मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १३३

3
अवन्तीखण्डः · रेवाखण्डः · 133

कुबेरादितीर्थचतुष्टयमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल परं तीर्थचतुष्टयम् ।

येषां दर्शनमात्रेण सर्वपापक्षयो भवेत्

॥१॥

कौबेरं वारुणं याम्यं वायव्यं तु ततः परम् ।

यत्र सिद्धा महाप्राज्ञा लोकपाला महाबलाः

॥२॥

युधिष्ठिर उवाच

किमर्थं लोकपालैश्च तपश्चीर्णं पुरानघ ।

नर्मदातटमाश्रित्य ह्येतन्मे वक्तुमर्हसि

॥३॥

श्रीमार्कण्डेय उवाच

अधिष्ठानं समिच्छन्ति ह्यचलं निर्बले सति ।

संसारे सर्वभूतानां तृणबिन्दुवदस्थिरे

॥४॥

कदलीसारनिःसारे मृगतृष्णेव चञ्चले ।

स्थावरे जङ्गमे सर्वे भूतग्रामे चतुर्विधे

॥५॥

धर्मो माता पिता धर्मो धर्मो बन्धुः सुहृत्तथा ।

आधारः सर्वभूतानां त्रैलोक्ये सचराचरे

॥६॥

एवं ज्ञात्वा तु ते सर्वे लोकपालाः कृतक्षणाः ।

तपस्ते चक्रुरतुलं मारुताहारतत्पराः

॥७॥

ततस्तुष्टो महादेवः कृतस्यार्द्धे गते तदा ।

अनुरूपेण राजेन्द्र युगस्य परमेश्वरः

॥८॥

वरेण छन्दयामास लोकपालान्महाबलान् ।

यो यमिच्छति कामं वै तं तं तस्य ददाम्यहम्

॥९॥

एतच्छ्रुत्वा वचस्तस्य लोकपाला जगद्धिताः ।

वरदं प्रार्थयामासुर्देवं वरमनुत्तमम्

॥१०॥

कुबेर उवाच

यदि तुष्टो महादेव यदि देयो वरो मम ।

यक्षाणामीश्वरश्चाहं भवामि धनदस्त्विति

॥११॥

ततः प्रोवाच देवेशं यमः संयमने रतः ।

तत्र प्रधानो भगवान् भवेयं सर्वजन्तुषु

॥१२॥

वरुणोऽनन्तरं प्राह प्रणम्य तु महेश्वरम् ।

क्रीडेयं वारुणे लोके यादोगणसमन्वितः

॥१३॥

जगादाशु ततो वायुः प्रणम्य तु महेश्वरम् ।

व्यापकत्वं त्रिलोकेषु प्रार्थयामास भारत

॥१४॥

तेषां यदीप्सितं काममुमया सह शङ्करः ।

सर्वेषां लोकपालानः दत्त्वा चादर्शनं गतः

॥१५॥

गते महेश्वरे देवे यथास्थानं तु ते स्थिताः ।

स्थापना च कृता सर्वैः स्वनाम्नैव पृथक्पृथक्

॥१६॥

कुबेरश्च कुबेरेशं यमश्चैव यमेश्वरम् ।

वरुणो वरुणेशं तु वातो वातेश्वरं नृप

॥१७॥

तर्पणं विदधुः सर्वे मन्त्रैश्च विविधैः शुभैः ।

सर्वे सर्वेश्वरं देव पूजयित्वा यथाविधि

॥१८॥

आह्वयामासुस्तान् विप्रान्सर्वे सर्वेश्वरा इव ।

क्षान्तदान्तजितक्रोधान्सर्वभूताभयप्रदान्

॥१९॥

वेदविद्याव्रतस्नातान् सर्वशास्त्रविशारदान् ।

ऋग्यजुःसामसंयुक्तांस्तथाथर्वविभूषितान्

॥२०॥

चातुर्विध्यं तु सर्वेषां दानं दास्याम गृह्णत ।

एवमुक्त्वा तु सर्वेषां विप्राणां दानमुत्तमम्

॥२१॥

तत्र स्थाने ददुस्तेषां भूमिदानमनुत्तमम् ।

यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी

॥२२॥

तावद्दानं तु युष्माकं परिपन्थी न कश्चन ।

राजा वा राजतुल्यो वा लोकपालैरनुत्तमम्

॥२३॥

दत्तं लोपयते मूढः श्रूयतां तस्य यो विधिः ।

शोषयेद्धनदो वित्तं तस्य पापस्य भारत

॥२४॥

शरीरं वरुणो देवः संततीं श्वसनस्तथा ।

आयुर्नयति तस्याशु यमः संयमनो महान्

॥२५॥

निःशेषं भस्मसात्कृत्वा हुतभुग्याति भारत ।

तस्मात्सर्वप्रयत्नेन ब्राह्मणेभ्यो युधिष्ठिर ।

भक्तिः कार्या नृपैः सर्वैरिच्छद्भिः श्रेय आत्मनः

॥२६॥

राजा वृक्षो ब्राह्मणास्तस्य मूलं भृत्याः पर्णा मन्त्रिणस्तस्य शाखाः ।

तस्मान्मूलं यत्नतो रक्षणीयं मूले गुप्ते नास्ति वृक्षस्य नाशः

॥२७॥

षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ।

आच्छेत्ता चावमन्ता च तान्येव नरके वसेत्

॥२८॥

स्वदत्ता परदत्ता वा पालनीया वसुंधरा ।

यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्

॥२९॥

देवताज्ञामनुस्मृत्य राजानो येऽपि तां नृप ।

पालयिष्यन्ति सततं तेषां वासस्त्रिविष्टपे

॥३०॥

स्वदत्ता परदत्ता वा यत्नाद्रक्ष्या युधिष्ठिर ।

मही महीक्षिता नित्यं दानाच्छ्रेयोऽनुपालनम्

॥३१॥

आयुर्यशो बलं वित्तं संततिश्चाक्षया नृप ।

तेषां भविष्यते नूनं ये प्रजापालने रताः

॥३२॥

एवमुक्त्वा तु तान् सर्वांल्लोकपालान् द्विजोत्तमान् ।

पूजयित्वा विधानेन प्रणिपत्य व्यसर्जयन्

॥३३॥

गतेषु विप्रमुख्येषु स्नात्वा हुतहुताशनाः ।

लोकपालाः क्षुधाविष्टाः पर्यटन्भैक्षमात्मनः

॥३४॥

अस्थिचर्मावशेषाङ्गाः कपालोद्धृतपाणयः ।

अलब्धग्रासमर्द्धार्धं निर्ययुर्नगराद्बहिः

॥३५॥

शापं दत्त्वा तदा क्रोधाद्ब्राह्मणाय युधिष्ठिर ।

दरिद्राः सततं मूर्खा भवेयुश्च ययुर्गृहान्

॥३६॥

तदाप्रभृति ते सर्वे ब्राह्मणा धनवर्जिताः ।

शापदोषेण कौबेर्यां संजाता दुःखभाजनाः

॥३७॥

न धनं पैतृकं पुत्रैर्न पिता पुत्रपौत्रिकम् ।

भुञ्जते सकलं कालमित्येवं शङ्करोऽब्रवीत्

॥३८॥

कुबेरेशे नरः स्नात्वा यस्तु पूजयते शिवम् ।

गन्धधूपनमस्कारैः सोऽश्वमेधफलं लभेत्

॥३९॥

यमतीर्थे तु यः स्नात्वा सम्पश्यति यमेश्वरम् ।

सर्वपापैः प्रमुच्येत सप्तजन्मान्तरार्जितैः

॥४०॥

पूर्णमास्याममावास्यां स्नात्वा तु पितृतर्पणम् ।

यः करोति तिलैः स्नानं तस्य पुण्यफलं शृणु

॥४१॥

सुतृप्तास्तेन तोयेन पितरश्च पितामहाः ।

स्वर्गस्था द्वादशाब्दानि क्रीडन्ति प्रपितामहाः

॥४२॥

वरुणेशे नरः स्नात्वा ह्यर्चयित्वा महेश्वरम् ।

वाजपेयस्य यज्ञस्य फलं प्राप्नोति पुष्कलम्

॥४३॥

मृतां कालेन महता लोके यत्र जलेश्वरः ।

स गच्छेत्तत्र यानेन गीयमानोऽप्सरोगणैः

॥४४॥

वातेश्वरे नरः स्नात्वा सम्पूज्य च महेश्वरम् ।

जायते कृतकृत्योऽसौ लोकपालानवेक्षयन्

॥४५॥

किं तस्य बहुभिर्यज्ञैर्दानैर्वा बहुदक्षिणैः ।

स्नात्वा चतुष्टये लोके अवाप्तं जन्मनः फलम्

॥४६॥

ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।

नित्यं वसन्ति कौरिल्यां लोकपालान्निमन्त्र्य ये

॥४७॥

एतत्पुण्यं पापहरं धन्यमायुर्विवर्धनम् ।

पठतां शृण्वतां चैव सर्वपापक्षयो भवेत्

॥४८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुबेरादितीर्थचतुष्टयमाहात्म्यवर्णनं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥