मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ३६

3
अवन्तीखण्डः · रेवाखण्डः · 36

दारुकतीर्थमाहात्म्यवर्णनम्

मार्कण्डेय उवाच

ततो गच्छेच्च राजेन्द्र दारुतीर्थमनुत्तमम् ।

दारुको यत्र संसिद्ध इन्द्रस्य दयितः पुरा

॥१॥

युधिष्ठिर उवाच

दारुकेण कथं तात तपश्चीर्णं पुरानघ ।

विधानं श्रोतुमिच्छामि त्वत्सकाशाद्द्विजोत्तम

॥२॥

श्रीमार्कण्डेय उवाच

हन्त ते कथयिष्यामि विचित्रं यत्पुरातनम् ।

वृत्तं स्वर्गसभामध्ये ऋषीणां भावितात्मनाम्

॥३॥

सूतो वज्रधरस्येष्टो मातलिर्नाम नामतः ।

स पुत्रं शप्तवान्पूर्वं कस्मिंश्चित्कारणान्तरे

॥४॥

शापाहतो वेपमान इन्द्रस्य चरणौ शुभौ ।

प्रपीड्य मूर्ध्ना देवेशं विज्ञापयति भारत

॥५॥

तमुवाचाभिशप्तं चाप्यनाथं च सुरेश्वरः ।

कर्मणा केन शापस्य घोरस्यान्तो भविष्यति

॥६॥

नर्मदातटमाश्रित्य तोषयन्वै महेश्वरम् ।

तिष्ठ यावद्युगस्यान्तं पुनर्जन्म ह्यवाप्स्यसि

॥७॥

पुनर्भूत्वा तु पूतस्त्वं दारुको नाम विश्रुतः ।

संसेव्य परमं देवं शङ्खचक्रगदाधरम्

॥८॥

मानुषं भावमापन्नस्ततः सिद्धिमवाप्स्यसि ।

एवमुक्तस्तु देवेन सहस्राक्षेण धीमता

॥९॥

प्रणम्य शिरसा भूमिमागतोऽसौ ह्यचेतनः ।

नर्मदातटमाश्रित्य कर्षयन्निजविग्रहम्

॥१०॥

व्रतोपवाससंखिन्नो जपहोमरतः सदा ।

महादेवं महात्मानं वरदं शूलपाणिनम्

॥११॥

भक्त्या तु परया राजन्यावदाभूतसम्प्लवम् ।

अंशावतरणाद्विष्णोः सूतो भूत्वा महामतिः

॥१२॥

तोषयन् वै जगन्नाथं ततो यातो हि सद्गतिम्

॥१३॥

एष तत्सम्भवस्तात दारुतीर्थस्य सुव्रत ।

कथितोऽयं मया पूर्वं यथा मे शङ्करोऽब्रवीत्

॥१४॥

ततो युधिष्ठिरः श्रुत्वा विस्मयं परमं गतः ।

भ्रात्ःन् विलोकयामास हृष्टरोमा मुहुर्मुहुः

॥१५॥

श्रीमार्कण्डेय उवाच

तस्मिंस्तीर्थे नरः स्नात्वा विधिपूर्वं नरेश्वर ।

उपास्य संध्यां देवेशमर्चयेद्यश्च शङ्करम्

॥१६॥

वेदाभ्यासं तु तत्रैव यः करोति समाहितः ।

सोऽश्वमेधफलं राजंल्लभते नात्र संशयः

॥१७॥

तस्मिंस्तीर्थे तु यो भक्त्या भोजयेद्ब्राह्मणाञ्छुचिः ।

स तु विप्रसहस्रस्य लभते फलमुत्तमम्

॥१८॥

स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।

यत्कृतं शुद्धभावेन तत्सर्वं सफलं भवेत्

॥१९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दारुकतीर्थमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥