उत्तरे नर्मदाकूले यज्ञवाटस्य मध्यतः
श्रीमार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
उत्तरे नर्मदाकूले यज्ञवाटस्य मध्यतः
॥१॥संकर्षणमिति ख्यातं पृथिव्यां पापनाशनम् ।
तपश्चीर्णं पुरा राजन्बलभद्रेण तत्र वै
॥२॥गीर्वाणा अपि तत्रैव संनिधौ नृपनन्दन ।
उमया सहितः शम्भुः स्थितस्तत्रैव केशवः
॥३॥बलभद्रेण राजेन्द्र प्राणिनामुपकारतः ।
स्थापितः परया भक्त्या शङ्करः पापनाशनः
॥४॥यस्तत्र स्नाति वै भक्त्या जितक्रोधो जितेन्द्रियः ।
एकादश्यां सिते पक्षे मधुना स्नापयेच्छिवम्
॥५॥श्राद्धं तत्रैव यो भक्त्या पित्ःणामथ दापयेत् ।
स याति परमं स्थानं बलभद्रवचो यथा
॥६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे संकर्षणतीर्थमाहात्म्यवर्णनं नामैकाधिकशततमोऽध्यायः ॥