मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २३१

3
अवन्तीखण्डः · रेवाखण्डः · 231

यैस्तु तीर्थावलीगुम्फः पूर्वोक्तैरेकतः कृतः

श्रीसूत उवाच

तथैव तीर्थस्तबकान् वक्ष्येऽहमृषिसत्तमाः ।

यैस्तु तीर्थावलीगुम्फः पूर्वोक्तैरेकतः कृतः

॥१॥

विभक्तो भक्तलोकानामानन्दप्रथनः शुभः ।

मृकण्डतनयः पूर्वं प्राह पार्थाय पृच्छते

॥२॥

यथा तथाहं वक्ष्यामि तीर्थानां स्तबकानिह ।

शिवाम्बुपानजा पुण्या रेवा कल्पलता किल

॥३॥

तीरद्वयोद्भूततीर्थप्रसूनैः पुष्पिता शुभा ।

यत्पुण्यगन्धलक्ष्म्या वै त्रैलोक्यं सुरभीकृतम्

॥४॥

तत्पुष्पमकरन्दस्य रसास्वादविदुत्तमः ।

भ्रमरः खलु मार्कण्डो मुनिर्मतिमतां वरः

॥५॥

तत्पुष्पमालां हृदये तीर्थस्तबकचित्रिताम् ।

दधाति सततं पुण्यां मुनिर्भृगुकुलोद्वहः ।

तस्याः स्तबकसंस्थानं वक्ष्येऽहमृषिसत्तमाः

॥६॥

ओङ्कारतीर्थमारभ्य यावत्पश्चिमसागरम् ।

संगमाः पञ्चत्रिंशद्वै नदीनां पापनाशनाः

॥७॥

दशैकमुत्तरे तीरे सत्रिविंशति दक्षिणे ।

पञ्चत्रिंशत्तमः श्रेष्ठो रेवासागरसङ्गमः

॥८॥

सङ्गमः सहितान्येवं रेवातीरद्वयेऽपि च ।

चतुःशतानि तीर्थानि प्रसिद्धानि द्विजोत्तमाः

॥९॥

त्रिशतं शिवतीर्थानि त्रयीस्त्रिंशत्समन्वितम् ।

तत्रापि व्यक्तितो वक्ष्ये शृणुध्वं तानि सत्तमाः

॥१०॥

मार्कण्डेश्वरतीर्थानि दश तेषु मुनीश्वराः ।

दशादित्यभवान्यत्र नवैव कपिलेश्वराः

॥११॥

सोमसंस्थापितान्यष्टौ तावन्तो नर्मदेश्वराः ।

कोटितीर्थान्यथाष्टौ च सप्त सिद्धेश्वरास्तथा

॥१२॥

नागेश्वराश्च सप्तैव रेवातीरद्वयेऽपि तु ।

सप्तैव वह्निविहितान्यथाप्यावर्तसप्तकम्

॥१३॥

केदारेश्वरतीर्थानि पञ्च पञ्चेन्द्रजानि च ।

वरुणेशाश्च पञ्चैव पञ्चैव धनदेश्वराः

॥१४॥

देवतीर्थानि पञ्चैव चत्वारो वै यमेश्वराः ।

वैद्यनाथाश्च चत्वारश्चत्वारो वानरेश्वराः

॥१५॥

अङ्गारेश्वरतीर्थानि तावन्त्येव मुनीश्वराः ।

सारस्वतानि चत्वारि चत्वारो दारुकेश्वराः

॥१६॥

गौतमेश्वरतीर्थानि त्रीणि रामेश्वरास्त्रयः ।

कपालेश्वरतीर्थानि त्रीणि हंसकृतानि च

॥१७॥

त्रीण्येव मोक्षतीर्थानि त्रयो वै विमलेश्वराः ।

सहस्रयज्ञतीर्थानि त्रीण्येव मुनिरब्रवीत्

॥१८॥

भीमेश्वरास्त्रयः ख्याताः स्वर्णतीर्थानि त्रीणि च ।

धौतपापद्वयं प्रोक्तं करञ्जेशद्वयं तथा

॥१९॥

ऋणमोचनतीर्थे द्वे तथा स्कन्देश्वरद्वयम् ।

दशाश्वमेधतीर्थे द्वे नन्दीतीर्थद्वयं द्विजाः

॥२०॥

मन्मथेशद्वयं चैव भृगुतीर्थद्वयं तथा ।

पराशरेश्वरौ द्वौ च अयोनीसंभवद्वयम्

॥२१॥

व्यासेश्वरद्वयं प्रोक्तं पितृतीर्थद्वयं तथा ।

नन्दिकेश्वरतीर्थे द्वे द्वौ च गोपेश्वरौ स्मृतौ

॥२२॥

मारुतेशद्वयं तद्वद्द्वौ च ज्वालेश्वरौ स्मृतौ ।

शुक्लतीर्थद्वयं पुण्यमप्सरेशद्वयं तथा

॥२३॥

पिप्पलेश्वरतीर्थे द्वे माण्डव्येश्वरसंज्ञिते ।

द्वीपेश्वरद्वयं चैव प्राह तद्वद्भृगूद्वहः ।

उत्तरेश्वरतीर्थे द्वे अशोकेशद्वयी तथा

॥२४॥

द्वे योधनपुरे चैव रोहिणीतीर्थकद्वयम् ।

लुङ्केश्वरद्वयं ख्यातमाख्यानं मुनिना तथा

॥२५॥

सैकोनविंशतिशतं तीर्थान्येकैकशो द्विजाः ।

स्तबकेषु कृतं तीर्थं द्विशतं सचतुर्दशम्

॥२६॥

शैवान्येतानि तीर्थानि वैष्णवानि च सत्तमाः ।

शृणुध्वं प्रोच्यमानानि ब्राह्मशाक्तानि च क्रमात्

॥२७॥

अष्टविंशतितीर्थानि वैष्णवान्यब्रवीन्मुनिः ।

तेषु वाराहतीर्थानि षडेव मुनिसत्तमाः

॥२८॥

चत्वारि चक्रतीर्थानि शेषाण्यष्टादशैव हि ।

विष्णुनाधिष्ठितान्येव प्राह पूर्वं मृकण्डजः

॥२९॥

तथैव ब्रह्मणा सिद्ध्यै सप्ततीर्थान्यवीवदत् ।

त्रिषु च ब्रह्मणः पूजा ब्रह्मेशाश्चतुरोऽपरे ।

अष्टाविंशन्मया ख्याता यथासङ्ख्यं यथाक्रमम्

॥३०॥

एतत्पवित्रमतुलं ह्येतत्पापहरं परम् ।

नर्मदाचरितं पुण्यं माहात्म्यं मुनिभाषितम्

॥३१॥

सूत उवाच

एवमुद्देशतः प्रोक्तो रेवातीर्थक्रमो मया ।

यथा पार्थाय संक्षेपान्मार्कण्डो मुनिरब्रवीत्

॥३२॥

अवान्तराणि तीर्थानि तेषु गुप्तान्यनेकशः ।

यत्र यावत्प्रमाणानि तान्याकर्णयतानघाः

॥३३॥

ओङ्कारतीर्थपरितः पर्वतादमरकण्टात् ।

क्रोशद्वये सर्वदिक्षु सार्धकोटीत्रयी मता

॥३४॥

तीर्थानां संख्यया गुप्तप्रकटानां द्विजोत्तमाः ।

कोटिरेका तु तीर्थानां कपिलासङ्गमे पृथक्

॥३५॥

अशोकवनिकायाश्च तीर्थं लक्षं प्रतिष्ठितम् ।

शतमं गारगर्तायाः सङ्गमे मुनिसत्तमाः

॥३६॥

तीर्थानामयुतं तद्वत्कुब्जायाः सङ्गमे स्थितम् ।

शतं हिरण्यगर्भायाः सङ्गमे समवस्थितम्

॥३७॥

तीर्थानामष्टषष्टिश्च विशोकासङ्गमे स्थिता ।

तथा सहस्रं तीर्थानां संस्थितं वागुसङ्गमे

॥३८॥

शतं सरस्वतीसङ्गे शुक्लतीर्थे शतद्वयम् ।

सहस्रं विष्णुतीर्थेषु महिष्मत्यामथायुतम्

॥३९॥

शूलभेदे च तीर्थानां साग्रं लक्षं स्थितं द्विजाः ।

देवग्रामे सहस्रं च तीर्थानां मुनिरब्रवीत्

॥४०॥

लुङ्केश्वरे च तीर्थानां साग्रा सप्तशती स्थिता ।

तीर्थान्यष्टोत्तरशतं मणिनद्याश्च सङ्गमे ।

वैद्यनाथे च तीर्थानां शतमष्टाधिकं विदुः

॥४१॥

एवं तावत्प्रमाणानि तीर्थे कुम्भेश्वरे द्विजाः ।

साग्रं लक्षं च तीर्थानां स्थितं रेवोरसङ्गमे

॥४२॥

ततश्चाप्यधिकानि स्युरिति मार्कण्डभाषितम् ।

अष्टाशीतिसहस्राणि व्यासद्वीपाश्रितानि च

॥४३॥

सङ्गमे च करञ्जायाः स्थितमष्टोत्तरायुतम् ।

एरण्डीसङ्गमे तद्वत्तीर्थान्यष्टाधिकं शतम्

॥४४॥

धूतपापे च तीर्थानां षष्टिरष्टाधिका स्थिता ।

स्कन्दतीर्थे शतं पुण्यं तीर्थानां मुनिरुक्तवान्

॥४५॥

कोहनेश च तीर्थानां षष्टिरष्टाधिका स्थिता ।

सार्धकोटी च तीर्थानां स्थिता वै कोरिलापुरे

॥४६॥

रामकेशवतीर्थे च सहस्रं साग्रमुक्तवान् ।

अस्माहके सहस्रं च तीर्थानि निवसन्ति हि

॥४७॥

लक्षाष्टकं सहस्रे द्वे शुक्लतीर्थे द्विजोत्तमाः ।

तीर्थानि कथयामास पुरा पार्थाय भार्गवः

॥४८॥

शतमष्टाधिकं प्राह प्रत्येकं सङ्गमेषु च ।

नदीनामवशिष्टानां कावेरीसङ्गमं विना

॥४९॥

कावेर्याः सङ्गमे विप्राः स्थिता पञ्चशती तथा ।

तीर्थानां पर्वसु तथा विशेषो मुनिनोदितः

॥५०॥

मोक्षतीर्थं हि सत्प्राहुः पुराणपुरुषाश्रितम् ।

भृगोः क्षेत्रे च तीर्थानां कोटिरेका समाश्रिता

॥५१॥

साधिकानामृषिश्रेष्ठा वक्तुं शक्तो हि को भवेत् ।

सर्वामराश्रयं प्रोक्तं सर्वतीर्थाश्रयं तथा

॥५२॥

त्रिषु लोकेषु विख्यातं पूजितं सिद्धिसाधनम् ।

भारभूत्यां च तीर्थानां स्थितमष्टोत्तरं शतम्

॥५३॥

अक्रूरेश्वरतीर्थे च सार्धं तीर्थशतं स्थितम् ।

विमलेश्वरतीर्थे तु रेवासागरसङ्गमे ।

दशायुतानि तीर्थानां साधिकान्यब्रवीन्मुनिः

॥५४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थसंख्यापरिगणनवर्णनं नामैकत्रिंशदधिकद्विशततमोऽध्यायः ॥