मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ६७

3
अवन्तीखण्डः · रेवाखण्डः · 67

लुङ्केश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

तस्यैवानन्तरं तात जलमध्ये व्यवस्थितम् ।

लुङ्केश्वरमिति ख्यातं सुरासुरनमस्कृतम्

॥१॥

इदं तीर्थं महापुण्यं नानाश्चर्यं महीतले ।

अस्य तीर्थस्य माहात्म्यमुत्पत्तिं शृणु भारत

॥२॥

आसीत्पुरा महावीर्यो दानवो बलदर्पितः ।

कालपृष्ठ इति ख्यातः सुतो ब्रह्मसुतस्य च

॥३॥

गङ्गातटं समाश्रित्य चचार विपुलं तपः ।

अधोमुखोऽपि संस्थित्वापिबद्धूममहर्निशम्

॥४॥

ततश्चानन्तरं देवस्तिष्ठते ह्युमया सह ।

दृष्ट्वा तं पार्वती सा तु तपस्युग्रे व्यवस्थितम्

॥५॥

पश्य पश्य महादेव धूमाशी तिष्ठते नरः ।

प्रसीद तं कुरुष्वाद्य देहि शीघ्रं वरं विभो

॥६॥

ईश्वर उवाच

यदुक्तं वचनं देवि न तन्मे रोचते प्रिये ।

स्वकार्यं च सदा चिन्त्यं परकार्यं विसर्जयेत्

॥७॥

मूर्खस्त्रीबालशत्रूणां यश्छन्देनानुवर्तते ।

व्यसने पतते घोरे सत्यमेतदुदीरितम्

॥८॥

देव्युवाच

भार्ययाभ्यर्थितो भर्ता कारणं बहु भाषते ।

लघुत्वं याति सा नारी एवं शास्त्रेषु पठ्यते

॥९॥

प्राणत्यागं करिष्यामि यदि मां त्वं न मन्यसे ।

पार्वत्या प्रेरितो देवो गतोऽसौ दानवं प्रति

॥१०॥

ईश्वर उवाच

किमर्थं पिबसे धूमं किमर्थं तप्यसे तपः ।

किं दुःखं किं नु सन्तापो वद कार्यमभीप्सितम्

॥११॥

युवा त्वं दृश्यसेऽद्यापि वर्षविंशतिरेव च ।

तदाचक्ष्व हि मे सर्वं तपसः कारणं महत्

॥१२॥

दानव उवाच

अचला दीयतां भक्तिर्मम स्थैर्यं तवोपरि ।

अपरं वर्षसाहस्रं निर्विघ्नं मे गतं विभो

॥१३॥

दिवसानां सहस्रे द्वे पूर्णे त्वत्तपसा मम

॥१४॥

ईश्वर उवाच

याचयाभीप्सितं कार्यं तुष्टोऽहं तव सुव्रत ।

देवस्य वचनं श्रुत्वा चिन्तयामास दानवः

॥१५॥

किं नाकं याचयाम्यद्य किमद्य सकलां महीम् ।

एवं संचिन्तयामास कामबाणेन पीडितः

॥१६॥

दानव उवाच

यदि तुष्टोऽसि मे देव वरं दास्यसि मे प्रभो ।

सङ्ग्रामैस्तु न तुष्टोऽहं बलं नास्तीति किंचन

॥१७॥

यस्य मूर्धन्यहं देव पाणिना समुपस्पृशे ।

देवदानवगन्धर्वो भस्मसाद्यातु तत्क्षणात्

॥१८॥

ईश्वर उवाच

यत्त्वया चिन्तितं किंचित्तत्सर्वं सफलं तव ।

उत्तिष्ठ गच्छ शीघ्रं त्वं भवनं प्रति दानव

॥१९॥

दानव उवाच

स्थीयतां देवदेवेश यावज्ज्ञास्यामि ते वरम् ।

युष्मन्मूर्ध्नि न्यसे पाणिं प्रत्ययो मे भवेद्यथा

॥२०॥

ततश्चानन्तरं देवश्चिन्तयानो महेश्वरः ।

न स्कन्दो न हरिर्ब्रह्मा यः कार्येषु क्षमोऽधुना

॥२१॥

ज्ञात्वा चैवापदं प्राप्तां देवः प्रार्थयते वृषम् ।

अनेन सह पापेन युध्यस्व साम्प्रतं क्षणम्

॥२२॥

करं प्रासारयद्दैत्यो देवं मूर्ध्नि किल स्पृशेत् ।

लाङ्गूलेनाहतो दैत्यो विषण्णः पतितो भुवि

॥२३॥

देवस्तु दक्षिणामाशां गतश्चैवोमया सह ।

भयभीतो निरीक्षेत ग्रीवां भज्य पुनःपुनः

॥२४॥

गते चादर्शनं देवे युयुधे वृषभेण सः ।

द्वावेतौ बलिनां श्रेष्ठौ युयुधाते महाबलौ

॥२५॥

प्रहारैर्वज्रसदृशैः कोपेन घटिकात्रयम् ।

पाणिभ्यां न स्पृशेद्यो वै वृषभस्य शिरस्तथा

॥२६॥

हत्वा लाङ्गूलपातेन आगतो वृषभस्तदा ।

उत्थितश्चाप्यसौ दैत्यो व्रजते वृषपृष्ठतः

॥२७॥

वायुवेगेन सम्प्राप्तो यत्र देवो महेश्वरः ।

आगतं दानवं दृष्ट्वा वृषो वचनमब्रवीत्

॥२८॥

आरुह्य पृष्ठे मे देव शीघ्रमेव हि गम्यताम् ।

आरुह्य वृषभं देवो जगाम चोमया सह

॥२९॥

नाकं प्राप्तस्ततो देवो गतः शक्रस्य मन्दिरम् ।

नात्यजद्देवपृष्ठं तु दानवो बलदर्पितः

॥३०॥

इन्द्रलोकं परित्यज्य ब्रह्मलोकं गतस्तदा ।

यत्रयत्र व्रजेद्देवो भयात्सह दिवौकसैः

॥३१॥

अपश्यत्तत्र तत्रैव पृष्ठे लग्नं तु दानवम् ।

सर्वांल्लोकान् भ्रमित्वा तु देवो विस्मयमागतः

॥३२॥

न स्थानं विद्यते किंचिद्यत्र विश्रम्यते क्षणम् ।

देवदानवयोस्तत्र युद्धं ज्ञात्वा सुदारुणम्

॥३३॥

हर्षितात्मा मुनिस्तत्र चिरं नृत्यति नारदः ।

धन्योऽहमद्य मे जन्म जीवितं च सुजीवितम्

॥३४॥

महान्तं च कलिं दृष्ट्वा संतोषः परमोऽभवत् ।

देवदानवयोस्तत्र युद्धं त्यक्त्वा च नारदः

॥३५॥

आजगाम ततो विप्रो यत्र देवो महेश्वरः ।

दृष्ट्वा देवोऽथ तं विप्रं प्रतिपूज्याब्रवीदिदम्

॥३६॥

भो नारद मुनिश्रेष्ठ जानीषे केशवं क्वचित् ।

गत्वा तत्र च शीघ्रं त्वं केशवाय निवेदय

॥३७॥

नारद उवाच

देवदानवसिद्धानां गन्धर्वोरगरक्षसाम् ।

सर्वेषामेव देवेशो हरते ध्रुवमापदम्

॥३८॥

असंभाव्यं न वक्तव्यं मनसापि न चिन्तयेत् ।

ईदृशीं नैव बुध्यामि आपदं च विभो तव

॥३९॥

ईश्वर उवाच

गच्छ नारद शीघ्रं त्वं यत्र देवो जनार्दनः ।

विदितं च त्वया सर्वं यत्कृतं दानवेन तु

॥४०॥

अवध्यो दानवो ह्येष सेन्द्रैरपि मरुद्गणैः ।

गत्वा तु केशवं देवं निवेदय महामुने

॥४१॥

नारद उवाच

न तु गच्छाम्यहं देव सुप्तः क्षीरोदधौ सुखी ।

केशवः प्रेरणे ह्येषामादेशो दीयतां प्रभो

॥४२॥

मात्रा स्वस्रा दुहित्रा वा राजानं च तथा प्रभुम् ।

गुरुं चैवादितः कृत्वा शयानं न प्रबोधयेत्

॥४३॥

ईश्वर उवाच

यदि क्वचिदगारेषु वह्निरुत्पद्यते महान् ।

निधनं यान्ति तत्रस्था यद्बुध्येरन्नसूरयः

॥४४॥

नारद उवाच

शीघ्रं गच्छ महादेव आत्मानं रक्ष सुप्रभो ।

गच्छाम्यहं न सन्देहो यत्र देवो जनार्दनः

॥४५॥

ततो नन्दिमहाकालौ स्तम्भहस्तौ भयानकौ ।

जघ्नतुर्दानवं तत्र मुद्गरादिभिरायुधैः

॥४६॥

त्रयोऽपि च महाकायाः सप्ततालप्रमाणकाः ।

न शमो जायते तेषां युध्यतां च परस्परम्

॥४७॥

ततश्चानन्तरं विप्रोऽगच्छत्तं केशवं प्रति ।

सुप्तं क्षीरार्णवेऽपश्यच्छेषपर्यङ्कसंस्थितम्

॥४८॥

लक्ष्म्या पादयुगं गृह्य ऊरूपरि निवेशितम् ।

अप्सरोगीयमानं तु भक्त्यानम्य च केशवम्

॥४९॥

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।

उत्थापयस्व देवेशं लक्ष्मि त्वमविशङ्किता

॥५०॥

नारदस्य वचः श्रुत्वा पदाङ्गुष्ठं व्यमर्दयत् ।

नारदस्तिष्ठते द्वारि उत्तिष्ठ मधुसूदन

॥५१॥

देवोऽपि नारदं दृष्ट्वा परं हर्षमुपागतः ।

स्वागतं तु मुनिश्रेष्ठ सुप्रभाताद्य शर्वरी

॥५२॥

नारद उवाच

अद्य मे सफलं देव प्रभातं तव दर्शनात् ।

कुशलं च न देवानां शीघ्रमुत्तिष्ठ गम्यताम्

॥५३॥

श्रीविष्णुरुवाच

ब्रह्मा चेन्द्रश्च रुद्रश्च ये चान्ये तु मरुद्गणाः ।

आपदः कारणं यच्च तत्समाख्यातुमर्हसि

॥५४॥

नारद उवाच

दानवेन महातीव्रं तपस्तप्तं सुदारुणम् ।

रुद्रेण च वरो दत्तो भस्मत्वं मनसेप्सितम्

॥५५॥

वरदानबलेनैव स देवं हन्तुमर्हति ।

ईदृशं चेष्टितं ज्ञात्वा नीतो देवोऽमरैः सह

॥५६॥

नारदस्य वचः श्रुत्वा जगाम समुनिर्हरिः ।

दृष्ट्वा देवस्तमीशानं गच्छन्तं दिशमुत्तराम्

॥५७॥

दृष्ट्वा देवं च रुद्रोऽथ परिष्वज्य पुनःपुनः ।

नमस्कृत्य जगन्नाथं देवं च मधुसूदनः

॥५८॥

विष्णुरुवाच

भयस्य कारणं देव कथ्यतां च महेश्वर ।

देवदानवयक्षाणां प्रेषयेयं यमालयम्

॥५९॥

ललाटे च कृतो धर्मो युष्माकं च महेश्वर ।

छित्त्वा शिरस्तथाङ्गानि इन्द्रियाणि न संशयः

॥६०॥

ईश्वर उवाच

नास्ति सौख्यं च मूर्खेषु नास्ति सौख्यं च रोगिषु ।

पराधीनेन सौख्यं तु स्त्रीजिते च विशेषतः

॥६१॥

स्त्रीजितेन मया विष्णो वरो दत्तस्तु दानवे ।

यस्य मूर्ध्नि न्यसेत्पाणिं स भवेद्भस्मपुंजवत्

॥६२॥

अजेयश्चामरश्चैव मया ह्युक्तः स केशव ।

हन्तुमिच्छति मां पाप उपायस्तव विद्यते

॥६३॥

विष्णुरुवाच

गच्छन्तु अमराः सर्वे युष्माभिः सह शङ्कर ।

उपायं सर्जयाम्यद्य वधार्थं दानवस्य च

॥६४॥

रेवायाश्च तटे तिष्ठ देव त्वममरैः सह ।

कालक्षेपो न कर्तव्यो गम्यतां त्वरितं प्रभो

॥६५॥

दक्षिणा यत्र गङ्गा च रेवा चैव महानदी ।

यत्रयत्र च दृश्येत प्राची चैव सरस्वती

॥६६॥

तत्समं च महातीर्थं न मर्त्ये चैव दृश्यते ।

स्नानं ये तत्र कुर्वन्ति दानं चैव तु भक्तितः

॥६७॥

सप्तजन्मकृतं पापं नश्यते नात्र संशयः ।

एतत्तीर्थं महापुण्यं सर्वपातकनाशनम्

॥६८॥

गम्यतां तत्र देवेश लुङ्केशं त्वं सहामरैः ।

विष्णोस्तु वचनादेव प्रविष्टो ह्रदमुत्तमम्

॥६९॥

रतिं सुमहतीं चक्रे सह तत्र मरुद्गणैः ।

ततश्चानन्तरं देवो मायां कृत्वा ह्यनेकधा

॥७०॥

वसन्तमासं संसृज्य उद्यानवनशोभितम् ।

अशोकैर्बकुलैश्चैव ब्रह्मवृक्षैः सुशोभनैः

॥७१॥

श्रीवृक्षैश्च कपित्थैश्च शिरीषैर्राजचम्पकैः ।

श्रीफलैश्च तथा तालैः कदम्बोदुम्बरैस्तथा

॥७२॥

अश्वत्थादिद्रुमैश्चैव नानावृक्षैरनेकशः ।

नानापुष्पैः सुगन्धाढ्यैर्भ्रमरैश्च निनादितम्

॥७३॥

तस्मिन्मध्ये महावृक्षो न्यग्रोधश्च सुशोभनः ।

बहुपक्षिसमायुक्तः कोकिलारावनादितः

॥७४॥

कृष्णेन च कृतं तस्मिन्कन्यारूपं च तत्क्षणात् ।

न तस्याः सदृशी कन्या त्रैलोक्ये सचराचरे

॥७५॥

अन्याश्च कन्यकाः सप्त सुरूपाः शुभलोचनाः ।

दिव्यरूपधराः सर्वा दिव्याभरणभूषिताः

॥७६॥

पुमांसमभिकाङ्क्षन्त्यो यद्येकः कामयेत्स्त्रियः ।

मौक्तिकैर्रत्नमाणिक्यैर्वैडूर्यैश्च सुशोभनैः

॥७७॥

कामहारैश्च वंशैश्च बद्धो हिन्दोलकः कृतः ।

आरूढाश्च महाकन्या गायन्ते सुस्वरं तदा

॥७८॥

मारुतः शीतलो वाति वनं स्पृष्ट्वा सुशोभनम् ।

वातेन प्रेरितो गन्धो दानवो घ्राणपीडितः

॥७९॥

ततः कुसुमगन्धेन विस्मयं परमं गतः ।

आघ्राय चेदृशं पुण्यं न दृष्टं न श्रुतं मया

॥८०॥

वने चिन्तयतः किंचिद्ध्वनिगीतं सुशोभनम् ।

गीतस्य च ध्वनिं श्रुत्वा मोहितो मायया हरेः

॥८१॥

व्याधस्यैव महाकूटे पतन्ति च यथा मृगाः ।

कालस्पृष्टस्तथा कृष्णे पतितश्च नराधिप

॥८२॥

दृष्ट्वा कन्यां च तां दैत्यो मूर्च्छया पतितो भुवि ।

पतितेन तु दृष्टैका कन्या वटतले स्थिता

॥८३॥

आस्यं दृष्ट्वा तु नारीणां पुनः कामेन पीडितः ।

गृहीत्वा हेमदण्डं तु तां पातयितुमिच्छति

॥८४॥

कन्योवाच

मा मानुस्पर्शयत्वं हि कुमार्यहं कुलोत्तम ।

भो मुञ्च मुञ्च मां शीघ्रं यावद्गच्छाम्यहं गृहम्

॥८५॥

दानव उवाच

अहं विवाहमिच्छामि त्वया सह सुशोभने ।

भूपृष्ठे सकले राज्ञी भवस्येवं न संशयः

॥८६॥

कन्योवाच

पिता रक्षति कौमार्ये भर्ता रक्षति यौवने ।

पुत्रो रक्षति वृद्धत्वे न स्त्री स्वातन्त्र्यमर्हति

॥८७॥

न स्वातन्त्र्यं ममैवास्ति उत्पन्नाहं महत्कुले ।

याच्यस्तु मत्पिता भ्राता मातापि हि तथैव च

॥८८॥

दानव उवाच

यदि मां नेच्छसे त्वद्य स्वातन्त्र्यं नावलम्बसे ।

ममापि च तदा हत्या सत्यं च शुभलोचने

॥८९॥

कन्योवाच

विश्वासो नैव कर्तव्यो यादृशे तादृशे नरे ।

नराः स्त्रीषु विचित्राश्च लम्पटाः काममोहिताः

॥९०॥

परिणीय तु मां त्वं हि भुङ्क्ष्व भोगान्मया सह ।

जन्मनाशो भवेत्पश्चान्न त्वं नान्यो भवेन्मम

॥९१॥

ब्राह्मणी क्षत्रिणी वैशी शूद्री यावत्तथैव च ।

द्वितीयो न भवेद्भर्ता एकाकी चेह जन्मनि

॥९२॥

दानव उवाच

यत्त्वया गदितं वाक्यं तन्मया धारितं हृदि ।

प्रत्ययं मे कुरुष्वाद्य यत्ते मनसि रोचते

॥९३॥

कन्योवाच

जानीष्व गोपकन्यां मां क्रीडामि सखिभिः सह ।

अस्मत्कुलेषु यद्दिव्यं तत्कुरुष्व यथाविधि

॥९४॥

न तद्दिव्यं कुलेऽस्माकं विषं कोशं न तत्तुला ।

गोपान्वयेषु सर्वेषु हस्तः शिरसि दीयते

॥९५॥

कामान्धेनैव राजेन्द्र निक्षिप्तो मस्तके करः ।

तत्क्षणाद्भस्मसाद्भूतो दग्धस्तृणचयो यथा

॥९६॥

केशवोपरि देवैस्तु पुष्पवृष्टिः शुभा कृता ।

हृष्टाः सर्वेऽगमन्देवाः स्वस्थानं विगतज्वराः

॥९७॥

क्षीरोदं केशवो गच्छत्कालपृष्ठे निपातिते ।

य इदं शृणुयाद्भक्त्या चरितं दानवस्य च

॥९८॥

स जयी जायते नित्यं शङ्करस्य वचो यथा ।

एतस्मात्कारणाद्राजंल्लिङ्गेश्वरमिति श्रुतम्

॥९९॥

लीनं च पातकं यस्मात्स्नानमात्रेण नश्यति ।

त्वगस्थि शोणितं मांसं मेदःस्नायुस्तथैव च

॥१००॥

मज्जाशुक्रगतं पापं नश्यते जन्मकोटिजम् ।

लुङ्केश्वरे महाराज तोयं पिबति भक्तितः

॥१०१॥

त्रिभिः प्रसृतिमात्राभिः पापं याति सहस्रधा ।

विशेषेण चतुर्दश्यामुभौ पक्षौ तु चाष्टमी

॥१०२॥

उपोष्य यो नरो भक्त्या पित्ःणां पाण्डुनन्दन ।

उद्धृतास्तेन ते सर्वे नारकीयाः पितामहाः

॥१०३॥

काकिणीं चैव यो दद्याद्ब्राह्मणे वेदपारगे ।

तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत्

॥१०४॥

प्राप्तं तु नान्यथा राजञ्छङ्करो वदते त्विदम् ।

स्पर्शलिङ्गमिदं राजञ्छङ्करेण तु निर्मितम्

॥१०५॥

स्पर्शमात्रे मनुष्याणां रुद्रवासोऽभिजायते ।

तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत्

॥१०६॥

एतस्मात्कारणाद्राजंल्लोकपालाश्च रक्षकाः ।

दुर्गा च रक्षणे सृष्टा चतुर्हस्तधरा शुभा

॥१०७॥

धनदो लोकपालेशो रक्षकश्चेश्वरस्य च ।

रक्षति च सदा कालं ग्रहव्यापाररूपतः

॥१०८॥

पुत्रभ्रातृसमारूपैः स्वामिसम्बन्धरूपिभिः ।

लङ्केश्वरं च राजेन्द्र देवैर्नाद्यापि मुच्यते

॥१०९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लुङ्केश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥