ऋणत्रयमोचनतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महीपाल तीर्थं परमशोभनम् ।
स्थापितं मुनिसङ्घैर्यद्ब्रह्मवंशसमुद्भवैः
॥१॥ऋणमोचनमित्याख्यं रेवातटसमाश्रितम् ।
षण्मासं मनुजो भक्त्या तर्पयन् पितृदेवताः
॥२॥देवैः पितृमनुष्यैश्च ऋणमात्मकृतं च यत् ।
मुच्यते तत्क्षणान्मर्त्यः स्नातो वै नर्मदाजले
॥३॥प्रत्यक्षं दुरितं तत्र दृश्यते फलरूपतः ।
तत्र तीर्थे तु यो राजन्नेकचित्तो जितेन्द्रियः
॥४॥स्नात्वा दानं च वै दद्यादर्चयेद्गिरिजापतिम् ।
ऋणत्रयविनिर्मुक्तो नाके दीप्यति देववत्
॥५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऋणत्रयमोचनतीर्थमाहात्म्यवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥