मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १४१

3
अवन्तीखण्डः · रेवाखण्डः · 141

यत्र सा हरिणी सिद्धा व्याधभीता नरेश्वर

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल तापेश्वरमनुत्तमम् ।

यत्र सा हरिणी सिद्धा व्याधभीता नरेश्वर

॥१॥

जले प्रक्षिप्य गात्राणि ह्यन्तरिक्षं गता तु सा ।

व्याधो विस्मितचित्तस्तु तां मृगीमवलोक्य च

॥२॥

विमुच्य सशरं चापं प्रारेभे तप उत्तमम् ।

दिव्यं वर्षसहस्रं तु व्याधेनाचरितं तपः

॥३॥

अतीते तु ततः काले परितुष्टो महेश्वरः ।

वरं ब्रूहि महाव्याध यत्ते मनसि रोचते

॥४॥

व्याध उवाच

यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।

तव पार्श्वे महादेव वासो मे प्रतिदीयताम्

॥५॥

ईश्वर उवाच

एवं भवतु ते व्याध यस्त्वया काङ्क्षितो वरः ।

दैवदेवो महादेव इत्युक्त्वान्तरधीयत ।

गते चादर्शनं देवे स्थापयित्वा महेश्वरम्

॥६॥

पूजयित्वा विधानेन गतो व्याधस्ततो दिवम् ।

तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम्

॥७॥

व्याधानुतापसंजातं तापेश्वरमिति श्रुतम् ।

तत्र तीर्थे तु यः स्नात्वा सम्पूजयति शङ्करम्

॥८॥

शिवलोकमवाप्नोति मामुवाच महेश्वरः ।

ये स्नाता नर्मदातोये तीर्थे तापेश्वरे नराः

॥९॥

तापत्रयविमुक्तास्ते नात्र कार्या विचारणा ।

अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः

॥१०॥

स्नानं समाचरेन्नित्यं सर्वपातकशान्तये

॥११॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तापेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः ॥