मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १८८

3
अवन्तीखण्डः · रेवाखण्डः · 188

शालग्रामं ततो गच्छेत्सर्वदैवतपूजितम्

श्रीमार्कण्डेय उवाच

ततः परं महाराज चत्वारिंशत्क्रमान्तरे ।

शालग्रामं ततो गच्छेत्सर्वदैवतपूजितम्

॥१॥

यत्रादिदेवो भगवान्वासुदेवस्त्रिविक्रमः ।

स्वयं तिष्ठति लोकात्मा सर्वेषां हितकाम्यया

॥२॥

नारदेन तपस्तप्त्वा कृता शाला द्विजन्मनाम् ।

सिद्धिक्षेत्रं भृगुक्षेत्रं ज्ञात्वा रेवातटे स्वयम्

॥३॥

शालग्रामाभिधो देवो विप्राणां त्वधिवासितः ।

साधूनां चोपकाराय वासुदेवः प्रतिष्ठितः

॥४॥

योगिनामुपकाराय योगिध्येयो जनार्दनः ।

शालग्रामेति तेनैव नर्मदातटमाश्रितः

॥५॥

मासि मार्गशिरे शुक्ला भवत्येकादशी यदा ।

स्नात्वा रेवाजले पुण्ये तद्दिनं समुपोषयेत्

॥६॥

रात्रौ जागरणं कुर्यात्सम्पूज्य च जनार्दनम् ।

पुनः प्रभातसमये द्वादश्यां नर्मदाजले

॥७॥

स्नात्वा संतर्प्य देवांश्च पितॄन्मातॄंस्तथैव च ।

श्राद्धं कृत्वा ततः पश्चात्पितृभ्यो विधिपूर्वकम्

॥८॥

शक्तितो ब्राह्मणान्पूज्य स्वर्णवस्त्रान्नदानतः ।

क्षमापयित्वा तान्विप्रांस्तथा देवं खगध्वजम्

॥९॥

एवं कृते महाराज यत्पुण्यं च भवेन्नॄणाम् ।

शृणुष्वावहितो भूत्वा तत्पुण्यं नृपसत्तम

॥१०॥

न शोकदुःखे प्रतिपत्स्यतीह जीवन्मृतो याति मुरारिसाम्यम् ।

महान्ति पापानि विसृज्य दुग्धं पुनर्न मातुः पिबते स्तनोद्यत्

॥११॥

शालग्रामं पश्यते यो हि नित्यं स्नात्वा जले नार्मदेऽघौघहारे ।

स मुच्यते ब्रह्महत्यादिपापैर्नारायणानुस्मरणेन तेन

॥१२॥

वसन्ति ये संन्यसित्वा च तत्र निगृह्य दुःखानि विमुक्तसङ्घाः ।

ध्यायन्तो वै सांख्यवृत्त्या तुरीयं पदं मुरारेस्तेऽपि तत्रैव यान्ति

॥१३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शालग्रामतीर्थमहात्म्यवर्णनं नामाष्टाशीत्युत्तरशततमोऽध्यायः ॥