मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ३१

3
अवन्तीखण्डः · रेवाखण्डः · 31

ब्रह्मावर्तमिति ख्यातं सर्वपापप्रणाशनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेच्च राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।

ब्रह्मावर्तमिति ख्यातं सर्वपापप्रणाशनम्

॥१॥

तत्र संनिहितो ब्रह्मा नित्यसेवी युधिष्ठिर ।

ऊर्ध्वबाहुर्निरालम्बचकार भ्रमणं सदा

॥२॥

एकाहारवशेऽतिष्ठद्द्वादशाब्दं महाव्रती ।

अत्र तीर्थे विधानेन चिन्तयन् वै महेश्वरम्

॥३॥

तेन तत्पुण्यमाख्यातं ब्रह्मावर्तमिति प्रभो ।

तत्र स्नात्वा विधानेन तर्पयेत्पितृदेवताः

॥४॥

अर्चयेद्देवमीशानं विष्णुं वा परमेश्वरम् ।

यत्फलं सर्वयज्ञानां विधिवद्दक्षिणावताम्

॥५॥

तत्फलं समवाप्नोति तत्तीर्थस्य प्रभावतः ।

यस्मिंस्तीर्थे तु यो देवो दानवो वा द्विजोऽथ वा

॥६॥

सिद्धस्तेनैव तन्नाम्ना ख्यातं लोके महच्च तत् ।

न जलं न स्थलं नाम क्षेत्रं वा ह्यूषराणि च

॥७॥

पवित्रत्वं लभन्त्येते पौरुषेण विना नृणाम् ।

सामर्थ्यान्निश्चयाद्धैर्यात्सिध्यन्ति पुरुषा नृप

॥८॥

प्रमादात्तस्य लोभेन पतन्ति नरके ध्रुवम्

॥९॥

संनिरुध्येन्द्रियग्रामं यत्र यत्र वसेन्मुनिः ।

तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च

॥१०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ब्रह्मावर्ततीर्थमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥