मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २१३

3
अवन्तीखण्डः · रेवाखण्डः · 213

आमलेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

पुनरन्यत्प्रवक्ष्यामि देवस्य चरितं महत् ।

श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते

॥१॥

अबालो बालरूपेण ग्रामण्यैर्बालकैः सह ।

आमलैः क्रीडते शम्भुस्तत्ते वक्ष्यामि भारत

॥२॥

सर्वैस्तैरामलाः क्षिप्ता ये ते देवेन पाण्डव ।

आनीतास्तत्क्षणादेव ततः पश्चात्क्षिपेद्धरः

॥३॥

यावद्गत्वा दिशो दिग्भ्य आगच्छन्ति पृथक्पृथक् ।

तावत्तमामलं भूतं पश्यन्ति परमेश्वरम्

॥४॥

तृतीये चैव यत्कर्म देवदेवस्य धीमतः ।

स्थानानां परमं स्थानमामलेश्वरमुत्तमम्

॥५॥

तेन पूजितमात्रेण प्राप्यते परमं पदम्

॥६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥