मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ७१

3
अवन्तीखण्डः · रेवाखण्डः · 71

सिद्धो यत्र गणाध्यक्षो गौरीपुत्रो महाबलः

श्रीमार्कण्डेय उवाच

कामेश्वरं ततश्चान्यच्छृणु पाण्डवसत्तम ।

सिद्धो यत्र गणाध्यक्षो गौरीपुत्रो महाबलः

॥१॥

तत्र तीर्थे तु यो भक्त्या भक्तियुक्तो जितेन्द्रियः ।

पञ्चामृतेन संस्नाप्य धूपनैवेद्यपूजनैः

॥२॥

प्रसाद्य जगतामीशं सर्वपापैः प्रमुच्यते ।

अष्टम्यां मार्गशीर्षस्य तत्र स्नात्वा युधिष्ठिर

॥३॥

यो येन यजते तत्र स तं काममवाप्नुयात्

॥४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कामेश्वरतीर्थमाहात्म्यवर्णनं नामैकसप्ततितमोऽध्यायः ॥