नन्दिकेश्वरतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
तस्यैवानन्तरं राजन्नन्दितीर्थं व्रजेच्छुभम् ।
सर्वपापहरं पुंसां नन्दिना निर्मितं पुरा
॥१॥पापौघहतजन्तूनां मोक्षदं नर्मदातटे ।
अहोरात्रोषितो भूत्वा नन्दिनाथे युधिष्ठिर
॥२॥पञ्चोपचारपूजायामर्चयेन्नन्दिकेश्वरम् ।
रत्नानि चैव विप्रेभ्यो यो दद्याद्धर्मनन्दन
॥३॥स याति परमं स्थानं यत्र वासः पिनाकिनः ।
सर्वसौख्यसमायुक्तोऽप्सरोभिः सह मोदते
॥४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दिकेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्नवतितमोऽध्यायः ॥