मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ५९

3
अवन्तीखण्डः · रेवाखण्डः · 59

श्रुते यस्याः प्रभावे तु सर्वपापैः प्रमुच्यते

श्रीमार्कण्डेय उवाच

ततः पुष्करिणीं गच्छेत्सर्वपापप्रणाशिनीम् ।

श्रुते यस्याः प्रभावे तु सर्वपापैः प्रमुच्यते

॥१॥

रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।

यत्रास्ते सर्वदा देवो वेदमूर्तिर्दिवाकरः

॥२॥

कुरुक्षेत्रं यथा पुण्यं सार्वकामिकमुत्तमम् ।

इदं तीर्थं तथा पुण्यं सर्वकामफलप्रदम्

॥३॥

कुरुक्षेत्रे यथा वृद्धिर्दानस्य जगतीपते ।

पुष्करिण्यां तथा दानं वर्धते नात्र संशयः

॥४॥

यवमेकं तु यो दद्यात्सौवर्णं मस्तके नृप ।

पुष्करिण्यां तथा स्थानं यथा स्थानं नरे स्मृतम्

॥५॥

सूर्यग्रहे तु यः स्नात्वा दद्याद्दानं यथाविधि ।

हस्त्यश्वरथरत्नादि गृहं गाश्च युगंधरान्

॥६॥

सुवर्णं रजतं वापि ब्राह्मणेभ्यो ददाति यः ।

त्रयोदश दिनं यावत्त्रयोदशगुणं भवेत्

॥७॥

तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ।

द्वादशाब्दे भवेत्प्रीतिस्तत्र तीर्थे महीपते

॥८॥

यस्तत्र कुरुते श्राद्धं पायसैर्मधुसर्पिषा ।

श्राद्धदो लभते स्वर्गं पित्ःणां दत्तमक्षयम्

॥९॥

अक्षतैर्बदरैर्बिल्वैरिङ्गुदैर्वा तिलैः सह ।

अक्षयं फलमाप्नोति तस्मिंस्तीर्थे न संशयः

॥१०॥

तत्र स्नात्वा तु यो देवं पूजयेच्च दिवाकरम् ।

आदित्यहृदयं जप्त्वा पुनरादित्यमर्चयेत् ।

स गच्छेत्परमं लोकं त्रिदशैरपि वन्दितम्

॥११॥

ऋचमेकां जपेद्यस्तु यजुर्वा साम एव च ।

स समग्रस्य वेदस्य फलमाप्नोति वै नृप

॥१२॥

यस्त्र्यक्षरं जपेन्मन्त्रं ध्यायमानो दिवाकरम् ।

आदित्यहृदयं जप्त्वा मुच्यते सर्वपातकैः

॥१३॥

यस्तत्र विधिवत्प्राणांस्त्यजते नृपसत्तम ।

स गच्छेत्परमं स्थानं यत्र देवो दिवाकरः

॥१४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुष्करिण्यामादित्यतीर्थमाहात्म्यवर्णनं नामैकोनषष्टितमोऽध्यायः ॥