मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १६२

3
अवन्तीखण्डः · रेवाखण्डः · 162

गोपेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

गोपेश्वरं ततो गच्छेत्सर्पक्षेत्रादनन्तरम् ।

यत्र स्नानेन चैकेन मुच्यन्ते पातकैर्नराः

॥१॥

तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् ।

स गच्छेद्यदि युक्तोऽपि पापेन शिवमन्दिरम्

॥२॥

तत्र तीर्थे तु यः स्नात्वा पूजयेद्देवमीश्वरम् ।

मुच्यते सर्वपापैश्च रुद्रलोकं स गच्छति

॥३॥

क्रीडित्वा च यथाकामं रुद्रलोके महातपाः ।

इह मानुष्यतां प्राप्य राजा भवति धार्मिकः

॥४॥

हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः ।

पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं सुखी

॥५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्ट्युत्तरशततमोऽध्यायः ॥