरितो गेहे पिपासार्तो नराधिप ।

शकटं मोच्य तद्द्वारि सवृषं रज्जुसंयुतम्

॥११६॥

भार्या तस्यैव या दृष्टा चित्तज्ञा वशवर्तिनी ।

दृष्ट्वा निपातितं पुत्रं काष्ठैर्निर्भिन्नमस्तकम्

॥११७॥

अजल्पमानाकरुणं निक्षिप्तं ज्ञोलिकां शिशुम् ।

शुश्रूषणे रता साध्वी प्रियस्य च नराधिप

॥११८॥

ततः स्नानादिकं कृत्वा भोजनाच्छयनं शुभम् ।

पुत्रं पुत्रवतां श्रेष्ठा ह्युत्थापयति शासनैः

॥११९॥

यदा च नोत्थितः सुप्तः पुत्रः पञ्चत्वमागतः ।

तदा सा दीनवदना रुरोद च मुमोह च

॥१२०॥

तच्छ्रुत्वा रुदितं शब्दं गोविन्दस्त्रस्तमानसः ।

किमेतदिति चोक्त्वा तु पतितो धरणीतले

॥१२१॥

द्वावेतौ मुक्तकेशौ तु भूमौ निपतितौ नृप ।

विलेपाते च राजेन्द्र निःश्वासोच्छ्वासितेन च

॥१२२॥

कं पश्ये प्राङ्गणे पुत्रं दृष्ट्वा क्रीडन्तमातुरम् ।

संधारयिष्ये हृदयं स्फुटितं तव कारणे

॥१२३॥

त्वज्जन्मान्तं यशो नित्यमक्षयां कुलसन्ततिम् ।

दृष्ट्वा किमनृणीभूतो यास्यामि परमां गतिम्

॥१२४॥

मम वृद्धस्य दीनस्य गतिस्त्वं किल पुत्रक ।

एते मनोरथाः सर्वे चिन्तिता विफला गताः

॥१२५॥

इमां तु विकलां दीनां विहीनां सुतबान्धवैः ।

रुदन्तीं पतितां पाहि मातरं धरणीतले

॥१२६॥

पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।

तेन पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा

॥१२७॥

अपुत्रस्य गृहं शून्यं दिशः शून्या ह्यबान्धवाः ।

मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता

॥१२८॥

मृषायं वदते लोकश्चन्दनं किल शीतलम् ।

पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः

॥१२९॥

श्मश्रुग्रहणक्रीडन्तं धूलिधूसरिताननम् ।

पुण्यहीना न पश्यन्ति निजोत्सङ्गसमास्थितम्

॥१३०॥

दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् ।

पुण्यहीना न पश्यन्ति गङ्गाधरमिवात्मजम्

॥१३१॥

वीणावाद्यस्वरो लोके सुस्वरः श्रूयते किल ।

रुदितं बालकस्यैव तस्मादाह्लादकारकम्

॥१३२॥

मृगपक्षिषु काकेषु पशूनां स्वरयोनिषु ।

पुत्रं तेषु समस्तेषु वल्लभं ब्रुवते बुधाः

॥१३३॥

मत्स्याश्वप्रकराश्चैव कूर्मग्राहादयोऽपि वा ।

पुत्रोत्पत्तौ च हृष्यन्ति विपत्तौ यान्ति दुःखिताम्

॥१३४॥

देवगन्धर्वयक्षाश्च हृष्यन्ते पुत्रजन्मनि ।

पञ्चत्वे तेऽपि शोचन्ति मन्दभाग्योऽस्मि पुत्रक

॥१३५॥

ऋषिमेलापकं चक्रे पुत्रार्थे राघवो नृप ।

इन्द्रस्थाने स्थितस्तस्य प्रोक्षते ह्यासनं यतः

॥१३६॥

स्वर्गवासं सुताद्बाह्यं विद्यते न तु पाण्डव ।

चक्रे दशरथस्तस्मात्पुत्रार्थं यज्ञमुत्तमम्

॥१३७॥

रामो लक्ष्मणशत्रुघ्नौ भरतस्तत्र सम्भवात् ।

कार्तवीर्यो जितो येन रामेणामिततेजसा

॥१३८॥

स रामो रामचन्द्रेण अष्टवर्षेण निर्जितः ।

एकाकिना हतो वाली प्लवगः शत्रुदुर्जयः

॥१३९॥

रावणो ब्रह्मपुत्रो यस्त्रैलोक्यं यस्य शङ्कते ।

हतः स रामचन्द्रेण सपुत्रः सहबान्धवः

॥१४०॥

एवं पुत्रं विना सौख्यं मर्त्यलोके न विद्यते ।

वंशार्थे मैथुनं यस्य स्वर्गार्थे यस्य भारती

॥१४१॥

मृष्टान्नं ब्राह्मणस्यार्थे स्वर्गे वासं तु यान्ति ते ।

ब्रह्महत्याश्वमेधाभ्यां न परं पापपुण्ययोः

॥१४२॥

पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः ।

किं ब्रवीमीति भो वत्स न तु सौख्यं सुतं विना

॥१४३॥

एवं बहुविधं दुःखं प्रलपित्वा पुनःपुनः ।

जनैश्चाश्वासितो विप्रो बालं गृह्य बहिर्गतः

॥१४४॥

ततः संस्कृत्य तं बालं विधिदृष्टेन कर्मणा ।

समवेतौ तु दुःखार्तावागतौ स्वगृहं पुनः

॥१४५॥

एवं गृहागते विप्रे रात्रिर्जाता युधिष्ठिर ।

भूमौ प्रसुप्तो गोविन्दः पुत्रशोकेन पीडितः

॥१४६॥

यावन्निरीक्षते भार्या भर्तारं दुःखपीडितम् ।

कृमिराशिगतं सर्वं गोविन्दं समपश्यत

॥१४७॥

दुःखाद्दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम् ।

एवं दुःखनिमग्नायाः शर्वरी विगता तदा

॥१४८॥

पशुपालस्तु महिषीमुक्त्वारण्येऽगमद्गृहात् ।

अरण्ये महिषीः सर्वा रक्षयित्वा गृहागतः

॥१४९॥

विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः ।

यावद्भोक्ष्याम्यहं स्वामिन्महिषीस्त्वं च रक्षसे

॥१५०॥

ततः स त्वरितो विप्रो जगाम महिषीः प्रति ।

न तत्र महिषीः पश्येत्पश्चात्क्षेत्राभिसम्मुखम्

॥१५१॥

धावमानश्च विप्रस्तु एरण्डीसङ्गमे गतः ।

ततः प्रविष्टस्तु जले रेवैरण्ड्योस्तु सङ्गमे

॥१५२॥

तज्जलं पीतमात्रं तु त्वरया चातितर्षितः ।

अकामात्सलिलं पीत्वा प्रक्षाल्य नयने शुभे

॥१५३॥

आजगाम ततः पश्चाद्भवनं दिवसक्षये ।

भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ

॥१५४॥

निद्राभिभूतः शोकेन श्रमेणैव तु खेदितः ।

पुनस्तच्चार्धरात्रे तु तस्य भार्या युधिष्ठिर

॥१५५॥

कृमिभिर्वेष्टितं गान्त्रं क्वचित्पश्यत्यवेष्टितम् ।

पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता ।

उवाच दुष्कृतं तस्य साध्वसाविष्टचेतसा

॥१५६॥

भार्योवाच

अतीते पञ्चमे चाह्नि त्विन्धनं क्षिपतस्तु ते ।

गृहपश्चाद्गतो बालो ह्यज्ञानाद्घातितस्त्वया

॥१५७॥

मया तत्पातकं घोरं रहस्यं न प्रकाशितम् ।

तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम्

॥१५८॥

न सुखं तव गात्रस्य पश्यामि न हि चात्मनः ।

निद्रा मम शमं याता रतिश्चैव त्वया सह

॥१५९॥

श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः ।

स्मृत्वा स्मृत्वा तु तं चित्ते परितापो न शाम्यति

॥१६०॥

कीर्तनान्नश्यते धर्मो वर्धतेऽसौ निगूहनात् ।

इह लोके परे चैव पापस्याप्येवमेव च

॥१६१॥

एवं संचित्यमानाहं स्थिता रात्रौ भयातुरा ।

कृमिराशिगतं त्वां हि कस्याहं कथयामि किम्

॥१६२॥

पुनस्त्वं चाद्य मे दृष्टो भ्रूणहत्याकृमिश्रितः ।

क्वचिद्भिन्दन्ति ते गात्रं क्वचिन्नष्टाः समन्ततः

॥१६३॥

एतत्संस्मृत्य संस्मृत्य विमृशामि पुनःपुनः ।

न जाने कारणं किंचित्पृच्छन्त्याः कथयस्व मे

॥१६४॥

तडागं वा सरिद्वापि तीर्थं वा देवतार्चनम् ।

यं गतोऽसि प्रभावोऽयं तस्य नान्यस्य मे स्थितम्

॥१६५॥

एवमुक्तस्तु विप्रोऽसौ कथयामास भारत ।

भार्याया यद्दिवा वृत्तं शङ्कमानो नृपोत्तम

॥१६६॥

अद्याहं महिषीसार्थं एरण्डीसङ्गमं गतः ।

नाभिमात्रे जले गत्वा पीतवान्सलिलं बहु

॥१६७॥

नान्यत्तीर्थं विजानामि सरितं सर एव वा ।

सत्यं सत्यं पुनः सत्यं कथितं तव भामिनि

॥१६८॥

एवं ज्ञात्वा तु सा सर्वमुपवासकृतक्षणा ।

सपत्नीको गतस्तत्र सङ्गमे वरवर्णिनि

॥१६९॥

स्नात्वा तत्र जले रम्ये नत्वा देवं तु भास्करम् ।

स्नापयामास देवेशं शङ्करं चोमया सह

॥१७०॥

पञ्चगव्यघृतक्षीरैर्दधिक्षौद्रघृतैर्जलैः ।

गन्धमाल्यादिधूपैश्च नैवेद्यैश्च सुशोभनैः

॥१७१॥

पूज्य त्रयीमयं लिङ्गं देवीं कात्यायनीं शुभाम् ।

रात्रौ जागरणं कृत्वा पत्यासि पतिव्रता

॥१७२॥

ततः प्रभाते विमले द्विजान्सम्पूज्य यत्नतः ।

गोदानेन हिरण्येन वस्त्रेणान्नेन भारत

॥१७३॥

गोविन्दः पूजयामास स्वशक्त्या ब्राह्मणाञ्छुभान् ।

मुक्तपापो गृहायातः स्वभार्यासहितो नृप

॥१७४॥

एवं यः शृणुते भक्त्या गोविन्दाख्यानमुत्तमम् ।

पठते परया भक्त्या भ्रूणहत्या प्रणश्यति

॥१७५॥

क्रीडते शांकरे लोके यावदाभूतसम्प्लवम् ।

यश्चैवाश्वयुजे मासि चैत्रे वा नृपसत्तम

॥१७६॥

सप्तम्यां च सिते पक्षे सोपवासो जितेन्द्रियः ।

सात्त्विकीं वासनां कृत्वा यो वसेच्छिवमन्दिरे

॥१७७॥

ध्यायमानो विरूपाक्षं त्रिशूलकरसंस्थितम् ।

कंसासुरनिहन्तारं शङ्खचक्रगदाधरम्

॥१७८॥

पक्षिराजसमारूढं त्रैलोक्यवरदायकम् ।

पितामहं ततो ध्यायेद्धंसस्थं चतुराननम्

॥१७९॥

सर्गप्रदं समस्तस्य कमलाकरशोभितम् ।

यो ह्येवं वसते तत्र त्रियमे स्थान उत्तमे

॥१८०॥

ततः प्रभाते विमले ह्यष्टम्यां च नराधिप ।

ब्राह्मणान् पूजयेद्भक्त्या सर्वदोषविवर्जितान्

॥१८१॥

सर्वावयवसम्पूर्णान्सर्वशास्त्रविशारदान् ।

वेदाभ्यासरतान्नित्यं स्वदारनिरतान्सदा

॥१८२॥

श्राद्धे दाने व्रते योग्यान् ब्राह्मणान् पाण्डुनन्दन ।

प्रेतानां पूजनं तत्र देवपूर्वं समारभेत्

॥१८३॥

प्रेतत्वान्मुच्यते शीघ्रमेरण्ड्यां पिण्डतर्पणैः ।

दानानि तत्र देयानि ह्यन्नमुख्यानि सर्वदा

॥१८४॥

हिरण्यभूमिकन्याश्च धूर्वाहौ शुभलक्षणौ ।

सीरेण सहितौ पार्थ धान्यं द्रोणकसंख्यया

॥१८५॥

अलंकृतां सवत्सां च क्षीरिणीं तरुणीं सिताम् ।

रक्तां वा कृष्णवर्णां वा पाटलां कपिलां तथा

॥१८६॥

कांस्यदोहनसंयुक्तां रुक्मखुरविभूषणाम् ।

स्वर्णशृङ्गीं सवत्सां च ब्राह्मणायोपपादयेत्

॥१८७॥

प्रीयतां मे जगन्नाथा हरकृष्णपितामहाः ।

संसाररक्षणी देवी सुरभी मां समुद्धरेत्

॥१८८॥

पुत्रार्थं याः स्त्रियः पार्थ ह्येरण्डीसङ्गमे नृप ।

स्नाप्यन्ते रुद्रसूक्तैश्च चतुर्वेदोद्भवैस्तथा

॥१८९॥

चतुर्भिर्ब्राह्मणैः शस्तं द्वाभ्यां योग्यैश्च कारयेत् ।

एकेन सार्द्रकुम्भेन दाम्पत्यमभिषेचयेत्

॥१९०॥

दैवज्ञेनैव चैकेन अथवा सामगेन वा ।

पञ्चरत्नसमायुक्तं कुम्भे तत्रैव कारयेत्

॥१९१॥

गन्धतोयसमायुक्तं सर्वौषधिविमिश्रितम् ।

आम्रपल्लवसंयुक्तमश्वत्थमधुकं तथा

॥१९२॥

गुण्ठितं सितवस्त्रेण सितचन्दनचर्चितम् ।

सितपुष्पैस्तु संछन्नं सिद्धार्थकृतमध्यमम्

॥१९३॥

कांस्यपात्रे तु संस्थाप्य पुत्रार्थी देशिकोत्तमः ।

अङ्गलग्नं तु यद्वस्त्रं कटकाभरणं तथा

॥१९४॥

तत्सर्वं मण्डले त्याज्यं सिद्ध्यर्थं चात्मनस्तदा ।

प्रणम्य भास्करं पश्चादाचार्यं रुद्ररूपिणम्

॥१९५॥

मधुरं च ततोऽश्नीयाद्देव्या भुवन उत्तमे ।

फलदानं च विप्राय छत्रं ताम्बूलमेव च

॥१९६॥

उपानहौ च यानं च स भवेद्दुःखवर्जितः ।

भास्करे क्रीडते लोके यावदाभूतसम्प्लवम्

॥१९७॥

दानं कोटिगुणं सर्वं शुभं वा यदि वाशुभम् ।

यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम्

॥१९८॥

एवं पापानि नश्यन्ति ह्येरण्डीसङ्गमे नृणाम् ।

समन्ताच्छस्त्रपातेन ह्येरण्डीसङ्गमे नृप

॥१९९॥

भ्रूणहत्यासमं पापं नश्यते शङ्करोऽब्रवीत् ।

प्राणत्यागं च यो भक्त्या जातवेदसि कारयेत्

॥२००॥

अनाशकं नृपश्रेष्ठ जले वा तदनन्तरम् ।

पञ्चसाहस्रिकं मानं वर्षाणां जातवेदसि

॥२०१॥

जले त्रीणि सहस्राण्यनाशके षष्टिं भुञ्जते ।

काका बकाः कपोताश्च ह्युलूकाः पशवस्तथा

॥२०२॥

संगमोदकसंस्पृष्टास्ते यान्ति परमां गतिम् ।

वृक्षाश्च तत्पदं ज्ञात्वा यां गतिं यान्ति योगिनः

॥२०३॥

एरण्डिका मया देवी दृष्टो मे मन्मथेश्वरः ।

किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति

॥२०४॥

मृत्तिकां सङ्गमोद्भूतां ये च गुण्ठन्ति नित्यशः ।

भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः

॥२०५॥

एरण्डीसङ्गमे मर्त्यो लुण्ठ्यमानो नराधिप ।

सर्वपापैर्विनिर्मुक्तः पदं गच्छत्यनामयम्

॥२०६॥

एरण्ड्याः सङ्गमं मर्त्याः कीर्तयन्त्याश्रमस्थिताः ।

विमुक्तपापा जायन्ते सत्यं शङ्करभाषितम्

॥२०७॥

एरण्डीपादपाग्रैस्तु दृष्टैः पापं व्यपोहति

॥२०८॥

तीर्थाख्यानमिदं पुण्यं ये पठिष्यन्ति मानवाः ।

शृण्वन्ति चापरे भक्त्या मुक्तपापा भवन्ति ते

॥२०९॥

एतत्ते सर्वमाख्यातमेरण्डीसङ्गमं नृप ।

भूयश्चान्यत्प्रवक्ष्यामि सर्वपापक्षयंकरम्

॥२१०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीसङ्गमतीर्थफलमाहात्म्यवर्णनं नाम त्र्यधिकशततमोऽध्यायः ॥