मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १२९

3
अवन्तीखण्डः · रेवाखण्डः · 129

अन्येषां चैव तीर्थानां परात्परतरं महत्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल ब्रह्मतीर्थमनुत्तमम् ।

अन्येषां चैव तीर्थानां परात्परतरं महत्

॥१॥

तत्र तीर्थे सुरश्रेष्ठो ब्रह्मा लोकपितामहः ।

चतुर्णामपि वर्णानां नर्मदातटमाश्रितः

॥२॥

वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ।

तत्क्षालयति देवेशो दर्शनादेव पातकम्

॥३॥

श्रुतिस्मृत्युदितान्येव तत्र स्नात्वा द्विजर्षभाः ।

प्रायश्चित्तानि कुर्वन्ति तेषां वासस्त्रिविष्टपे

॥४॥

ये पुनः शास्त्रमुत्सृज्य कामलोभप्रपीडिताः ।

प्रायश्चित्तं वदिष्यन्ति ते वै निरयगामिनः

॥५॥

स्नात्वादौ पातकी ब्रह्मन्नत्वा तु कीर्तयेदघम् ।

तस्य तन्नश्यते क्षिप्रं तमः सूर्योदये यथा

॥६॥

तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।

अग्निष्टोमस्य यज्ञस्य स लभेत्फलमुत्तमम्

॥७॥

तत्र तीर्थे तु यद्दानं ब्रह्मोद्दिश्य प्रयच्छति ।

तदक्षयफलं सर्वमित्येवं शङ्करोऽब्रवीत्

॥८॥

गायत्रीसारमात्रोऽपि तत्र यः क्रियते जपः ।

ऋग्यजुःसामसहितः स भवेन्नात्र संशयः

॥९॥

तत्र तीर्थे तु यो भक्त्या त्यजेद्देहं सुदुस्त्यजम् ।

अनिवर्तिका गतिस्तस्य ब्रह्मलोकान्न संशयः

॥१०॥

यावदस्थीनि तिष्ठन्ति ब्रह्मतीर्थे च देहिनाम् ।

तावद्वर्षसहस्राणि देवलोके महीयते

॥११॥

अवतीर्णस्ततो लोके ब्रह्मज्ञो जायते कुले ।

उत्तमः सर्ववर्णानां देवानामिव देवता

॥१२॥

विद्यास्थानानि सर्वाणि वेत्ति वेदाङ्गपारगः ।

जायते पूजितो लोके राजभिः स न संशयः

॥१३॥

पुत्रपौत्रसमोपेतः सर्वव्याधिविवर्जितः ।

जीवेद्वर्षशतं साग्रं ब्रह्मतीर्थप्रभावतः

॥१४॥

एतत्पुण्यं पापहरं तीर्थं ज्ञानवतां वरम् ।

ये पश्यन्ति महात्मानो ह्यमृतत्वं प्रयान्ति ते

॥१५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ब्रह्मतीर्थमाहात्म्यवर्णनं नामैकोनत्रिंशदधिकशततमोऽध्यायः॥