मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १३५

3
अवन्तीखण्डः · रेवाखण्डः · 135

सिद्धेश्वरमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

तस्यैवानन्तरं चान्यत्सिद्धेश्वरमनुत्तमम् ।

तीर्थं सर्वगुणोपेतं सर्वलोकेषु पूजितम्

॥१॥

तत्र तीर्थे तु यः स्नात्वा ह्युमारुद्रं प्रपूजयेत् ।

वाजपेयस्य यज्ञस्य स लभेत्फलमुत्तमम्

॥२॥

तेन पुण्येन महता मृतः स्वर्गमवाप्नुयात् ।

अप्सरोगणसंवीतो जयशब्दादिमङ्गलैः

॥३॥

सहस्रवत्सरांस्तत्र क्रीडयित्वा यथासुखम् ।

धनधान्यसमोपेते कुले महति जायते

॥४॥

पूज्यमानो नरश्रेष्ठ वेदवेदाङ्गपारगः ।

व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्

॥५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरमाहात्म्यवर्णनं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः ॥