मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १०७

3
अवन्तीखण्डः · रेवाखण्डः · 107

भण्डारीतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत राजेन्द्र भण्डारीतीर्थमुत्तमम् ।

दरिद्रच्छेदकरणं युगान्येकोनविंशतिः

॥१॥

धनदेन तपस्तप्त्वा प्रसन्ने पद्मसम्भवे ।

तत्रैव स्वल्पदानेन प्राप्तं वित्तस्य रक्षणम्

॥२॥

तत्र गत्वा तु यो भक्त्या स्नात्वा वित्तं प्रयच्छति ।

तस्य वित्तपरिच्छेदो न कदाचिद्भविष्यति

॥३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भण्डारीतीर्थमाहात्म्यवर्णनं नाम सप्तोत्तरशततमोऽध्यायः ॥