मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १९५

3
अवन्तीखण्डः · रेवाखण्डः · 195

श्रीपतिमाहात्म्यवर्णनम्

युधिष्ठिर उवाच

देवतीर्थे तु किं नाम माहात्म्यं समुदाहृतम् ।

फलं किं स्नानदानादिकारिणां जायते मुने

॥१॥

मार्कण्डेय उवाच

पृथिव्यां यानि तीर्थानि देवैर्मुनिगणैरपि ।

सेवितानि महाबाहो तानि ध्यातानि विष्णुना

॥२॥

समागतान्येकतां वै तत्र तीर्थे युधिष्ठिर ।

तत्तीर्थं वैष्णवं पुण्यं देवतीर्थमिति श्रुतम्

॥३॥

कुरुक्षेत्रं भुवि परमन्तरिक्षे त्रिपुष्करम् ।

पुरुषोत्तमं दिवि परं देवतीर्थं परात्परम्

॥४॥

देवतीर्थसमं नास्ति तीर्थमत्र परत्र च ।

यत्प्राप्य मनुजस्तप्येन्न कदाचिद्युधिष्ठिर

॥५॥

देवैरुक्तानि तीर्थानि योऽत्र स्नानं समाचरेत् ।

देवतीर्थे स सर्वत्र स्नातो भवति मानवः

॥६॥

एवमस्त्विति तैरुक्ता देवा ऋषिगणा अपि ।

संतुष्टाः श्रीशमभ्यर्च्य स्वं स्वं स्थानं तु भेजिरे

॥७॥

सूर्यग्रहेऽत्र वै क्षेत्रे स्नात्वा यत्फलमश्नुते ।

स्नात्वा श्रीशं समभ्यर्च्य समुपोष्य यथाविधि

॥८॥

यद्ददाति हिरण्यानि दानानि विधिवन्नृप ।

तदनन्तफलं सर्वं सूर्यस्य ग्रहणे यथा

॥९॥

भूमिदानं धेनुदानं स्वर्णदानमनन्तकम् ।

वज्रदानमनन्तं च फलं प्राह शतक्रतुः

॥१०॥

सोमो वै वस्त्रदानेन मौक्तिकानां च भार्गवः ।

सुवर्णस्य रविर्दानं धर्मराजो ह्यनन्तकम्

॥११॥

देवतीर्थे तु यद्दानं श्रद्धायुक्तेन दीयते ।

तदनन्तफलं प्राह बृहस्पतिरुदारधीः

॥१२॥

देवतीर्थे भृगुक्षेत्रे सर्वतीर्थाधिक नृप ।

देवतीर्थे नरः स्नात्वा श्रीपतिं योऽनुपश्यति

॥१३॥

सोमग्रहे कुलशतं स समुद्धृत्य नाकभाक् ।

दानानि द्विजमुख्येभ्यो देवतीर्थे नराधिप

॥१४॥

यैर्दत्तानि नरैर्भोगभागिनः प्रेत्य चेह ते ।

देवतीर्थे विप्रभोज्यं हरिमुद्दिश्य यश्चरेत्

॥१५॥

स सर्वाह्लादमाप्नोति स्वर्गलोके युधिष्ठिर ।

देवतीर्थे नरो नारी स्नात्वा नियतमानसौ

॥१६॥

उपोष्यैकादशीं भक्त्या पूजयेद्यः श्रियः पतिम् ।

रात्रौ जागरणं कृत्वा घृतेनोद्बोध्य दीपकम्

॥१७॥

द्वादश्यां प्रातरुत्थाय तथा वै नर्मदाजले ।

विप्रदाम्पत्यमभ्यर्च्य विधिवत्कुरुनन्दन

॥१८॥

वस्त्राभरणताम्बूलपुष्पधूपविलेपनैः ।

अक्षये विष्णुलोकेऽसौ मोदते चरितव्रतः

॥१९॥

यः सदैकादशीतिथौ स्नात्वोपोष्यार्चयेद्धरिम् ।

रात्रौ जागरणं कुर्याद्वेदशास्त्रविधानतः

॥२०॥

धर्मराजकृतां पापां न स पश्यति यातनाम् ।

पञ्चरात्रविधानेन श्रीपतिं योऽर्चयिष्यति

॥२१॥

दीक्षामवाप्य विधिवद्वैष्णवीं पापनाशिनीम् ।

स्वर्गमोक्षप्रदां पुण्यां भोगदां वित्तदामथ

॥२२॥

राज्यदां वा महाभाग पुत्रदां भाग्यदामथ ।

सुकलत्रप्रदां वापि विष्णोर्भक्तिप्रदामिति

॥२३॥

तरिष्यति भवाम्भोधिं स नरः कुरुनन्दन ।

योऽर्चयिष्यति तत्रैव देवतीर्थे श्रियः पतिम्

॥२४॥

विश्वरूपमथो सम्यङ्मूलश्रीपतिमेव वा ।

नारायणगिरिं वापि गृहे वैकादशीतिथौ

॥२५॥

भक्तिमाञ्छ्रद्धया युक्तः क्षीरैस्तीर्थोदकैरपि ।

सुसूक्ष्मैरहतैर्वस्त्रैर्महाकौशेयकैर्नृप

॥२६॥

विचित्रैर्नेत्रजैर्वापि धूपैरगुरुचन्दनैः ।

गुग्गुलैर्घृतमिश्रैश्च नैवेद्यैर्विविधैरपि

॥२७॥

पायसाद्यैर्मनुष्येन्द्र पयसा वा युधिष्ठिर ।

पिष्टदीपैः सुविमलैर्वर्धमानैर्मनोहरैः

॥२८॥

पूजयित्वा नरो याति यथा तच्छृणु भारत ।

शङ्खी चक्री गदी पद्मी भूत्वासौ गरुडध्वजः

॥२९॥

देवलोकानतिक्रम्य विष्णुलोकं प्रपद्यते ।

यस्तु वै परया भक्त्या श्रीपतेः पादपङ्कजम्

॥३०॥

चतुर्धाधिष्ठितं पश्येच्छ्रियं त्रैलोक्यमातरम् ।

नृत्यगीतविनोदेन मुच्यते पातकर्ध्रुवम्

॥३१॥

नीराजने तु देवस्य प्रातर्मध्ये दिने तथा ।

सायं च नियतो नित्यं यः पश्येत्पूजयेद्धरिम्

॥३२॥

स तीर्त्वा ह्यापदं दुर्गां नैवार्तिं समवाप्नुयात् ।

आयुःश्रीवर्धनं पुंसां चक्षुषामपि पूरकम्

॥३३॥

उपपापहरं चैव सदा नीराजनं हरेः ।

तदा नीराजनाकाले यो हरेः पठति स्तवम्

॥३४॥

स धन्यो देवदेवस्य प्रसन्नेनान्तरात्मना ।

हरेर्नीराजनाशेषं पाणिभ्यां यः प्रयच्छति

॥३५॥

संगृह्य चक्षुषी तेन योजयेन्मार्जयन्मुखम् ।

तिमिरादीनक्षिरोगान्नाशयेद्दीप्तिमन्मुखम्

॥३६॥

भवत्यशेषदुष्टानां नाशायालं नरोत्तम ।

दीपप्रज्वलनं यस्य नित्यमग्रे श्रियः पतेः

॥३७॥

स्नात्वा रेवाजले पुण्ये प्रदद्यादधिकं व्रती ।

सप्तद्वीपवती तेन ससागरवनापगा

॥३८॥

प्रदक्षिणीकृता स्याद्वै धरणी शङ्करोऽब्रवीत् ।

इदं यः पठ्यमानं तु शृणुयात्पठतेऽपि वा

॥३९॥

स्मरणं सोऽतसमये विपाप्मा प्राप्नुयाद्धरेः ।

इदं यशस्यमायुष्यं स्वर्ग्यं पितृगुणप्रियम्

॥४०॥

माहात्म्यं श्रावयेद्विप्राञ्छ्रीपतेः श्राद्धकर्मणि ।

घृतेन मधुना तेन तर्पिताः स्युः पितामहाः

॥४१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥