मधूकतृतीयाव्रतविधानमाहात्म्यवर्णनम्
युधिष्ठिर उवाच
जालेश्वरेऽपि यत्प्रोक्तं त्वया पूर्वं द्विजोत्तम ।
तत्कथं तु भवेत्पुण्यमृषिसिद्धनिषेवितम्
॥१॥श्रीमार्कण्डेय उवाच
जालेश्वरात्परं तीर्थं न भूतं न भविष्यति ।
तस्योत्पत्तिं कथयतः शृणु त्वं पाण्डुनन्दन
॥२॥पुरा ऋषिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः ।
तापिता असुरैः सर्वैः क्षयं नीता ह्यनेकशः
॥३॥बाणासुरप्रभृतिभिर्जम्भशुम्भपुरोगमैः ।
वध्यमाना ह्यनेकैश्च ब्रह्माणं शरणं गताः
॥४॥विमानैः पर्वताकारैर्हयैश्चैव गजोपमैः ।
स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः
॥५॥कच्छपैर्मकरैश्चान्ये जग्मुरन्ये पदातयः ।
प्राप्य ते परमं स्थानमशक्यं यदधार्मिकैः
॥६॥दृष्ट्वा पद्मोद्भवं देवं सर्वलोकस्य शङ्करम् ।
ते सर्वे तत्र गत्वा तु स्तुतिं चक्रुः समाहिताः
॥७॥देवा ऊचुः
जयामेय जयाभेद जय सम्भूतिकारक ।
पद्मयोने सुरश्रेष्ठ त्वां वयं शरणं गताः
॥८॥तच्छ्रुत्वा तु वचो देवो देवानां भावितात्मनाम् ।
मेघगम्भीरया वाचा प्रत्युवाच पितामहः
॥९॥किं वो ह्यागमनं देवाः सर्वेषां च विवर्णता ।
केनावमानिताः सर्वे शीघ्रं कथयतामराः
॥१०॥देवा ऊचुः
बाणो नाम महावीर्यो दानवो बलदर्पितः ।
तेनास्माकं हृतं सर्वं धनरत्नैर्वियोजिताः
॥११॥देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
चिन्तयामास देवेशस्तस्य नाशाय या क्रिया
॥१२॥अवध्यो दानवः पापः सर्वेषां वै दिवौकसाम् ।
मुक्त्वा तु शङ्करं देवं न मया न च विष्णुना
॥१३॥तत्रैव सर्वे गच्छामो यत्र देवो महेश्वरः ।
स गतिश्चैव सर्वेषां विद्यतेऽन्यो न कश्चन
॥१४॥एवमुक्त्वा सुरैः सर्वैर्ब्रह्मा वेदविदांवरः ।
ब्राह्मणैः सह विद्वद्भिरतो यत्र महेश्वरः
॥१५॥स्तुतिभिश्च सुपुष्टाभिस्तुष्टाव परमेश्वरम्
॥१६॥देवा ऊचुः
जय त्वं देवदेवेश जयोमार्धशरीरधृक् ।
वृषासन महाबाहो शशाङ्ककृतभूषण
॥१७॥नमः शूलाग्रहस्ताय नमः खट्वाङ्गधारिणे ।
जय भूतपते देव दक्षयज्ञविनाशन
॥१८॥पञ्चाक्षर नमो देव पञ्चभूतात्मविग्रह ।
पञ्चवक्त्रमयेशान वेदैस्त्वं तु प्रगीयसे
॥१९॥सृष्टिपालनसंहारांस्त्वं सदा कुरुषे नमः ।
अष्टमूर्ते स्मरहर स्मर सत्यं यथा स्तुतः
॥२०॥पञ्चात्मिका तनुर्देव ब्राह्मणैस्ते प्रगीयते ।
सद्यो वामे तथाघोरे ईशो तत्पुरुषे तथा
॥२१॥हेमजाले सुविस्तीर्णे हंसवत्कूजसे हर ।
एवं स्तुतो मुनिगणैर्ब्रह्माद्यैश्च सुरासुरैः
॥२२॥प्रहृष्टः सुमना भूत्वा सुरसङ्घानुवाच ह
॥२३॥ईश्वर उवाच
स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी ।
किं कुर्मो वदत क्षिप्रं कोऽन्यः सेव्यः सुरासुरैः
॥२४॥किं दुःखं को नु सन्तापः कुतो वो भयमागतम् ।
कथयध्वं महाभागाः कारणं यन्मनोगतम्
॥२५॥एवमुक्तास्तु रुद्रेण प्रत्यवोचन्सुरर्षभाः ।
स्वान्स्वान्देहान्दर्शयन्तो लज्जमाना अधोमुखाः
॥२६॥अस्ति घोरो महावीर्यो दानवो बलदर्पितः ।
बाणो नामेति विख्यातो यस्य तत्त्रिपुरं महत्
॥२७॥तेन वै सुतपस्तप्तं दशवर्षशतानि हि ।
तस्य तुष्टोऽभवद्ब्रह्मा नियमेन दमेन च
॥२८॥पुराणि तान्यभेद्यानि ददौ कामगमानि वै ।
आयसं राजतं चैव सौवर्णं च तथापरम्
॥२९॥त्रिपुरं ब्रह्मणा सृष्टं भ्रमत्तत्कामगामि च ।
तस्यैव तु बलोत्कृष्टास्त्रिपुरे दानवाः स्थिताः
॥३०॥त्रैलोक्यं सकलं देव पीडयन्ति महासुराः ।
दण्डपाशासिशस्त्राणि अविकारे विकुर्वते ।
त्रिपुरं दानवैर्जुष्टं भ्रमत्तच्चक्रसंनिभम्
॥३१॥क्वचिद्दृश्यमदृश्यं वा मृगतृष्णैव लक्ष्यते
॥३२॥यस्मिन्पतति तद्दिव्यं दृप्तस्य त्रिपुरं महत् ।
न तत्र ब्राह्मणा देवा गावो नैव तु जन्तवः
॥३३॥न तत्र दृश्यते किंचित्पतेद्यत्र पुरत्रयम् ।
नद्यो ग्रामाश्च देशाश्च बहवो भस्मसात्कृताः
॥३४॥सुवर्णं रजतं चैव मणिमौक्तिकमेव च ।
स्त्रीरत्नं शोभनं यच्च तत्सर्वं कर्षते बलात्
॥३५॥न शस्त्रेण न चास्त्रेण न दिवा निशि वा हर ।
शक्यते देवसङ्घैश्च निहन्तुं स कथंचन
॥३६॥तद्दहस्व महादेव त्वं हि नः परमा गतिः ।
एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि
॥३७॥येन देवाश्च गन्धर्वा ऋषयश्च तपोधनाः ।
परां धृतिं समायान्ति तत्प्रभो कर्तुमर्हसि
॥३८॥ईश्वर उवाच
एतत्सर्वं करिष्यामि मा विषादं गमिष्यथ ।
अचिरेणैव कालेन कुर्यां युष्मत्सुखावहम्
॥३९॥आश्वासयित्वा तान्देवान्सर्वानिन्द्रपुरोगमान् ।
चिन्तयामास देवेशस्त्रिपुरस्य वधं प्रति
॥४०॥कथं केन प्रकारेण हन्तव्यं त्रिपुरं मया ।
तमेकं नारदं मुक्त्वा नान्योपायो विधीयते
॥४१॥एवं संस्तभ्य चात्मानं ततो ध्यातः स नारदः ।
तत्क्षणादेव सम्प्राप्तो वायुभूतो महातपाः
॥४२॥कमण्डलुधरो देवस्त्रिदण्डी ज्ञानकोविदः ।
योगपट्टाक्षसूत्रेण छत्रेणैव विराजितः
॥४३॥जटाजूटाबद्धशिरा ज्वलनार्कसमप्रभः ।
त्रिधा प्रदक्षिणीकृत्य दण्डवत्पतितो भुवि
॥४४॥कृताञ्जलिपुटो भूत्वा नारदो भगवान्मुनिः ।
स्तोत्रेण महता शर्वः स्तुतो भक्त्या महामनाः
॥४५॥नारद उवाच
जय शम्भो विरूपाक्ष जय देव त्रिलोचन ।
जय शङ्कर ईशान रुद्रेश्वर नमोऽस्तु ते
॥४६॥त्वं पतिस्त्वं जगत्कर्ता त्वमेव लयकृद्विभो ।
त्वमेव जगतां नाथो दुष्टातकनिषूदनः
॥४७॥त्वं नः पाहि सुरेशान त्रयीमूर्ते सनातन ।
भवमूर्ते भवारे त्वं भजतामभयो भव
॥४८॥भवभावविनाशार्थं भव त्वां शरणं भजे ।
किमर्थं चिन्तितो देव आज्ञा मे दीयतां प्रभो
॥४९॥कस्य संक्षोभये चित्तं को वाद्य पततु क्षितौ ।
कमद्य कलहेनाहं योजये जयतांवर
॥५०॥नारदस्य वचः श्रुत्वा देवदेवो महेश्वरः ।
उत्फुल्लनयनो भूत्वा इदं वचनमब्रवीत्
॥५१॥स्वागतं ते मुनिश्रेष्ठ सदैव कलहप्रिय ।
वीणावादनतत्त्वज्ञ ब्रह्मपुत्र सनातन
॥५२॥गच्छ नारद शीघ्रं त्वं यत्र तत्त्रिपुरं महत् ।
बाणस्य दानवेन्द्रस्य सर्वलोकभयावहम्
॥५३॥भर्तारो देवतातुल्याः स्त्रियस्तत्राप्सरःसमाः ।
तासां वै तेजसा चैव भ्रमते त्रिपुरं महत्
॥५४॥न शक्यते कथं भेत्तुं सर्वोपायैर्द्विजोत्तम ।
गत्वा त्वं मोहय क्षिप्रं पृथग्धर्मैरनेकधा
॥५५॥नारद उवाच
तव वाक्येन देवेश भेदयामि पुरोत्तमम् ।
अभेद्यं बहुधोपायैर्यत्तु देवैः सवासवैः
॥५६॥एवमुक्त्वा गतो भूप शतयोजनमायतम् ।
बाणस्य तत्पुरश्रेष्ठमृद्धिवृद्धिसमायुतम्
॥५७॥कृतकौतुकसम्बाधं नानाधातुविचित्रितम् ।
अनेकहर्म्यसंछन्नमनेकायतनोज्ज्वलम्
॥५८॥द्वारतोरणसंयुक्तं कपाटार्गलभूषितम् ।
बहुयन्त्रसमोपेतं प्राकारपरिखोज्ज्वलम्
॥५९॥वापीकृपतडागैश्च देवतायतनैर्युतम् ।
हंसकारण्डवाकीर्णं पद्मिनीखण्डमण्डितम्
॥६०॥अनेकवनशोभाढ्यं नानाविहगमण्डितम् ।
एवं गुणगणाकीर्णं बाणस्य पुरमुत्तमम्
॥६१॥तस्य मध्ये महाकायं सप्तकक्षं सुशोभितम् ।
बाणस्य भवनं दिव्यं सर्वं काञ्चनभूषितम्
॥६२॥मौक्तिकादामशोभाढ्यं वज्रवैडूर्यभूषितम् ।
रुक्मपट्टतलाकीर्णं रत्नभूम्या सुशोभितम्
॥६३॥मत्तमातङ्गनिःश्वासैः स्यन्दनैः संकुलीकृतम् ।
हयहेषितशब्दैश्च नारीणां नूपुरस्वनैः
॥६४॥खड्गतोमरहस्तैश्च वज्राङ्कुशशरायुधैः ।
रक्षितं घोररूपैश्च दानवैर्बलदर्पितैः
॥६५॥एवं गुणगणाकीर्णं बाणस्य भवनोत्तमम् ।
कैलासशिखरप्रख्यं महेन्द्रभवनोपमम्
॥६६॥नारदो गगने शीघ्रमगमत्पुरसंमुखः ।
द्वारदेशं समासाद्य क्षत्तारं वाक्यमब्रवीत्
॥६७॥भोभोः क्षत्तर्महाबुद्धे राजकार्यविशारद ।
शीघ्रं बाणाय चाचक्ष्व नारदो द्वारि तिष्ठति
॥६८॥स वन्दयित्वा चरणौ नारदस्य त्वरान्वितः ।
सभामध्यगतं बाणं विज्ञप्तुमुपचक्रमे
॥६९॥वेपमानाङ्गयष्टिस्तु करेणापिहिताननः ।
शृण्वतां सर्वयोधानामिदं वचनमब्रवीत्
॥७०॥वन्दितो देवगन्धर्वैर्यक्षकिन्नरदानवैः ।
कलिप्रियो दुराराध्यो नारदो द्वारि तिष्ठति
॥७१॥द्वारपालस्य तद्वाक्यं श्रुत्वा बाणस्त्वरान्वितः ।
द्वाःस्थमाह महादैत्यः सविस्मयमिदं तदा
॥७२॥बाण उवाच
ब्रह्मपुत्रं सतेजस्कं दुःसहं दुरतिक्रमम् ।
प्रवेशय महाभागं किमर्थं वारितो बहिः
॥७३॥श्रुत्वा प्रभोर्वचस्तस्य प्रावेशयदुदीरितम् ।
गत्वा वेगेन महता नारदं गृहमागतम्
॥७४॥दृष्ट्वा देवर्षिमायान्तं नारदं सुरपूजितम् ।
साहसोत्थाय संहृष्टो ववन्दे चरणौ मुनेः
॥७५॥ददौ चासनमर्घ्यं च पाद्यं पूजां यथाविधि ।
न्यवेदयच्च तद्राज्यमात्मानं बान्धवैः सह
॥७६॥पप्रच्छ कुशलं चापि मुनिं बाणासुरः स्वयम्
॥७७॥नारद उवाच
साधु साधु महाबाहो दनोर्वंशविवर्द्धन ।
कोऽन्यस्त्रिभुवने श्लाघ्यस्त्वां मुक्त्वा दनुपुंगव
॥७८॥पूजितोऽहं दनुश्रेष्ठ धनरत्नैः सुशोभनैः ।
राज्येन चात्मना वापि ह्येवं कः पूजयेत्परः
॥७९॥न मे कार्यं हि भोगेन भुङ्क्ष्व राज्यमनामयम् ।
त्वद्दर्शनोत्सुकः प्राप्तो दृष्ट्वा देवं महेश्वरम्
॥८०॥भ्रमते त्रिपुरं लोके स्त्रीसतीत्वान्मया श्रुतम् ।
तान्द्रष्टुकामः सम्प्राप्तस्त्वद्दारान्दानवेश्वर
॥८१॥मन्यसे यदि मे शीघ्रं दर्शयस्व च माचिरम् ।
नारदस्य वचः श्रुत्वा कञ्चुकिं समुदीक्ष्य वै
॥८२॥अन्तःपुरचरं वृद्धं दण्डपाणिं गुणान्वितम् ।
उवाच राजा हृष्टात्मा शब्देनापूरयन्दिशः
॥८३॥नारदाय महादेवीं दर्शयस्वेह कञ्चुकिन् ।
अन्तःपुरचरैः सर्वैः समेतामविशङ्कितः
॥८४॥नाथस्याज्ञां पुरस्कृत्य गृहीत्वा नारदं करे ।
प्रविश्याकथयद्देव्यै नारदोऽयं समागतः
॥८५॥दृष्ट्वा देवी मुनिश्रेष्ठं कृत्वा पादाभिवन्दनम् ।
आसनं काञ्चनं शुभ्रमर्घ्यपाद्यादिकं ददौ
॥८६॥तस्यै स भगवांस्तुष्टो ह्याशीर्वादमदात्परम् ।
नान्या देवि त्रिलोकेऽपि त्वत्समा दृश्यतेऽङ्गना
॥८७॥पतिव्रता शुभाचारा सत्यशौचसमन्विता ।
यस्याः प्रभावात्त्रिपुरं भ्रमते चक्रवत्सदा
॥८८॥तच्छ्रुत्वा वचनं देवी नारदस्य सुदान्वितम् ।
पर्यपृच्छदृषिं भक्त्या धर्मं धर्मभृतांवरा
॥८९॥राज्ञ्युवाच
भगवन्मानुषे लोके देवास्तुष्यन्ति कैर्व्रतैः ।
कानि दानानि दीयन्ते येषां च स्यान्महत्फलम्
॥९०॥उपवासाश्च ये केचित्स्त्रीधर्मे कथिता बुधैः ।
यैः कृतैः स्वर्गमायान्ति सुकृतिन्यः स्त्रियो यथा
॥९१॥यत्तत्सर्वं महाभाग कथयस्व यथातथम् ।
श्रोतुमिच्छाम्यहं सर्वं कथयस्वाविशङ्कितः
॥९२॥नारद उवाच
साधु साधु महाभागे प्रश्नोऽयं वेदितस्त्वया ।
यं श्रुत्वा सर्वनारीणां धर्मवृद्धिस्तु जायते
॥९३॥उपवासैश्च दानैश्च पतिपुत्रौ वशानुगौ ।
बान्धवैः पूज्यते नित्यं यैः कृतैः कथयामि ते
॥९४॥दुर्भगा सुभगा यैस्तु सुभगा दुर्भगा भवेत् ।
पुत्रिणी पुत्ररहिता ह्यपुत्रा पुत्रिणी तथा
॥९५॥भर्तारं लभते कन्या तथान्या भर्तृवर्जिता ।
कृताकृतैश्च जायन्ते तन्निबोधस्व सुन्दरि
॥९६॥तिलधेनुं सुवर्णं च रूप्यं गा वाससी तथा ।
पानीयं भूमिदानं च गन्धधूपानुलेपनम्
॥९७॥पादुकोपानहौ छत्रं पुण्यानि व्यञ्जनानि च ।
पादाभ्यङ्गं शिरोऽभ्यङ्गं स्नानं शय्यासनानि च
॥९८॥एतानि ये प्रयच्छन्ति नोपसर्पन्ति ते यमम् ।
मधु माषं पयः सर्पिर्लवणं गुडमौषधम्
॥९९॥पानीयं भूमिदानं च शालीनिक्षुरसांस्तथा ।
आरक्तवाससी श्लक्ष्णे दम्पत्योर्ललितादिने
॥१००॥सौभाग्यं जायते चैव इह लोके परत्र च ।
ब्राह्मणे वृत्तसम्पन्ने सुरूपे च गुणान्विते
॥१०१॥तिथौ यस्यामिदं देयं तत्ते राज्ञि वदाम्यहम् ।
प्रतिपत्सु च या नारी पूर्वाह्णे च शुचिव्रता
॥१०२॥इन्धनं ब्राह्मणे दद्यात्प्रीयतां मे हुताशनः ।
तस्या जन्मानि षट्त्रिंशदङ्गप्रत्यङ्गसन्धिषु
॥१०३॥न रजो नैव सन्तापो जायते राजवल्लभे ।
द्वितीयायां तु या नारी नवनीतमुदान्विता
॥१०४॥ददाति द्विजमुख्याय सुकुमारतनुर्भवेत् ।
लवणं विप्रवर्याय तृतीयायां प्रयच्छति
॥१०५॥गौरी मे प्रीयतां देवी तस्याः पुण्यफलं शृणु ।
कौमारिका पतिं प्राप्य तेन सार्द्धमुमा यथा
॥१०६॥क्रीडत्यविधवा चापि लभते सा महद्यशः ।
नक्तं कृत्वा चतुर्थ्यां वै दद्याद्विप्राय मोदकान्
॥१०७॥प्रीयतां मम देवेशो गणनाथो विनायकः ।
तस्यास्तेन फलेनाशु सर्वकर्मसु भामिनि
॥१०८॥विघ्नं न जायते क्वापि एवमाह पितामहः ।
पञ्चमीं तु ततः प्राप्य ब्राह्मणे तिलदा तु या
॥१०९॥सा भवेद्रूपसम्पन्ना यथा चैव तिलोत्तमा ।
षष्ठ्यां तु या मधूकस्य फलदा तु भवेत्सदा
॥११०॥उद्दिश्य चाग्निजं देवं ब्राह्मणे वेदपारगे ।
तस्याः पुत्रो यथा स्कन्दो देवसङ्घेषु चोत्तमः
॥१११॥उत्पद्यते महाराजः सर्वलोकेषु पूजितः ।
सप्तम्यां या द्विजश्रेष्ठं सुवर्णेन प्रपूजयेत्
॥११२॥उद्दिश्य जगतो नाथं देवदेवं दिवाकरम् ।
तस्य पुण्यफलं यद्वै कथितं द्विजसत्तमैः
॥११३॥तत्ते राज्ञि प्रवक्ष्यामि शृणुष्वैकमनाः सति ।
दद्रूचित्रककुष्ठानि मण्डलानि विचर्चिका
॥११४॥न भवन्तीह चाङ्गेषु पूर्वकर्मार्जितान्यपि ।
कृष्णां धेनुं तथाष्टम्यां या प्रयच्छति भामिनी
॥११५॥ब्राह्मणे वृत्तसम्पन्ने प्रीयतां मे महेश्वरः ।
तस्या जन्मार्जितं पापं नश्यते विभवान्विता
॥११६॥जायते नात्र सन्देहो यस्माद्दानमनुत्तमम् ।
गन्धधूपं तु या नारी भक्त्या विप्राय दापयेत्
॥११७॥कात्यायनीं समुद्दिश्य नवम्यां शृणु यत्फलम् ।
तस्या भ्राता पिता पुत्रः पतिर्वा रणमुत्तमम्
॥११८॥प्राप्यते नैव सीदन्ति तेन दानेन रक्षिताः ।
इक्षुदण्डरसं देवि दशम्यां या प्रयच्छति
॥११९॥लोकपालान्समुद्दिश्य ब्राह्मणे व्यङ्गवर्जिते ।
तेन दानेन सा नित्यं सर्वलोकस्य वल्लभा
॥१२०॥जायते नात्र सन्देह इत्येवं शङ्करोऽब्रवीत् ।
एकादश्यामुपोष्याथ द्वादश्यामुदकप्रदा
॥१२१॥नारायणं समुद्दिश्य ब्राह्मणे विष्णुतत्परे ।
सा सदा स्पर्शसम्भाषैर्द्रावयेद्भावयेज्जनम्
॥१२२॥यस्माद्दानं महर्लोके ह्यनन्तमुदके भवेत् ।
पादाभ्यङ्गं शिरोऽभ्यङ्गं काममुद्दिश्य वै द्विजे
॥१२३॥ददाति च त्रयोदश्यां भक्त्या परमयाङ्गना ।
यस्यां यस्यां मृता जायेद्भूयो योन्यां तु जन्मनि
॥१२४॥तस्यां तस्यां तु सा भर्तुर्न वियुज्येत कर्हिचित् ।
तथाप्येवं चतुर्दश्यां दद्यात्पात्रमुपानहौ
॥१२५॥ब्रह्मणे धर्ममुद्दिश्य तस्या लोका ह्यनामयाः ।
एवं च पक्षपक्षान्ते श्राद्धे तर्पेद्द्विजोत्तमान्
॥१२६॥अव्युच्छिन्ना सदा राज्ञि सन्ततिर्जायते भुवि ।
एवं ते तिथिमाहात्म्यं दानयोगेन भाषितम्
॥१२७॥तथा वनस्पतीनां तु आराधनविधिं शृणु ।
जम्बूं निम्बतरुं चैव तिन्दुकं मधुकं तथा
॥१२८॥आम्रं चामलकं चैव शाल्मलिं वटपिप्पलौ ।
शमीबिल्वामलीवृक्षं कदलीं पाटलीं तथा
॥१२९॥अन्यान्पुण्यतमान्वृक्षानुपेत्य स्वर्गमाप्नुयात्
॥१३०॥नारद उवाच
चैत्रे मासे तु या नारी कुर्याद्व्रतमनुत्तमम् ।
तस्य व्रतस्य चान्यानि कलां नार्हन्ति षोडशीम्
॥१३१॥श्रुतेन येन सुभगे दुर्भगत्वं न पश्यति ।
यथा हिमं रविं प्राप्य विलयं याति भूतले
॥१३२॥तथा दुःखं च दौर्भाग्यं व्रतादस्माद्विलीयते ।
मधुकाख्यां तु ललितामाराधयति येन वै
॥१३३॥विधिं तं शृणु सुभगे कथ्यमानं सुखावहम् ।
चैत्रे शुक्लतृतीयायां सुस्नाता शुद्धमानसा
॥१३४॥प्रतिमां मधुवृक्षस्य शाङ्करीमुमया सह ।
कारयित्वा द्विजवरैः प्रतिष्ठाप्य यथाविधि
॥१३५॥सुगन्धिकुसुमैर्धूपैस्तथा कर्पूरकुङ्कुमैः ।
पूजयेद्विधिना देवं मन्त्रयुक्तेन भामिनी
॥१३६॥पादौ नमः शिवायेति मेढ्रे वै मन्मथाय च ।
कालोदरायेत्युदरं नीलकंठाय कण्ठकम्
॥१३७॥शिरः सर्वात्मने पूज्य उमां पश्चात्प्रपूजयेत् ।
क्षामोदरायैह्युदरं सुकण्ठायै च कण्ठकम्
॥१३८॥शिरः सौभाग्यदायिन्यै पश्चादर्घ्यं प्रदापयेत्
॥१३९॥नमस्ते देवदेवेश उमावर जगत्पते ।
अर्घ्येणानेन मे सर्वं दौर्भाग्यं नाशय प्रभो ।
इति अर्घ्यमन्त्रः
॥१४०॥अर्घ्यं दत्त्वा ततः पश्चात्करकं वारिपूरितम् ।
मधूकपात्रोपभृतं सहिरण्यं तु शक्तितः
॥१४१॥करकं वारिसम्पूर्णं सौभाग्येन तु संयुतम् ।
दत्तं तु ललिते तुभ्यं सौभाग्यादिविवर्धनम् ।
इति करकदानमन्त्रः
॥१४२॥मन्त्रेणानेन विप्राय दद्यात्करकमुत्तमम् ।
लवणं वर्जयेच्छुक्लां यावदन्यां तृतीयिकाम्
॥१४३॥क्षमाप्य देवीं देवेशां नक्तमद्यात्स्वयं हविः ।
अनेन विधिना सार्धं मासि मासि ह्यपक्रमेत्
॥१४४॥फाल्गुनस्य तृतीयायां शुक्लायां तु समाप्यते ।
वैशाखे लवणं देयं ज्येष्ठे चाज्यं प्रदीयते
॥१४५॥आषाढे मासि निष्पावाः पयो देयं तु श्रावणे ।
मुद्गा देया नभस्ये तु शालिमाश्वयुजे तथा
॥१४६॥कार्त्तिके शर्करापात्रं करकं रससंभृतम् ।
मार्गशीर्षे तु कार्पासं करकं घृतसंयुतम्
॥१४७॥पौषे तु कुङ्कुमं देयं माघे पात्रं तिलैर्भृतम् ।
फाल्गुने मासि सम्प्राप्ते पात्रं मोदकसंभृतम्
॥१४८॥पश्चात्तृतीयादेयं यत्तत्पूर्वस्यां विवर्जयेत् ।
विधानमासां सर्वासां सामान्यं मनसः प्रिये
॥१४९॥प्रतिमां मधुवृक्षस्य तामेव प्रतिपूजयेत् ।
तस्मै सर्वं तु विप्राय आचार्याय प्रदीयते
॥१५०॥ततः संवत्सरस्यान्ते उद्यापनविधिं शृणु ।
मधुवृक्षं ततो गत्वा बहुसम्भारसंवृतः
॥१५१॥निखनेत्प्रतिमां मध्ये माधूकीं मधुकस्य च ।
तत्रस्थं पूजयेत्सर्वमुमादेहार्द्धधारिणम्
॥१५२॥पूजोपहारैर्विपुलैः कुङ्कुमेन पुनःपुनः ।
श्लक्ष्णाभिः पुष्पमालाभिः कौसुम्भैः केसरेण च
॥१५३॥कौसुम्भे वाससी शुभ्रे अतसीपुष्पसन्निभे ।
परिधाप्य तां प्रतिमां दम्पती रविसंख्यया
॥१५४॥उपानद्युगलैश्छत्रैः कण्ठसूत्रैः सकण्ठिकैः ।
कटकैरङ्गुलीयैश्च शयनीयैः शुभास्तृतैः
॥१५५॥कुङ्कुमेन विलिप्ताङ्गौ बहुपुष्पैश्च पूजितौ ।
भोजयेद्विविधै रत्नैर्मधूकावासके स्थितौ
॥१५६॥भुक्तोत्थितौ तु विश्राम्य शय्यासु च क्षमापयेत् ।
गुरुमूलं यतः सर्वं गुरुर्ज्ञेयो महेश्वरः
॥१५७॥प्रीते गुरौ ततः सर्वं जगत्प्रीतं सुरासुरम् ।
यद्यदिष्टतमं लोके यत्किंचिद्दयितं गृहे
॥१५८॥तत्सर्वं गुरवे देयमात्मनः श्रेय इच्छता ।
इदं तु धनिभिर्देयमन्यैर्देयं यथोच्यते
॥१५९॥दाम्पत्यमेकं विधिवत्प्रतिपूज्य शुभव्रतैः ।
द्वितीयं गुरुदाम्पत्यं वित्तशाठ्यं विवर्जयेत्
॥१६०॥ततः क्षमापयेद्देवीं देवं च ब्राह्मणं गुरुम् ।
यथा त्वं देवि ललिते न वियुक्तासि शम्भुना
॥१६१॥तथा मे पतिपुत्राणामवियोगः प्रदीयताम् ।
अनेन विधिना कृत्वा तृतीयां मधुसंज्ञिकाम्
॥१६२॥इन्द्राणी चेन्द्रपत्नीत्वमवाप सुतमुत्तमम् ।
सौभाग्यं सर्वलोकेषु सर्वर्द्धिसुखमुत्तमम्
॥१६३॥अनेन विधिना या तु कुमारी व्रतमाचरेत् ।
शोभनं पतिमाप्नोति यथेन्द्राण्या शतक्रतुः
॥१६४॥दुर्भगा सुभगत्वं च सुभगा पुत्रिणी भवेत् ।
पुत्रिण्यक्षयमाप्नोति न शोकं पश्यति क्वचित्
॥१६५॥अनेकजन्मजनितं दौर्भाग्यं नश्यति ध्रुवम् ।
मृता तु त्रिदिवं प्राप्य उमया सह मोदते
॥१६६॥कल्पकोटिशतं साग्रं भुक्त्वा भोगान् यथेप्सितान् ।
पुनस्तु सम्भवे लोके पार्थिवं पतिमाप्नुयात्
॥१६७॥सुभगा रूपसम्पन्ना पार्थिवं जनयेत्सुतम्
॥१६८॥एतत्ते कथितं सर्वं व्रतानामुत्तमं व्रतम् ।
अन्यत्पृच्छस्व सुभगे वाञ्छितं यद्धृदि स्थितम्
॥१६९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मधूकतृतीयाव्रतविधानमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥