मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १७१

3
अवन्तीखण्डः · रेवाखण्डः · 171

नारायणसमीपे तु गताः सर्वे महर्षयः

श्रीमार्कण्डेय उवाच

कथितं ब्राह्मणं द्रष्टुं शूले क्षिप्तं तपोधनैः ।

नारायणसमीपे तु गताः सर्वे महर्षयः

॥१॥

नारदो देवलो रैभ्यो यमः शातातपोऽङ्गिराः ।

वसिष्ठो जमदग्निश्च याज्ञवल्क्यो बृहस्पतिः

॥२॥

कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽरुणिर्मुनिः ।

वालखिल्यादयोऽन्ये च सर्वेऽप्यृषिगणान्वयाः

॥३॥

ददृशुः शूलमारूढं माण्डव्यमृषिपुंगवाः ।

प्रोचुर्नारायणं विप्रं किं कुर्मस्तव चेप्सितम्

॥४॥

सर्वे ते तत्र सांनिध्यान्माण्डव्यस्य महात्मनः ।

संभ्रान्ता आगता ऊचुः किं मृतः किं नु जीवति

॥५॥

अवस्थां तस्य ते दृष्ट्वा विषादमगमन्परम् ।

असहित्वा तु तद्दुःखं सर्वे ते मनसा द्विजाः

॥६॥

पृच्छयतां यदि मन्येत राजानं भस्मसात्कुरु ।

तेषां तद्वचनं श्रुत्वा वाक्यं नारायणोऽब्रवीत्

॥७॥

मयि जीवति मद्भ्राता ह्यवस्थामीदृशीं गतः ।

धिग्जीवितं च मे किंतु तपसो विद्यते फलम्

॥८॥

दृष्ट्वा शूलस्थितं ज्येष्ठं मन्मनो नु विदीर्यते ।

परं किं तु करिष्यामि येन राष्ट्रं सराजकम्

॥९॥

भस्मसाच्च करोम्यद्य भवद्भिः क्षम्यतामिह ।

एवमुक्त्वा गृहीत्वासौ करस्थमभिमन्त्रयेत्

॥१०॥

क्रोधेन पश्यते यावत्तावद्धुंकारकोऽभवत् ।

तेन हुङ्कारशब्देन ऋषयो विस्मितास्तदा

॥११॥

माण्डव्यस्य समीपे तु ह्यपृच्छंस्ते द्विजोत्तमाः ।

निवारयसि किं विप्र शापं नृपजिघांसनम्

॥१२॥

अपापस्य तु येनेह कृतमस्य जिघांसनम् ।

ऋषीणां वचनं श्रुत्वा कृच्छ्रान्माण्डव्यकोऽब्रवीत्

॥१३॥

अभिवन्दामि वो मूर्ध्ना स्वागतं ऋषयः सदा ।

अर्घ्यसन्मानपूजार्हाः सर्वेऽत्रोपविशन्तु ते

॥१४॥

निविष्टैकाग्रमनसा सर्वान्माण्डव्यकोऽब्रवीत्

॥१५॥

प्राप्तं दुःखं मया घोरं पूर्वजन्मार्जितं फलम् ।

मा विषादं कुरुध्वं भोः कृतं पापं तु भुज्यते

॥१६॥

ऋषय ऊचुः

केन कर्मविपाकेन इह जात्यन्तरं व्रजेत् ।

दानधर्मफलेनैव केन स्वर्गं च गच्छति

॥१७॥

माण्डव्य उवाच

अदत्तदाना जायन्ते परभाग्योपजीविनः ।

न स्नानं न जपो होमो नातिथ्यं न सुरार्चनम्

॥१८॥

न पर्वणि पितृश्राद्धं न दानं द्विजसत्तमाः ।

व्रजन्ति नरके घोरे यान्ति ते त्वन्त्यजां गतिम्

॥१९॥

पुनर्दरिद्राः पुनरेव पापाः पापप्रभावान्नरके वसन्ति ।

तेनैव संसरिणि मर्त्यलोके जीवादिभूते कृमयः पतङ्गाः

॥२०॥

ये स्नानशीला द्विजदेवभक्ता जितेन्द्रिया जीवदयानुशीलाः ।

ते देवलोकेषु वसन्ति हृष्टा ये धर्मशीला जितमानरोषाः

॥२१॥

विद्याविनीता न परोपतापिनः स्वदारतुष्टाः परदारवर्जिताः ।

तेषां न लोके भयमस्ति किंचित्स्वभावशुद्धा गतकल्मषा हि ते

॥२२॥

ऋषय ऊचुः

पूर्वजन्मनि विप्रेन्द्र किं त्वया दुष्कृतं कृतम् ।

येन कष्टमिदं प्राप्तं सन्धानं शूलगर्हितम्

॥२३॥

शूलस्थं त्वां समालक्ष्य ह्यागताः सर्व एव हि ।

जीवन्तं त्वां प्रपश्याम त्वन्तरन्नवतारयन् ।

रुजासंतापजं दुःखं सोढ्वापि त्वमवेदनः

॥२४॥

माण्डव्य उवाच

स्वयमेव कृतं कर्म स्वयमेवोपभुज्यते ।

सुकृतं दुष्कृतं पूर्वे नान्ये भुञ्जन्ति कर्हिचित्

॥२५॥

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।

तथा पूर्वकृतं कर्म कर्तारमुपगच्छति

॥२६॥

न माता न पिता भ्राता न भार्या न सुताः सुहृत् ।

न कस्य कर्मणां लेपः स्वयमेवोपभुज्यते

॥२७॥

श्रूयतां मम वाक्यं च भवद्भिः पृच्छितो ह्यहम् ।

पूर्वे वयसि भो विप्रा मलस्नानकृतक्षणः

॥२८॥

अज्ञानाद्बालभावेन यूका कण्टेऽधिरोपिता ।

तैलाभ्यक्तशिरोगात्रे मया यूका घृता न हि

॥२९॥

कङ्कतीं रोप्य केशेषु सासा कण्टेऽधिरोपिता ।

तेषु पापं कृतं सद्यः फलमेतन्ममाभवत्

॥३०॥

किंचित्कालं क्षपित्वाहं प्राप्स्ये मोक्षं निरामयम् ।

भवन्तस्त्विह सन्तापं मां कुरुध्वं महर्षयः

॥३१॥

इमामवस्थां भुक्त्वाहं कंचिच्छपे न चोच्चरे ।

अहनि कतिचिच्छूले क्षपयिष्यामि किल्बिषम्

॥३२॥

प्राक्तनं कर्म भुञ्जामि यन्मया संचितं द्विजाः ।

क्षन्तव्यमस्य राज्ञोऽथ कोपश्चैव विसर्ज्यताम्

॥३३॥

श्रुत्वा तु तस्य तद्वाक्यं माण्डव्यस्य महर्षयः ।

प्रहर्षमतुलं लब्ध्वा साधु साध्वित्यपूजयन्

॥३४॥

नारायण उवाच

इदं जलं मन्त्रपूतं कस्मिन्स्थाने क्षिपाम्यहम् ।

येन राजा भवेद्भस्म सराष्ट्रः सपुरोहितः

॥३५॥

माण्डव्य उवाच

इदं जलं च रक्षस्व कालकूटविषोपमम् ।

समुद्रे क्षिपयिष्यामि देवकार्यं समुत्थितम्

॥३६॥

अथ ते मुनयः सर्वे माण्डव्यं प्रणिपत्य च ।

आमन्त्रयित्वा हर्षाच्च कश्यपाद्या गृहान्ययुः

॥३७॥

गच्छमानास्तु ते चोक्ताः पञ्चमेऽहनि तापसाः ।

आगन्तव्यं भवद्भिश्च मत्सकाशं प्रतिज्ञया

॥३८॥

तथेति ते प्रतिज्ञाय नारदाद्या अदर्शनम् ।

गतेषु विप्रमुख्येषु शाण्डिली च तपोधना

॥३९॥

द्वितीयेऽह्नि समायाता न तु बुद्ध्वाथ तं ऋषिम् ।

भर्तारं शिरसा धार्य रात्रौ पर्यटते स्म सा

॥४०॥

न दृष्टः शूलके विप्रो भराक्रान्त्या युधिष्ठिर ।

स्खलिता तस्य जानुभ्यां शूलस्थस्य पतिव्रता

॥४१॥

सर्वाङ्गेषु व्यथा जाता तस्याः प्रस्खलनान्मुनेः ।

ईदृशीं वर्तमानां च ह्यवस्थां पूर्वदैविकीम्

॥४२॥

पुनः पापफलं किंचिद्धा कष्टं मम वर्तते ।

व्यथितोऽहं त्वया पापे किमर्थं सूनकर्मणि

॥४३॥

स्वैरिणीं त्वां प्रपश्यामि राक्षसी तस्करी नु किम् ।

एवमुक्त्वा क्षणं मोहात्क्रन्दमानो मुहुर्मुहुः

॥४४॥

तपस्विनोऽथ ऋषयः सर्वे संत्रस्तमानसाः ।

पश्यमाना मुनेः कष्टं पृच्छन्ते ते युधिष्ठिर

॥४५॥

पर्यटसे किमर्थं त्वं निशीये वहनं नु किम् ।

क्षिप्तं तु झोलिकाभारं किंवागमनकारणम् ।

व्यथामुत्पाद्य ऋषये दुःखाद्दुःखविलासिनि

॥४६॥

शाण्डिल्युवाच

नासुरीं न च गन्धर्वीं न पिशाचीं न राक्षसीम् ।

पतिव्रतां तु मां सर्वे जानन्तु तपसि स्थिताम्

॥४७॥

न मे कामो न मे क्रोधो न वैरं न च मत्सरः ।

अज्ञानाद्दृष्टिमान्द्याच्च स्खलनं क्षन्तुमर्हथ

॥४८॥

वहनं भर्तृसौख्याय दिवा सम्पीड्यते रुजा ।

अयं भर्ता विजानीथ झोलिकासंस्थितः सदा

॥४९॥

भरणं पानं वस्त्रं च ददाम्येतस्य रोगिणः ।

ऋषिः शौनकमुख्योऽसौ शाण्डिलीं मां विजानत

॥५०॥

स्वभर्तृधर्मिणीं कोपं मा कुरुष्वातिथिं कुरु ।

सतां समीपं सम्प्राप्तां सर्वं मे क्षन्तुमर्हथ

॥५१॥

ऋषय ऊचुः

परव्यथां न जानीषे व्यचरन्ती यदृच्छया ।

प्रभातेऽभ्युदिते सूर्ये तव भर्ता मरिष्यति

॥५२॥

आत्मदुःखात्परं दुःखं न जानासि कुलाधमे ।

तेन वाक्येन घोरेण शाण्डिली विमनाभवत्

॥५३॥

परं विषादमापन्ना क्षणं ध्यात्वाब्रवीद्वचः ।

कोपात्संरक्तनयना निरीक्षन्ती मुनींस्तदा

॥५४॥

सतां गेहे किल प्राप्ता भवतां चापकारिणी ।

सामेनातिथिपूजायां शिष्टे च गृहमागते

॥५५॥

भवद्भिरीदृगातिथ्यं कृतं चैव ममैव तु ।

स्वर्गापवर्गधर्मश्च भवद्भिर्न निरीक्षितम्

॥५६॥

प्राजापत्यामिमां दृष्ट्वा मां यथा प्राकृताः स्त्रियः ।

भवन्तः स्त्रीबलं मेऽद्य पश्यन्तु दिवि देवताः

॥५७॥

मरिष्यति न मे भर्ता ह्यादित्यो नोदयिष्यति ।

अन्धकारं जगत्सर्वं क्षीयते नाद्य शर्वरी

॥५८॥

एवमुक्ते तया वाक्ये स्तम्भितेऽर्के तमोमयम् ।

न च प्रजायते सर्वं निर्वषट्कारसत्क्रियम्

॥५९॥

स्वाहाकारः स्वधाकारः पञ्चयज्ञविधिर्नहि ।

स्नानं दानं जपो नास्ति सन्ध्यालोपव्यतिक्रमः ।

षण्मासं च तदा पार्थ लुप्तपिण्डोदकक्रियम्

॥६०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शाण्डिलीऋषिसंवादवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः ॥