मन्मथेश्वरतीर्थमाहात्म्यवर्णनम्
मार्कण्डेय उवाच
मन्मथेशं ततो गच्छेत्सर्वदेवनमस्कृतम् ।
स्नानमात्रान्नरो राजन्यमलोकं न पश्यति
॥१॥अनपत्या या च नारी स्नायाद्वै पाण्डुनन्दन ।
पुत्रं सा लभते पार्थ सत्यसङ्घं दृढव्रतम्
॥२॥तत्र स्नात्वा नरो राजञ्छुचिः प्रयतमानसः ।
उपोष्य रजनीमेकां गोसहस्रफलं लभेत्
॥३॥कामिकं तीर्थराजं तु तादृशं न भविष्यति ।
त्रिरात्रं कुरुते राजन्स गोलक्षफलं लभेत्
॥४॥तत्र नृत्यं प्रकर्तव्यं तुष्यते परमेश्वरः ।
गीतवादित्रनिर्घोषै रात्रौ जागरणेन च
॥५॥एरण्ड्यां च महादेवो दृष्टो मे मन्मथेश्वरः ।
किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति
॥६॥कामेन स्थापितः शम्भुरेतस्मात्कामदो नृप ।
सोपानः स्वर्गमार्गस्य पृथिव्यां मन्मथेश्वरः
॥७॥विशेषश्चात्र सन्ध्यायां श्राद्धदाने च भारत ।
अन्नदानेन राजेन्द्र कीर्तितं फलमुत्तमम्
॥८॥एतत्ते सर्वमाख्यातं तव भक्त्या तु भारत ।
पृथिव्यां सागरान्तायां प्रख्यातो मन्मथेश्वरः
॥९॥गोदानं पाण्डवश्रेष्ठ त्रयोदश्यां प्रकारयेत् ।
चैत्रे मासि सिते पक्षे तत्र गत्वा जितेन्द्रियः
॥१०॥रात्रौ जागरणं कृत्वा देवस्याग्रे नृपोत्तम ।
दीपं भक्त्या घृतेनैव देवस्याग्रे निवेदयेत्
॥११॥स्त्र्यथ वा पुरुषो वापि सममेतत्फलं स्मृतम्
॥१२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मन्मथेश्वरतीर्थमाहात्म्यवर्णनं नाम द्व्यधिकशततमोऽध्यायः ॥