मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ६६

3
अवन्तीखण्डः · रेवाखण्डः · 66

मातृतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र मातृतीर्थमनुत्तमम् ।

सङ्गमस्य समीपस्थं नर्मदादक्षिणे तटे

॥१॥

मातरस्तत्र राजेन्द्र संजाता नर्मदातटे ।

उमार्धनारिर्देवेशो व्यालयज्ञोपवीतधृक्

॥२॥

उवाच योगिनीवृन्दं कष्टंकष्टमहो हर ।

अजेयाः सर्वदेवानां त्वत्प्रसादान्महेश्वर

॥३॥

तीर्थमत्र विधानेन प्रख्यातं वसुधातले ।

एवं भवतु योगिन्य इत्युक्त्वान्तरधाच्छिवः

॥४॥

श्रीमार्कण्डेय उवाच

तत्र तीर्थे तु यो भक्त्या नवम्यां नियतः शुचिः ।

उपोष्य परया भक्त्या पूजयेन्मातृगोचरम्

॥५॥

तस्य स्युर्मातरः प्रीताः प्रीतोऽयं वृषवाहनः ।

वन्ध्याया मृतवत्साया अपुत्राया युधिष्ठिर

॥६॥

स्नापनं चारभेत्तत्र मन्त्रशास्त्रविदुत्तमः ।

सहिरण्येन कुम्भेन पञ्चरत्नफलान्वितः

॥७॥

स्नापयेत्पुत्रकामायाः कांस्यपात्रेण देशिकः ।

पुत्रं सा लभते नारी वीर्यवन्तं गुणान्वितम्

॥८॥

यो यं काममभिध्यायेत्ततः स लभते नृप ।

मातृतीर्थात्परं तीर्थं न भूतं न भविष्यति

॥९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मातृतीर्थमाहात्म्यवर्णनं नाम षट्षष्टितमोऽध्यायः ॥