मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २

3
अवन्तीखण्डः · रेवाखण्डः · 2

रेवामाहात्म्यवर्णनम्

सूत उवाच

नर्मदायास्तु माहात्म्यं कृष्णद्वैपायनोऽब्रवीत् ।

तत्तेऽहं सम्प्रवक्ष्यामि यत्त्वया परिपृच्छितम्

॥२॥

विस्तरं नर्मदायास्तु तीर्थानां मुनिसत्तम ।

कोऽन्यः शक्तोऽस्ति वै वक्तुमृते ब्रह्माणमीश्वरम्

॥३॥

एतमेव पुरा प्रश्नं पृष्टवाञ्जनमेजयः ।

वैशंपायनसंज्ञं तु शिष्यं द्वैपायनस्य ह

॥४॥

रेवातीर्थाश्रितं पुण्यं तत्ते वक्ष्यामि शौनक ।

पुरा पारीक्षितो राजा यज्ञादीक्षासु दीक्षितः

॥५॥

संभृते तु हविर्द्रव्ये वर्तमानेषु कर्मसु ।

आसीनेषु द्विजाग्र्येषु हूयमाने हुताशने

॥६॥

वर्तमानासु सर्वत्र तथा धर्मकथासु च ।

श्रूयमाणे तथा शब्दे जनैरुक्ते त्वहर्निशम्

॥७॥

यज्ञभूमौ कुलपते दीयतां भुज्यतामिति ।

विविधांश्च विनोदान्वै कुर्वाणेषु विनोदिषु

॥८॥

एवंविधे वर्तमाने यज्ञे स्वर्गसदःसमे ।

वैशंपायनमासीनं पप्रच्छ जनमेजयः

॥९॥

जनमेजय उवाच

द्वैपायनप्रसादेन ज्ञानवानसि मे मतः ।

वैशंपायन तस्मात्त्वां पृच्छामि ऋषिसन्निधौ

॥१०॥

ब्रूहि मे त्वं पुरावृत्तं पितृणां तीर्थसेवनम् ।

चिरं नानाविधान्क्लेशान् प्राप्तास्त इति मे श्रुतम्

॥११॥

कथं द्यूतजिताः पार्था मम पूर्वपितामहाः ।

आसमुद्रां महीं विप्र भ्रमन्तस्तीर्थलोभतः

॥१२॥

केन ते सहितास्तात भूमिभागाननेकशः ।

चेरुः कथय तत्सर्वं सर्वज्ञोऽसि मतो मम

॥१३॥

वैशंपायन उवाच

कथयिष्यामि भूनाथ यत्पृष्टं तु त्वयाऽनघ ।

नमस्कृत्य विरूपाक्षं वेदव्यासं महाकविम्

॥१५॥

पितामहास्तु ते पञ्च पाण्डवाः सह कृष्णया ।

उषित्वा ब्राह्मणैः सार्धं काम्यके वन उत्तमे

॥१६॥

प्रधानोद्दालके तत्र कश्यपोऽथ महामतिः ।

विभाण्डकश्च राजेन्द्र मुरुश्चैव महामुनिः

॥१७॥

पुलस्त्यो लोमशश्चैव तथान्ये पुत्रपौत्रिणः ।

स्नात्वा निःशेषतीर्थेषु गतास्ते विन्ध्यपर्वतम्

॥१८॥

ते च तत्राश्रमं पुण्यं सर्वैर्वृक्षैः समाकुलम् ।

चम्पकैः कर्णकारैश्च पुन्नागैर्नागकेसरैः

॥१९॥

बकुलैः कोविदारैश्च दाडिमैरुपशोभितम् ।

पुष्पितैरर्जुनैश्चैव बिल्वपाटलकेतकैः

॥२०॥

कदम्बाम्रमधूकैश्च निम्बजम्बीरतिन्दुकैः ।

नालिकेरैः कपित्थैश्च खर्जूरपनसैस्तथा

॥२१॥

नानाद्रुमलताकीर्णं नानावल्लीभिरावृतम् ।

सपुष्पं फलितं कान्तं वनं चैत्ररथं यथा

॥२२॥

जलाश्रयैस्तु विपुलैः पद्मिनीखण्डमण्डितम् ।

सितोत्पलैश्च संछन्नं नीलपीतैः सितारुणैः

॥२३॥

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।

आडीकाकबलाकाभिः सेवितं कोकिलादिभिः

॥२४॥

सिंहैर्व्याघ्रैर्वराहैश्च गजैश्चैव महोत्कटैः ।

महिषैश्च महाकायैः कुरङ्गैश्चित्रकैः शशैः

॥२५॥

गण्डकैश्चैव खड्गैश्च गोमायुसुरभी युतम् ।

सारङ्गैर्मल्लकैश्चैव द्विपदैश्च चतुष्पदैः

॥२६॥

तथाच कोकिलाकीर्णं मनःकान्तं सुशोभितम् ।

जीवंजीवकसंघैश्च नानापक्षिसमायुतम्

॥२७॥

दुःखशोकविनिर्मुक्तं सत्त्वोत्कटमनोरमम् ।

क्षुत्तृषारहितं कान्तं सर्वव्याधिविवर्जितम्

॥२८॥

सिंहीस्तनं पिबन्त्यत्र कुरंगाः स्नेहसंयुतम् ।

मार्जारमूषकौ चोभाववलेहत उन्मुखौ

॥२९॥

पञ्चास्याः पोतकेभाश्च भोगिनस्तु कलापिनः ।

दृष्ट्वा तद्विपिनं रम्यं प्रविष्टाः पाण्डुनन्दनाः

॥३०॥

मार्कण्डं दृष्टवांस्तत्र तरुणादित्यसन्निभम् ।

ऋषिभिः सेव्यमानं तु नानाशास्त्रविशारदैः

॥३१॥

कुलीनैः सत्त्वसम्पन्नैः शौचाचारसमन्वितैः ।

धीसंगतैः क्षमायुक्तैस्त्रिसंध्यं जपतत्परैः

॥३२॥

ऋग्यजुःसामविहितैर्मन्त्रैर्होमपरायणैः ।

केचित्पञ्चाग्निमध्यस्थाः केचिदेकान्तसंस्थिताः

॥३३॥

ऊर्ध्वबाहुनिरालम्बा आदित्यभ्रमणाः परे ।

सायंप्रातर्भुजश्चान्ये एकाहारास्तथा परे

॥३४॥

द्वादशाहात्तथा चान्ये अन्ये मासार्धभोजनाः ।

दर्शे दर्शे तथा चान्ये अन्ये शैवालभोजनाः

॥३५॥

पिण्याकमपरेऽभुजन् केचित्पालाशभोजनाः ।

अपरे नियताहारा वायुभक्ष्याम्बुभोजनाः

॥३६॥

एवंभूतैस्तथा वृद्धैः सेव्यते मुनिपुंगवैः ।

ततो धर्मसुतः श्रीमानाश्रमं तं प्रविश्य सः

॥३७॥

दृष्ट्वा मुनिवरं शान्तं ध्यायमानं परं पदम् ।

प्रादक्षिण्येन सहसा दण्डवत्पतितोऽग्रतः

॥३८॥

भक्त्यानुपतितं दृष्ट्वा चिरादादाय लोचनम् ।

को भवानित्युवाचेदं धर्मं धीमानपृच्छत

॥३९॥

तस्य तद्वचनं श्रुत्वा दारकस्तत्समीपगः ।

आहायं धर्मराजस्ते दर्शनार्थं समागतः

॥४०॥

तच्छ्रुत्वादारकेणोक्तं वचनं प्राह सादरः ।

एह्येहि वत्सवत्सेति किंचित्स्थानाच्चलन्मुनिः ।

तं तु स्नेहादुपाघ्राय आसने उपवेशयत्

॥४१॥

उपविष्टे सभायां तु पूजां कृत्वा यथाविधि ।

वन्यैर्धान्यैः फलैर्मूलै रसैश्चैव पृथग्विधैः

॥४२॥

पाण्डवा ब्राह्मणैः सार्द्धं यथायोग्यं प्रपूजिताः ।

मुहूर्तादथ विश्रम्य धर्मपुत्रो युधिष्ठिरः

॥४३॥

पृच्छति स्म मुनिश्रेष्ठं कौतूहलसमन्वितः ।

भगवन्सर्वलोकानां दीर्घायुस्त्वं मतो मम

॥४४॥

सप्तकल्पानशेषेण कथयस्व ममानघ ।

कल्पक्षयेऽपि लोकस्य स्थावरस्येतरस्य च

॥४५॥

न विनष्टोऽसि विप्रेन्द्र कथं वा केन हेतुना ।

गङ्गाद्याः सरितः सर्वाः समुद्रान्ताश्च या मुने

॥४६॥

तासां मध्ये स्थिताः काः स्वित्काश्चैव प्रलयं गताः ।

का नु पुण्यजला नित्यं कानु न क्षयमागता

॥४७॥

एतत्कथय मे तात प्रसन्नेनान्तरात्मना ।

श्रोतुमिच्छाम्यशेषेण ऋषिभिः सह बान्धवैः

॥४८॥

श्रीमार्कण्डेय उवाच

साधुसाधु महाप्राज्ञ धर्मपुत्र युधिष्ठिर ।

कथयामि यथा न्यायं यत्पृच्छसि ममानघ

॥४९॥

सर्वपापहरं पुण्यं पुराणं रुद्रभाषितम् ।

यः शृणोति नरो भक्त्या तस्य पुण्यफलं शृणु

॥५०॥

अश्वमेध सहस्रेण वाजपेयशतेन च ।

तत्फलं समवाप्नोति राजन्नास्त्यत्र संशयः

॥५१॥

ब्रह्मघ्नश्च सुरापी च स्तेयी गोघ्नश्च यो नरः ।

मुच्यते सर्वपापेभ्यो रुद्रस्य वचनं यथा

॥५२॥

गङ्गा तु सरितां श्रेष्ठा तथा चैव सरस्वती ।

कावेरी देविका चैव सिन्धुः सालकुटी तथा

॥५३॥

सरयूः शतरुद्रा च मही चर्मिलया सह ।

गोदावरी तथा पुण्या तथैव यमुना नदी

॥५४॥

पयोष्णी च शतद्रुश्च तथा धर्मनदी शुभा ।

एताश्चान्याश्च सरितः सर्वपापहराः स्मृताः

॥५५॥

किं तु ते कारणं तात वक्ष्यामि नृपसत्तम ।

समुद्राः सरितः सर्वाः कल्पे कल्पे क्षयं गताः

॥५६॥

सप्तकल्पक्षये क्षीणे न मृता तेन नर्मदा ।

नर्मदैकैव राजेन्द्र परं तिष्ठेत्सरिद्वरा

॥५७॥

तोयपूर्णा महाभाग मुनिसंघैरभिष्टुता ।

गंगाद्याः सरितश्चान्याः कल्पे कल्पे क्षयं गताः

॥५८॥

एषा देवी पुरा दृष्टा तेन वक्ष्यामि तेऽनघ

॥५९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवामाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥