जगत्संहरणवर्णनम्
श्रीमार्कण्डेय उवाच
एवं संस्तूयमानस्तु ब्रह्माद्यैर्मुनिपुंगवैः ।
ब्रह्मलोकगतैस्तत्र संजहार जगत्प्रभुः
॥१॥स तद्भीमं महारौद्रं दक्षिणं वक्त्रमव्ययम् ।
महादंष्ट्रोत्कटारावं पातालतलसंनिभम्
॥२॥विद्युज्ज्वलनपिङ्गाक्षं भैरवं लोमहर्षणम् ।
महाजिह्वं महादंष्ट्रं महासर्पशिरोधरम्
॥३॥महासुरशिरोमालं महाप्रलयकारणम् ।
ग्रसत्समुद्रनिहितवातवारिमयं हविः
॥४॥वडवामुखसङ्काशं महादेवस्य तन्मुखम् ।
जिह्वाग्रेण जगत्सर्वं लेलिहानमपश्यत
॥५॥योजनानां सहस्राणि सहस्राणां शतानि च ।
दिशो दश महाघोरा मांसमेदोवसोत्कटाः
॥६॥तस्य दंष्ट्रा व्यवर्धत शतशोऽथ सहस्रशः ।
सासुरान्सुरगन्धर्वान् सयक्षोरगराक्षसान्
॥७॥तस्य दंष्ट्राग्रसंलग्नान्स ददर्श पितामहः ।
दन्तयन्त्रान्तसंविष्टं विचूर्णितशिरोधरम्
॥८॥जगत्पश्यामि राजेन्द्र विशन्तं व्यादिते मुखे ।
नानातरङ्गभङ्गाङ्गा महाफेनौघसंकुलाः ।
यथा नद्यो लयं यान्ति समुद्रं प्राप्य सस्वनाः
॥९॥तथा ततं विश्वमिदं समस्तमनेकजीवार्णवदुर्विगाह्यम् ।
विवेश रुद्रस्य मुखं विशालं ज्वलत्तदुग्रं घननादघोरम्
॥१०॥ज्वालास्ततस्तस्य मुखात्सुघोराः सविस्फुलिङ्गा बहुलाः सधूमाः ।
अनेकरूपा ज्वलनप्रकाशाः प्रदीपयन्तीव दिशोऽखिलाश्च
॥११॥ततो रविज्वालसहस्रमालि बभूव वक्त्रं चलजिह्वदंष्ट्रम् ।
महेश्वरस्याद्भुतरूपिणस्तदा स द्वादशात्मा प्रबभूव एकः
॥१२॥ततस्ते द्वादशादित्या रुद्रवक्त्राद्विनिर्गताः ।
आश्रित्य दक्षिणामाशां निर्दहन्तो वसुंधराम्
॥१३॥भौमं यज्जीवनं किंचिन्नानावृक्षतृणालयम् ।
शुष्कं पूर्वमनावृष्ट्या सकलाकुलभूतलम्
॥१४॥तद्दीप्यमानं सहसा सूर्यैस्तै रुद्रसम्भवैः ।
धूमाकुलमभूत्सर्वं प्रणष्टग्रहतारकम्
॥१५॥जज्वाल सहसा दीप्तं भूमण्डलमशेषतः ।
ज्वालामालाकुलं सर्वमभूदेतच्चराचरम्
॥१६॥सप्तद्वीपसमुद्रेषु सरित्सु च सरस्सु च अग्निरत्ति जगत्सर्वमाज्याहुतिमिवाध्वरे
॥१७॥विशालतेजसा दीप्ता महाज्वालासमाकुलाः ।
ददहुर्वै जगत्सर्वमादित्या रुद्रसम्भवाः
॥१८॥आदित्यानां रश्मयश्च संस्पृष्टा वै परस्परम् ।
एवं ददाह भगवांस्त्रैलोक्यं सचराचरम्
॥१९॥सप्तद्वीपप्रमाणस्तु सोऽग्निर्भूत्वा महेश्वरः ।
सप्तद्वीपसमुद्रान्तां निर्ददाह वसुंधराम्
॥२०॥सुमेरुमन्दरान्तां च निर्दहुर्वसुधां तदा ।
भित्त्वा तु सप्तपातालं नागलोकं ततोऽदहत्
॥२१॥भूम्यधः सप्तपातालान्निर्दहंस्तारकैः सह ।
चचाराग्निः समन्तात्तु निर्दहन्वै युधिष्ठिर
॥२२॥धम्यमान इवाङ्गारैर्लोहरात्रिरिव ज्वलन् ।
तथा तत्प्राज्वलत्सर्वं संवर्ताग्निप्रदीपितम्
॥२३॥निर्वृक्षा निस्तृणा भूमिर्निर्निर्झरसरः सरित् ।
विशीर्णशैलशृङ्गौघा कूर्मपृष्ठोपमाभवत्
॥२४॥ज्वालामालाकुलं कृत्वा जगत्सर्वं चिदामकम् ।
महारूपधरो रुद्रो व्यतिष्ठत महेश्वरः
॥२५॥समातृगणभूयिष्ठा सयक्षोरगराक्षसा ।
ततो देवी महादेवं विवेश हरिलोचना
॥२६॥निर्वाणं परमापन्ना शान्तेव शिखिनः शिखा ।
जगत्सर्वं हि निर्दग्धं त्रिभिर्लोकैः सहानघ
॥२७॥रुद्रप्रसादान्मुक्त्वा मां नर्मदां चाप्ययोनिजाम् ।
युगानामयुतं देवो मया चाद्य बुभक्षणात्
॥२८॥पुरा ह्याराधितः शूली तेनाहमजरामरः ।
अघमर्षणघोरं च वामदेवं च त्र्यम्बकम्
॥२९॥ऋषभं त्रिसुपर्णं च दुर्गां सावित्रमेव च ।
बृहदारण्यकं चैव बृहत्साम तथोत्तरम्
॥३०॥रौद्रीं परमगायत्रीं शिवोपनिषदं तथा ।
यथा प्रतिरथं सूक्तं जप्त्वा मृत्युंजयं तथा
॥३१॥सरित्सागरपर्यन्ता वसुधा भस्मसात्कृता ।
वर्जयित्वा महाभागां नर्मदाममृतोपमाम्
॥३२॥महेन्द्रो मलयः सह्यो हेमकूटोऽथ माल्यवान् ।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः
॥३३॥द्वादशादित्यनिर्दग्धाः शैलाः शीर्णशिलाः पृथक् ।
भस्मीभूतास्तु दृश्यन्ते न नष्टा नर्मदा तदा
॥३४॥हिमवान्हेमकूटश्च निषधो गन्धमादनः ।
माल्यवांश्च गिरिश्रेष्ठो नीलः श्वेतोऽथ शृङ्गवान्
॥३५॥एते पर्वतरा जानो देवगन्धर्वसेविताः ।
युगान्ताग्निविनिर्दग्धाः सर्वे शीर्णमहाशिलाः
॥३६॥एवं मया पुरा दृष्टो युगान्ते सर्वसंक्षयः ।
वर्जयित्वा महापुण्यां नर्मदां नृपसत्तम
॥३७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये द्वादशादित्यरूपेण जगत्संहरणवर्णनं नाम सप्तदशोऽध्यायः ॥