नर्मदादक्षिणे कूले तीर्थं परमशोभनम्
मार्कण्डेय उवाच
ततो गच्छेन्महीपाल सिद्धेश्वरमनुत्तमम् ।
नर्मदादक्षिणे कूले तीर्थं परमशोभनम्
॥१॥तत्र तीर्थे तु यः स्नात्वा पूजयेद्वृषभध्वजम् ।
सर्वपापविनिर्मुक्तो गतिं यात्यश्वमेधिनाम्
॥२॥तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्यात्प्रयत्नतः ।
पितॄणां प्रीणनार्थाय सर्वं तेन कृतं भवेत्
॥३॥तत्र तीर्थे मृतानां तु जन्तूनां नृपसत्तम ।
गर्भवासे मतिस्तेषां न जायेत कदाचन
॥४॥गर्भवासो हि दुःखाय न सुखाय कदाचन ।
तत्तीर्थवारिणा स्नातुर्न पुनर्भवसम्भवः
॥५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥