मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ११४

3
अवन्तीखण्डः · रेवाखण्डः · 114

अयोनिसम्भवतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।

अयोनिजं महापुण्यं सर्वपापप्रणाशनम्

॥१॥

अयोनिजे नरः स्नात्वा पूजयेत्परमेश्वरम् ।

पितृदेवार्चनं कृत्वा मुच्यते सर्वकिल्बिषैः

॥२॥

तत्र तीर्थे तु विधिना प्राणत्यागं करोति यः ।

स कदाचिन्महाराज योनिद्वारं न पश्यति

॥३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अयोनिसम्भवतीर्थमाहात्म्यवर्णनं नाम चतुर्दशाधिकशततमोऽध्यायः ॥