माण्डव्यतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
अथ ते ऋषयः सर्वे देवाश्चेन्द्रपुरोगमाः ।
माण्डव्यस्याश्रमे पुण्ये समीयुर्नर्मदातटे
॥१॥शङ्खदुन्दुभिनादेन दीपिकाज्वलनेन च ।
अप्सरोगीतनादेन नृत्यन्त्यो वारयोषितः
॥२॥कथानकैः स्तुवत्यन्ये तस्य शूलाग्रधारिणः ।
अष्टाशीतिसहस्राणि स्नातकानां तपस्विनाम्
॥३॥समाजे त्रिदशैः सार्द्धं तत्र ते च दिदृक्षया ।
ब्रह्मविष्णुमहेशानास्तत्र हर्षात्समागताः
॥४॥मातरो मल्लिकाद्याश्च क्षेत्रपाला विनायकाः ।
दिक्पाला लोकपालाश्च गङ्गाद्याश्च सरिद्वराः
॥५॥ऋषिदेवसमाजे तु नित्यं हर्षप्रमोदने ।
तत्र राजा समायातः पौरजानपदैः सह
॥६॥दृष्ट्वा कौतूहलं तत्र व्याकुलीकृतमानसम् ।
वित्रस्तमनसो भूत्वा भयात्सर्वे समास्थिताः
॥७॥तस्मिन्समागमे दिव्ये ब्रह्मविष्ण्वीशमब्रुवन् ।
भो माण्डव्य महासत्त्व वरदास्तेऽमरैः सह
॥८॥अनेककष्टतपसा तव सिद्धिर्भविष्यति ।
प्रार्थयस्व यथाकामं यस्ते मनसि रोचते
॥९॥अनादित्यमयं लोकं निर्वषट्कारमाकुलम् ।
नष्टधर्मं विजानीहि प्रकृतिस्थं कुरुष्व च ।
अनुग्रहं तु शाण्डिल्याः प्रार्थयाम द्विजोत्तम
॥१०॥एष ते कष्टदो राजा समायातस्तवाग्रतः ।
संभूषयस्व विप्रर्षे जनं देवासुरं गणम्
॥११॥माण्डव्य उवाच
यदि प्रसन्ना मे देवाः समायाताः सुरैः सह ।
त्रिकालमत्र तीर्थे च स्थातव्यमृषिभिः सह
॥१२॥भवतां तु प्रसादेन रुजा मे शाम्यतां सदा ।
एवमस्त्विति देवेशा यावज्जल्पन्ति पाण्डव
॥१३॥तावद्रक्षो गृहीत्वाऽग्रे कन्यां कामप्रमोदिनीम् ।
उवाच भगवञ्छापं पुरा दत्त्वोर्वशी मम
॥१४॥यदा कन्यां हरे रक्षःशापान्तस्ते भविष्यति ।
तेन मे गर्हितं कर्म शापेनाकृतबुद्धिना
॥१५॥क्षन्तव्यमिति चोक्त्वा च गतश्चादर्शनं पुनः ।
गते चैव तु सा कन्या दृष्ट्वा पद्मदलेक्षणा
॥१६॥मन्त्रयित्वा सुरैः सर्वैर्दत्ता माण्डव्यधीमते ।
तां वज्रशूलिकां प्लाव्य पवित्रैर्नर्मदोदकैः
॥१७॥माण्डव्यमृषिमुत्तार्य जयशब्दादिमङ्गलैः ।
विवाहयित्वा तां कन्यां माण्डव्यर्षिपुंगवः
॥१८॥अभिवाद्य च तान् सर्वान् दानसन्मानगौरवैः ।
अथ राजा समीपस्थो रत्नैश्च विविधैरपि
॥१९॥धिग्वादैर्निन्दितः सर्वैस्तैर्जनैर्भूषितः पुनः ।
राज्ञा च ब्राह्मणाः सर्वे भूषणाच्छादनाशनैः
॥२०॥सुवर्णकोटिदानेन तुष्टान्कृत्वा क्षमापिताः ।
वृत्ते विवाह आहूय शाण्डिलीं तामथाब्रवीत्
॥२१॥मानयस्व इमान् विप्रान्मोचयस्व दिवाकरम् ।
अपहृत्य तमो येन कृपा सद्यः प्रवर्तते
॥२२॥ऋषीणां वचनं श्रुत्वा शाण्डिली दुःखिताब्रवीत् ।
उदितेऽर्के तु मे भर्ता मृत्युं यास्यति भो द्विजाः
॥२३॥तं कथं मोचयामीह ह्यात्मनोऽनिष्टसिद्धये ।
क्रियाप्रवर्तनाच्चाद्य किं कार्यं मे महर्षयः
॥२४॥निःपुंसी स्त्री ह्यनाथाहं भवामि भवतो मतम् ।
तिष्ठ त्वमन्धकारे तु नेच्छामि रविणोदयम्
॥२५॥तेन वाक्येन ते सर्वे देवासुरमहर्षयः ।
शिरःसंचालनाः सर्वे साधु साध्विति चाब्रुवन्
॥२६॥पतिव्रते महाभागे शृणु वाक्यं तपोधने ।
मन्यसे यदि नः सर्वान्कुरुष्व वचनं च यत्
॥२७॥शाण्डिल्युवाच
येन मे न मरेद्भर्ता येन सत्यं मुनेर्वचः ।
तत्कुरुध्वं विचार्याशु येन संवर्धते सुखम्
॥२८॥तस्यास्तद्वचनं श्रुत्वा स्वप्नावस्थाकृतो हृषिः ।
अन्तर्हितो मुहूर्तं च शाण्डिल्याश्च प्रपश्य ताम्
॥२९॥पुनरादाय ते सर्वे कृत्वा निर्व्रणसत्तनुं स्नापितो नर्मदातोये शाण्डिल्यायै समर्पितः
॥३०॥ततः सा हृष्टमनसा पतिं दृष्ट्वा तु तैजसम् ।
प्रणम्य तानृषीन् देवान् विमलार्कं जगत्कृतम्
॥३१॥क्रियाप्रवर्तिताः सर्वे देवगन्धर्वमानुषाः ।
हृष्टतुष्टा गताः सर्वे स्वमाश्रमपदं महत्
॥३२॥पतिव्रता स्वभर्त्रा सा मासमेवाश्रमे स्थिता ।
माण्डव्येनाप्यनुज्ञाता ययौ नत्वा स्वमाश्रमम्
॥३३॥गतेषु तेषु सर्वेषु स्थापयामास चाच्युतम् ।
माण्डव्येश्वरनामानं नारायण इति स्मृतम्
॥३४॥दिव्यं वर्षसहस्रं तु पूजयामास भारत ।
गतोऽसावृषिसङ्घैश्च सहितोऽमरपर्वतम्
॥३५॥तपस्तपन्तौ तौ तत्र ह्यद्यापि किल भारत ।
भ्रातरौ संयतात्मानौ ध्यायतः परमं पदम्
॥३६॥तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
पितरस्तस्य तृप्यन्ति पिण्डदानाद्दशाब्दिकम्
॥३७॥देवगृहे तु पक्षादौ यः करोति विलेपनम् ।
गोदानशतसाहस्रे दत्ते भवति यत्फलम्
॥३८॥उपलेपनेन द्विगुणमर्चने तु चतुर्गुणम् ।
दीपप्रज्वलने पुण्यमष्टधा परिकीर्तितम्
॥३९॥दिव्यनेत्रधरो भूत्वा त्रैलोक्ये सचराचरे ।
दध्ना मधुघृतैर्देवं पयसा नर्मदोदकैः
॥४०॥स्नपनं ये प्रकुर्वन्ति पुष्पमालाविलेपनैः ।
येऽर्चयन्ति विरूपाक्षं देवं नारायणं हरिम्
॥४१॥तेऽपि दिव्यविमानेन क्रीडन्ते कल्पसंख्यया ।
दीपाष्टकं तु यः कुर्यादष्टमीं च चतुर्दशीम्
॥४२॥एकादश्यां तु कृष्णस्य न पश्यन्ति यमं तु ते ।
फलैर्नानाविधैः शुभ्रैर्यः कुर्याल्लिङ्गपूरणम्
॥४३॥तेऽपि यान्ति विमानेन सिद्धचारणसेविताः ।
घण्टा चैव पताका च विमाने पुष्पमालिका
॥४४॥वादित्राणि यथार्हाणि प्रान्ते च गच्छते शिवम् ।
देवालयं तु यः कुर्याद्वैष्णवं माण्डवेश्वरम्
॥४५॥स्वर्गे वसति धर्मात्मा यावदाभूतसम्प्लवम् ।
माण्डव्यनारायणाख्ये विप्रान् भोजयतेऽग्रतः
॥४६॥एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ।
आश्विने मासि सम्प्राप्ते शुक्लपक्षे चतुर्दशीम्
॥४७॥कृतोपवासनियमो रात्रौ जागरणेन च ।
दीपमालां चतुर्दिक्षु पूजां कृत्वा तु शक्तितः
॥४८॥नारी वा पुरुषो वापि नृत्यगीतप्रवादनैः ।
प्रभाते विमले सूर्ये स्नानादिकविधिं नृप
॥४९॥अभिनिर्वर्त्य मौनेन पश्यते देवमीदृशम् ।
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते
॥५०॥अथवा मार्गशीर्षे च चैत्रवैशाखयोरपि ।
श्रावणे वा महाराज सर्वकालेऽथवापि च
॥५१॥शिवरात्रिसमं पुण्यमित्येवं शिवभाषितम् ।
वाजपेयाश्वमेधाभ्यां फलं भवति नान्यथा
॥५२॥दुर्भगा दुःखिता वन्ध्या दरिद्रा च मृतप्रजा ।
स्नाति रुद्रघटैर्या स्त्री सर्वान्कामानवाप्नुयात्
॥५३॥कृमिकीटपतङ्गाश्च तस्मिंस्तीर्थे तु ये मृताः ।
स्वर्गं प्रयान्ति ते सर्वे दिव्यरूपधरा नृप
॥५४॥अनाशके जलेऽग्नौ तु ये मृता व्याधिपीडिताः ।
अनिवर्तिका गतिस्तेषां रुद्रलोके ह्यसंशयम्
॥५५॥नित्यं नमति यो राज शिवनारायणावुभौ ।
गोदानफलमाप्नोति तस्य तीर्थप्रभावतः
॥५६॥देवालये तु राजेन्द्र यश्च कुर्यात्प्रदक्षिणाम् ।
प्रदक्षिणीकृता तेन ससागरधरा धरा
॥५७॥सार्द्धं शतं च तीर्थानि मल्लिकाभवनाद्बहिः ।
तस्य तीर्थप्रमाणं तु विस्तरं राजसत्तम
॥५८॥सूत्रेण वेष्टयेत्क्षेत्रमथवा शिवमन्दिरम् ।
अथवा शिवलिङ्गं च तस्य पुण्यफलं शृणु
॥५९॥जम्बूद्वीपश्च कृतस्नश्च शाल्मली कुशक्रौञ्चकौ ।
शाकपुष्करगोमेदैः सप्तद्वीपा वसुंधरा
॥६०॥भूषिता तेन राजेन्द्र सशैलवनकानना ।
रेवायां दक्षिणे भागे शिवक्षेत्रात्समीपतः
॥६१॥देवखातं महापुण्यं निर्मितं त्रिदशैरपि ।
तस्मिन् यः कुरुते स्नानं मुच्यते सर्वपातकैः
॥६२॥पूर्णिमायाममावस्यां व्यतीपातेऽर्कसंक्रमे ।
श्राद्धं च संग्रहे कुर्यात्स गच्छेत्परमां गतिम्
॥६३॥देवखाते त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
तिष्ठन्ति ऋषिभिः सार्द्धं पितृदेवगणैः सह
॥६४॥तत्र तीर्थेऽश्विने मासि चतुर्दश्यां विशेषतः ।
वायुमार्गे स्थितः शक्रस्तिष्ठते दैवतैः सह
॥६५॥पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा ।
विंशति तानि सर्वाणि देवखाते दिनद्वयम्
॥६६॥गयाशिरे च यत्पुण्यं प्रयागे मकरकण्टके ।
प्रयागे सोमतीर्थे च तत्पुण्यं माण्डवेश्वरे
॥६७॥पट्टबन्धेन यत्पुण्यं मात्रायां लकुलेश्वरे ।
आश्विन्यामश्विनीयोगे तत्पुण्यं माण्डवेश्वरे
॥६८॥उज्जयिन्यां महाकाले वाराणस्यां त्रिपुष्करे ।
संनिहत्यां रविग्रस्ते माण्डव्याख्ये सनातनम्
॥६९॥इति ज्ञात्वा महाराज सर्वतीर्थेषु चोत्तमम् ।
पित्ःन्देवान् समभ्यर्च्य स्नानदानादिपूजनैः
॥७०॥चतुर्दश्यां निराहारः स्थितो भूत्वा शुचिव्रतः ।
पूजयेत्परया भक्त्या रात्रौ जागरणे शिवम्
॥७१॥स्नानैश्च विविधैर्देवं पुष्पागरुविलेपनैः ।
प्रभाते पौर्णमास्यां तु स्नानादिविधितर्पणैः
॥७२॥श्राद्धेन हव्यकव्येन शिवपूजार्चनेन च ।
अग्निष्टोमादियज्ञैश्च विधिवच्चाप्तदक्षिणैः
॥७३॥धौतपापो विशुद्धात्मा फलते फलमुत्तमम् ।
गोसहस्रप्रदानेन दत्तं भवति भारत
॥७४॥स्नानाद्यैर्विधिवत्तत्र तद्दिने शिवसन्निधौ ।
हिरण्यं वृषभं धेनुं भूमिं गोमिथुनं हयम्
॥७५॥शिवमुद्दिश्य वै वस्त्रयुग्मे दद्यात्सुरूपिणे ।
पादुकोपानहौ छत्रं भाजनं रक्तवाससी
॥७६॥होमं जाप्यं तथा दानमक्षयं सर्वमेव तत् ।
ऋचमेकां तु ऋग्वेदे यजुर्वेदे यजुस्तथा
॥७७॥सामैकं सामवेदे तु जपेद्देवाग्रसंस्थितः ।
सम्यग्वेदफलं तस्य भवेद्वै नात्र संशयः
॥७८॥गायत्रीजाप्यमात्रस्तु वेदत्रयफलं लभेत् ।
कुलकोटिशतं साग्रं लभते तु शिवार्चनात्
॥७९॥स्नाने दाने तथा श्राद्धे जागरे गीतवादिते ।
अनिवर्तिका गतिस्तस्य शिवलोकात्कदाचन
॥८०॥कालेन महताविष्टो मर्त्यलोके समाविशेत् ।
राजा भवति मेधावी सर्वव्याधिविवर्जितः
॥८१॥जीवेद्वर्षशतं साग्रं पुत्रपौत्रधनान्वितः ।
तच्च तीर्थं पुनः स्मृत्वा लीयमानो महेश्वरे
॥८२॥उपास्ते यस्तु वै सन्ध्यां तस्मिंस्तीर्थे च पर्वणि ।
साङ्गोपाङ्गैश्चतुर्वेदैर्लभते फलमुत्तमम्
॥८३॥तत्र सर्वं शिवक्षेत्राच्छरपातं समन्ततः ।
न संचरेद्भयोद्विग्ना ब्रह्महत्या नराधिप
॥८४॥यत्र तत्र स्थितो वृक्षान् पश्यते तीर्थतत्परः ।
विविधैः पातकैर्मुक्तो मुच्यते नात्र संशयः
॥८५॥श्वभ्री तत्र महाराज जलमध्ये प्रदृश्यते ।
कथानिका पुराणोक्ता वानरी तीर्थसेवनात्
॥८६॥तत्र कूपो महाराज तिष्ठते देवनिर्मितः ।
शिवस्य पश्चिमे भागे शिवक्षेत्रमनुत्तमम्
॥८७॥वृषोत्सर्गं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
क्रीडन्ति पितरस्तस्य स्वर्गलोके यदृच्छया
॥८८॥अगम्यागमने पापमयाज्ययाजने कृते ।
स्तेयाच्च ब्रह्मगोहत्यागुरुघाताच्च पातकम् ।
तत्सर्वं नश्यते पापं वृषोत्सर्गे कृते तु वै
॥८९॥माण्डव्यतीर्थमाहात्म्यं यः शृणोति समाधिना ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा
॥९०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये माण्डव्यतीर्थमाहात्म्यवर्णनं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥