मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १३

3
अवन्तीखण्डः · रेवाखण्डः · 13

एकविंशतिकल्पकथानकवर्णनम्

श्रीमार्कण्डेय उवाच

एवं भगवती पुण्या स्तुता सा मुनिपुंगवैः ।

चिन्तयामास सर्वेषां दास्यामि वरमुत्तमम्

॥१॥

ततः प्रसुप्तांस्ताञ्ज्ञात्वा रात्रौ देवी जगाम ह ।

एकैकस्य ऋषेः स्वप्ने दर्शनं चारुहासिनी

॥२॥

ततोऽर्धरात्रे सम्प्राप्त उत्थिता जलमध्यतः ।

विमलाम्बरसंवीता दिव्यमालाविभूषिता

॥३॥

घृतातपत्रा सुश्रोणी पद्मरागविभूषिता ।

जगाद मा भैरिति तानेकैकं तु पृथक्पृथक्

॥४॥

वसध्वं मम पार्श्वे तु भयं त्यक्त्वा क्षुधादिजम्

॥५॥

एवमुक्त्वा तदा देवी स्वप्नान्ते तान्महामुनीन् ।

जगामादर्शनं पश्चात्प्रविश्य जलमात्मिकम्

॥६॥

ततः प्रभाते मुनयो मिथ ऊचुर्मुदन्विताः ।

तथा दृष्टा मया दृष्टा स्वप्ने देवी सुदर्शना

॥७॥

अभयं दत्तमस्माकं सिद्धिश्चाप्यचिरेण तु ।

प्रशस्तं दर्शनं तस्या नर्मदाया न संशयः

॥८॥

अथान्यदिवसे राजन्मत्स्यानां रूपमुत्तमम् ।

पश्यन्ति सपरीवाराः स्वकीयाश्रमसन्निधौ

॥९॥

तान्दृष्ट्वा विस्मयाविष्टा मत्स्यांस्तत्र महर्षयः ।

पूजयामासुरव्यग्रा हव्यकव्येन देवताः

॥१०॥

तान्मत्स्यसङ्घान्सम्प्राप्य महादेव्याः प्रसादतः ।

सपुत्रदारभृत्यास्ते वर्तयन्ति पृथक्पृथक्

॥११॥

दिने दिने तथाप्येवमाश्रमेषु द्विजातयः ।

मत्स्यानां सञ्चयं दृष्ट्वा विस्मिताश्चाभवंस्तदा

॥१२॥

मृतांस्तांस्तु सुपुष्टाङ्गान् पाठीनांश्च विशेषतः ।

द्वारे द्वारे चाश्रमाणां तापसानां युधिष्ठिर

॥१३॥

हृष्टपुष्टास्तदा सर्वे नर्मदातीरवासिनः ।

ऋषयस्ते भयं सर्वे तत्यजुः क्षुत्तृषोद्भवम्

॥१४॥

ते जपन्तस्तपन्तश्च तिष्ठन्ति भरतर्षभ ।

अर्चयन्ति पित्ःन्देवान्नर्मदातटमाश्रिताः

॥१५॥

तैर्जपद्भिस्तपद्भिश्च सततं द्विजसत्तमैः ।

भ्राजते सा सरिच्छ्रेष्ठा ताराभिर्द्यौर्ग्रहैरिव

॥१६॥

तत्र तैर्बहुलैः शुभ्रैर्ब्राह्मणैर्वेदपरागैः ।

नर्मदा धर्मदा पूर्वं संविभक्ता यथाक्रमम्

॥१७॥

ऋषिभिर्दशकोटिभिर्नर्मदातीरवासिभिः ।

विभक्तेयं विभक्ताङ्गी नर्मदा शर्मदा नृणाम्

॥१८॥

यज्ञोपवीतैश्च शुभैरक्षसूत्रैश्च भारत ।

कूलद्वये महापुण्या नर्मदोदधिगामिनी

॥१९॥

पृथगायतनैः शुभ्रैर्लिङ्गैर्वालुकमृन्मयैः ।

भ्राजते या सरिच्छ्रेष्ठा नक्षत्रैरिव शर्वरी

॥२०॥

एवं त ऋषयः सर्वे तर्पयन्तः सुरान्पित्ःन् ।

न्यवसन्नर्मदातीरे यावदाभूतसम्प्लवम्

॥२१॥

किंचिद्गते ततस्तस्मिन्घोरे वर्षशताधिके ।

अर्धरात्रे तदा कन्या जलादुत्तीर्य भारत

॥२२॥

विद्युत्पुंजसमाभासा व्यालयज्ञोपवीतिनी ।

त्रिशूलाग्रकरा सौम्या तानुवाच ऋषींस्तदा

॥२३॥

आगच्छध्वं मुनिगणा विशध्वं मामयोनिजाम् ।

समेताः पुत्रदारैश्च ततः सिद्धिमवाप्स्यथ

॥२४॥

यस्य यस्य हि या वाञ्छा तस्य तां तां ददाम्यहम् ।

विष्णुं ब्रह्माणमीशानमन्यं वा सुरमुत्तमम्

॥२५॥

तत्र सर्वान्नयिष्यामि प्रसन्ना वरदा ह्यहम् ।

प्राणायामपरा भूत्वा मां विशध्वं समाहिताः

॥२६॥

सह पुत्रैश्च दारैश्च त्यक्त्वाश्रमपदानि च ।

कालक्षेपो न कर्तव्यः प्रलयोऽयमुपस्थितः

॥२७॥

संहारः सर्वभूतानां कल्पदाहः सुदारुणः ।

एकाहमभवं पूर्वं महाघोरे जनक्षये

॥२८॥

शेषा नद्यः समुद्राश्च सर्व एव क्षयंगताः ।

वरदानान्महेशस्य तेनाहं न क्षयं गता

॥२९॥

अमृतः शाश्वतो देवः स्थाणुरीशः सनातनः ।

स पूजितः प्रार्थितो वा किं न दद्याद्द्विजोत्तमाः

॥३०॥

एवमुक्त्वा ऋषीव्रेवा प्रविवेश जलं ततः ।

करात्तशूला सा देवी व्यालयज्ञोपवीतिनी

॥३१॥

ततस्ते तद्वचः श्रुत्वा विस्मयापन्नमानसाः ।

अभिवन्द्य च मां सर्वे क्षामयन्तः पुनः पुनः

॥३२॥

क्षम्यतां नो यदुक्तं हि वसतां तव संश्रये ।

गृहांस्त्यक्त्वा महाभागाः सशिष्याः सहबान्धवाः

॥३३॥

जप्त्वा चैकाक्षरं ब्रह्म हृदि ध्यात्वा महेश्वरम् ।

स्नात्वा च मन्त्रपूताभिरथ चाद्भिर्जितव्रताः

॥३४॥

विविशुर्नर्मदातोयं सपक्षा इव पर्वताः ।

द्योतयन्तो दिशः सर्वाः कुशहस्ताः सहाग्रयः

॥३५॥

गतेषु तेषु राजेन्द्र अहमेकः स्थितस्तदा ।

अमरेशं समासाद्य पूजयन्नर्मदां नदीम्

॥३६॥

अनुभूताः सप्तकल्पा मायूराद्या मया नृप ।

प्रसादाद्वेधसः सर्वे रेवया सह भारत

॥३७॥

जन्मतोऽद्य दिनं यावन्न जानेऽस्याः पुरास्थितिम्

॥३८॥

इयं हि शांकरी शक्तिः कला शम्भोरिलाह्वया ।

नर्मदा दुरितध्वंसकारिणी भवतारिणी

॥३९॥

यदाहमपि नाभूवं पुराकल्पेषु पाण्डव ।

चतुर्दशसु कल्पेषु तेष्वियं सुखसंस्थिता

॥४०॥

चतुर्दश पुरा कल्पा न मृता येषु नर्मदा ।

तानहं सम्प्रवक्ष्यामि देवी प्राह यथा मम

॥४१॥

कापिलं प्रथमं विद्धि प्राजापत्यं द्वितीयकम् ।

ब्राह्मं सौम्यं च सावित्रं बार्हस्पत्यं प्रभासकम्

॥४२॥

माहेन्द्रमग्निकल्पं च जयन्तं मारुतं तथा ।

वैष्णवं बहुरूपं च ज्यौतिषं च चतुर्दशम्

॥४३॥

एते कल्पा मया ख्याता न मृता येषु नर्मदा ।

मायूरं पञ्चदशमं कौर्मं चैवात्र षोडशम्

॥४४॥

बकं मात्स्यं च पाद्मं च वटकल्पं च भारत ।

एकविंशतिमं चैतं वाराहं सांप्रतीनकम्

॥४५॥

इमे सप्त मया साकं रेवया परिशीलिताः ।

एकविंशतिकल्पास्तु नर्मदायाः शिवाङ्गतः

॥४६॥

संजाताया नृपश्रेष्ठ मया दृष्टा ह्यनेकशः ।

कथिता नृपतिश्रेष्ठ भूयः किं कथयामि ते

॥४७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्य एकविंशतिकल्पकथानकवर्णनं नाम त्रयोदशोऽध्यायः ॥