मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ५७

3
अवन्तीखण्डः · रेवाखण्डः · 57

व्याधस्वर्गगमनवर्णनम्

ईश्वर उवाच

भानुमती द्विजान्भोज्य बुभुजे भुक्तशेषतः ।

भुक्त्वा सुसुखमास्थाय तदन्नं परिणाम्य च

॥१॥

त्रयोदश्यां ततो गत्वा मदनाख्यतिथौ तदा ।

मार्कण्डस्य ह्रदे स्नात्वानर्च्य देवं गुहाशयम्

॥२॥

कृतोपवासनियमा स्नापयित्वा महेश्वरम् ।

पञ्चामृतसुगन्धेन धूपदीपनिवेदनैः

॥३॥

आर्चयद्विविधैः पुष्पैर्नैवेद्यैश्च सुशोभनैः ।

क्षपाजागरणं कृत्वा श्रुत्वा पौराणिकीं कथाम्

॥४॥

नृत्यगीतैस्तथा स्तोत्रैर्दध्यौ देवं महेश्वरम् ।

अन्नं विस्तारितं सर्वं देवस्याग्रे यथाविधि

॥५॥

चातुर्वर्ण्यसुताः सर्वे भोजिताः सपरिच्छदाः ।

चतुर्दश्यां दिनं यावत्सम्पूज्य वृषभध्वजम्

॥६॥

शङ्खवादित्रभेरीभिः पटहध्वनिनादितम् ।

क्षपाजागरणं कृत्वा प्रभूतजनसंकुलम्

॥७॥

नृत्यगीतैस्तथा स्तोत्रैः प्रेरिता सा निशा तदा ।

प्रभाते भोजिता विप्राः पायसैर्मधुसर्पिषा

॥८॥

दत्त्वा दानानि विप्रेभ्यः शक्त्या विप्रानुसारतः ।

अर्चयित्वा महापुष्पैः सुगन्धैर्मदनेन च

॥९॥

विचित्रैः सूक्ष्मवस्त्रैश्च देवः सम्पूज्य वेष्टितः ।

स्रग्दामलम्बमानैश्च बहुदीपसमुज्ज्वलैः

॥१०॥

पक्वान्नैर्विविधैर्भक्ष्यैः सुवृत्तैर्मोदकादिभिः ।

ततस्ते ब्राह्मणाः सर्वे वेदाध्ययनतत्पराः

॥११॥

तत्पर्व कीर्तयांश्चक्रुः पद्मकं नाम नामतः ।

आदित्यस्य दिनं त्वद्य तिथिः पञ्चदशी तथा

॥१२॥

त्वाष्ट्रमेव च नक्षत्रं संक्रान्तिर्विषुवन्तथा ।

व्यतीपातस्तथा योगः करणविष्टिरेव च

॥१३॥

पद्मकं नाम पर्वैतदयनादिचतुर्गुणम् ।

अत्र दत्तं हुतं जप्तं सर्वं भवति चाक्षयम्

॥१४॥

ते द्विजा भानुमत्याथ शूलभेदं गताः सह ।

ददृशुः शबरं कुण्डे भार्यया सह संस्थितम्

॥१५॥

ऐशानीं स दिशं गत्वा पर्वते भृगुमूर्धनि ।

पतितुं च समारूढो भार्यया सह पार्थिव

॥१६॥

भानुमत्युवाच

तिष्ठ तिष्ठ महासत्त्व शृणुष्व वचनं मम ।

किमर्थं त्यजसि प्राणानद्यापि च युवा भवान्

॥१७॥

कः सन्तापः क उद्वेगः किं दुःखं व्याधिरेव च ।

शिशुः संदृश्यसेऽद्यापि कारणं कथ्यतामिदम्

॥१८॥

शबर उवाच

कारणं नास्ति मे किंचिन्न दुःखं किंचिदेव तु ।

संसारभयभीतोऽहं नान्या बुद्धिः प्रवर्तते

॥१९॥

दुःखेन लभ्यते यस्मान्मानुष्यं जन्म भाग्यतः ।

मानुष्यं जन्म चासाद्य या न धर्मं समाचरेत्

॥२०॥

स गच्छेन्निरयं घोरमात्मदोषेण सुन्दरि ।

तस्मात्पतितुमिच्छामि तीर्थेऽस्मिन्पापनाशने

॥२१॥

राज्ञ्युवाच

अद्यापि वर्तते कालो धर्मस्योपार्जने तव ।

कृतापकृतकर्मा वै व्रतदानैर्विशुध्यति

॥२२॥

अहं दास्यामि धान्यं वा वासांसि द्रविणं बहु ।

नित्यमाचर धर्मं त्वं ध्यायन्नित्यं महेश्वरम्

॥२३॥

शबर उवाच

नैवाहं कामये वित्तं न धान्यं वस्त्रमेव च ।

यो यस्यैवान्नमश्नाति स तस्याश्नाति किल्बिषम्

॥२४॥

राज्ञ्युवाच

कन्दमूलफलाहारो भ्रमित्वा भैक्ष्यमुत्तमम् ।

अवगाह्य सुतीर्थानि सर्वपापैः प्रमुच्यते

॥२५॥

ततो विमुक्तपापस्तु यत्किंचित्कुरुते शुचिः ।

कर्मणा तेन पूतस्त्वं सद्गतिं प्राप्स्यसि ध्रुवम्

॥२६॥

शबर उवाच

अन्नमद्य मया त्यक्तं प्राणेभ्योऽपि महत्तरम् ।

सत्यं न लोपयेद्देवि निश्चितात्र मतिर्मम

॥२७॥

प्रसादः क्रियतां देवि क्षमस्वाद्य जनैः सह ।

अर्धोत्तरीयवस्त्रेण संयम्यात्मानमुद्यतः

॥२८॥

भार्यया सहितो व्याधो हरिं ध्यात्वा पपात ह ।

नगार्धात्पतितो यावद्गतजीवो नराधिप

॥२९॥

चूर्णीभूतौ हि तौ दृष्ट्वा कुण्डस्योपरि भूमिप ।

त्रिमुहूर्ते गते काले शबरो भार्यया सह

॥३०॥

दिव्यं विमानमारूढो गतश्चानुत्तमां गतिम्

॥३१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे व्याधस्वर्गगमनवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥