यत्र सिद्धो महाभागो देवराजः शतक्रतुः
श्रीमार्कण्डेय उवाच
ततो गच्छेत्पाण्डुपुत्र शक्रतीर्थमनुत्तमम् ।
यत्र सिद्धो महाभागो देवराजः शतक्रतुः
॥१॥गौतमेन पुरा शप्तं ज्ञात्वा देवाः सुरेश्वरम् ।
ब्रह्माद्या देवताः सर्व ऋषयश्च तपोधनाः
॥२॥गौतमं प्रार्थयामासुर्वाक्यैः सानुनयैः शुभैः ।
गतराज्यं गतश्रीकं शक्रं प्रति मुनीश्वर
॥३॥इन्द्रेन रहितं राज्यं न कश्चित्कामयेद्द्विज ।
देवो वा मानवो वापि एतत्ते विदितं प्रभो
॥४॥तस्य त्वं भगयुक्तस्य दयां कुरु द्विजोत्तम ।
गतश्चादर्शनं शक्रो दूषितः स्वेन पाप्मना
॥५॥देवानां वचनं श्रुत्वा गौतमो वेदवित्तमः ।
तथेति कृत्वा शक्रस्य वरं दातुं प्रचक्रमे
॥६॥एतद्भगसहस्रं तु पुरा जातं शतक्रतो ।
तल्लोचनसहस्रं तु मत्प्रसादाद्भविष्यति
॥७॥एवमुक्तः सहस्राक्षः प्रणम्य मुनिसत्तमम् ।
ब्राह्मणांस्तान्महाभागान्नर्मदां प्रत्यगात्ततः
॥८॥स्नात्वा स विमले तोये संस्थाप्य त्रिपुरान्तकम् ।
जगाम त्रिदशावासं पूज्यमानोऽप्सरोगणैः
॥९॥तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
परदाराभिगमनान्मुच्यते पातकान्नरः
॥१०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रतीर्थमाहात्म्यवर्णनं नामाष्टत्रिंशदधिकशततमोऽध्यायः ॥