मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १९८

3
अवन्तीखण्डः · रेवाखण्डः · 198

शूलतीर्थमिति ख्यातं स्वयं देवेन निर्मितम्

मार्कण्डेय उवाच

ततो गच्छेन्महीपाल भद्रकालीतिसङ्गमम् ।

शूलतीर्थमिति ख्यातं स्वयं देवेन निर्मितम्

॥१॥

पञ्चायतनमध्ये तु तिष्ठते परमेश्वरः ।

शूलपाणिर्महादेवः सर्वदेवतपूजितः

॥२॥

स सङ्गमो नृपश्रेष्ठ नित्यं देवैर्निषेवितः ।

दर्शनात्तस्य तीर्थस्य स्नानदानाद्विशेषतः

॥३॥

दौर्भाग्यं दुर्निमित्तं च ह्यभिशापो नृपग्रहः ।

यदन्यद्दुष्कृतं कर्म नश्यते शङ्करोऽब्रवीत्

॥४॥

युधिष्ठिर उवाच

कथं शूलेश्वरी देवी कथं शूलेश्वरो हरः ।

प्रथितो नर्मदातीरे एतद्विस्तरतो वद

॥५॥

मार्कण्डेय उवाच

बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः ।

वृत्तिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः

॥६॥

अशोकाश्रममध्यस्थो वृक्षमूले महातपाः ।

ऊर्ध्वबाहुर्महातेजास्तस्थौ मौनव्रतान्वितः

॥७॥

तस्य कालेन महता तीव्रे तपसि वर्ततः ।

तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः

॥८॥

अनुसर्प्यमाणा बहुभिः पुरुषैर्भरतर्षभ ।

ते तस्यावसथे लोप्त्रं न्यदधुः कुरुनन्दन

॥९॥

निधाय च तदा लीनास्तत्रैवाश्रममण्डले ।

तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम्

॥१०॥

आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ।

तमपृच्छंस्तदा वृत्तं रक्षिणस्तं तपोधनम्

॥११॥

वद केन पथा याता दस्यवो द्विजसत्तम ।

तेन गच्छामहे ब्रह्मन् यथा शीघ्रतरं वयम्

॥१२॥

तथा तु वचनं तेषां ब्रुवतां स तपोधनः ।

न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा

॥१३॥

ततस्ते राजपुरुषा विचिन्वन्तस्तमाश्रमम् ।

संयम्यैनं ततो राज्ञे सर्वान् दस्यून्न्यवेदयन्

॥१४॥

तं राजा सहितैश्चोरैरन्वशाद्वध्यतामिति ।

सम्बध्य तं च तैर्राजञ्छूले प्रोतो महातपाः

॥१५॥

ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा ।

प्रतिजग्मुर्महीपाल धनान्यादाय तान्यथ

॥१६॥

शूलस्थः स तु धर्मात्मा कालेन महता तदा ।

ध्यायन्देवं त्रिलोकेशं शङ्करं तमुमापतिम्

॥१७॥

बहुकालं महेशानं मनसाध्याय संस्थितः ।

निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत

॥१८॥

धारयामास विप्राणामृषभः स हृदा हरिम् ।

शूलाग्रे तप्यमानेन तपस्तेन कृतं तदा

॥१९॥

सन्तापं परमं जग्मुः श्रुत्वैतन्मुनयोऽखिलाः ।

ते रात्रौ शकुना भूत्वा संन्यवर्तन्त भारत

॥२०॥

दर्शयन्तो मुनेः शक्तिं तमपृच्छन् द्विजोत्तमम् ।

श्रोतुमिच्छाम ते ब्रह्मन् किं पापं कृतवानसि

॥२१॥

श्रीमार्कण्डेय उवाच

ततः स मुनिशार्दूलस्तानुवाच तपोधनान् ।

दोषतः किं गमिष्यामि न हि मेऽन्यो पराध्यति

॥२२॥

एवमुक्त्वा ततः सर्वानाचचक्षे ततो मुनिः ।

मुनयश्च ततो राज्ञे द्वितीयेऽह्नि न्यवेदयन्

॥२३॥

राजा तु तमृषिं श्रुत्वा निष्क्रान्तः सह बन्धुभिः ।

प्रसादयामास तदा शूलस्थमृषिसत्तमम्

॥२४॥

राजोवाच

यन्मयाऽपकृतं तात तवाज्ञानवशाद्बहु ।

प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि

॥२५॥

एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः ।

कृतप्रसादं राजा तं ततः समवतारयत्

॥२६॥

अवतीर्यमाणस्तु मुनिः शूले मांसत्वमागते ।

अतिसंपीडितो विप्रः शङ्करं मनसागमत्

॥२७॥

संध्यातः शङ्करस्तेन बहुकालोपवासतः ।

प्रादुर्भूतो महादेवः शूलं तस्य तथाछिनत्

॥२८॥

शूलमूलस्थितः शम्भुस्तुष्टः प्राह पुनःपुनः ।

ब्रूहि किं क्रियतां विप्र सत्त्वस्थानपरायण

॥२९॥

अदेयमपि दास्यामि तुष्टोऽस्म्यद्योमया सह ।

किं तु सत्यवतां लोके सिद्धिर्न स्याच्च भूयसी

॥३०॥

स्वकर्मणोऽनुरूपं हि फलं भुञ्जन्ति जन्तवः ।

शुभेन कर्मणा भूतिर्दुःखं स्यात्पातकेन तु

॥३१॥

बहुभेदप्रभिन्नं तु मनुष्येषु विपच्यते ।

केषां दरिद्रभावेन केषां धनविपत्तिजम्

॥३२॥

सन्तत्यभावजं केषां केषांचित्तद्विपर्ययः ।

तथा दुर्वृत्तितस्तेषां फलमाविर्भवेन्नृणाम्

॥३३॥

केषांचित्पुत्रमरणे वियोगात्प्रियमित्रयोः ।

राजचौराग्नितः केषां दुःखं स्याद्दैवनिर्मितम्

॥३४॥

तच्छरीरे तु केषांचित्कर्मणा सम्प्रदृश्यते ।

जराश्च विविधाः केषां दृश्यन्ते व्याधयस्तथा

॥३५॥

दृश्यन्ते चाभिशापाश्च पूर्वकर्मानुसंचिताः ।

कष्टाः कष्टतरावस्था गताः केचिदनागसः

॥३६॥

पूर्वकर्मविपाकेन धर्मेण तपसि स्थिताः ।

दान्ताः स्वदारनिरता भूरिदाः परिपूजकाः

॥३७॥

ह्रीमन्तो नयसंयुक्ता अन्ये बहुगुणैर्युताः ।

दुर्गमामापदं प्राप्य निजकर्मसमुद्भवाम्

॥३८॥

न संज्वरन्ति ये मर्त्या धर्मनिन्दां न कुर्वते ।

इदमेव तपो मत्वा क्षिपन्ति सुविचेतसः

॥३९॥

हा भ्रातर्मातः पुत्रेति कष्टेषु न वदन्ति ये ।

स्मरन्ति मां महेशानमथवा पुष्करेक्षणम्

॥४०॥

दुष्कृतं पूर्वजं भोक्तुं ध्रुवं तदुपशाम्यति

॥४१॥

दिनानि यावन्ति वसेत्स कष्टे यथाकृतं चिन्तयद्देवमीशम् ।

तावन्ति सौम्यानि कृतानि तेन भवन्ति विप्र श्रुतिनोदनैषा

॥४२॥

यस्मात्त्वया कष्टगतेन नित्यं स्मृतश्चाहं मनसा पूजितश्च ।

गौरीसहायस्तेन इहागतोऽस्मि ब्रूह्यद्य कृत्यं क्रियतां किं नु विप्र

॥४३॥

माण्डव्य उवाच

तुष्टो यद्युमया सार्धं वरदो यदि शङ्कर ।

तदा मे शूलसंस्थस्य संशयं परमं वद

॥४४॥

न रुजा मम कापि स्याच्छूलसंप्रोतितेऽगके ।

अमृतस्रावि तच्छूलं प्रभावात्कस्य शंस मे

॥४५॥

श्रीशूलपाणिरुवाच

शूलस्थेन त्वया विप्र मनसा चिन्तितोऽस्मि यत् ।

अनयानां निहन्ताहं दुःखानां विनिबर्हणः

॥४६॥

ध्यातमात्रो ह्यहं विप्र पाताले वापि संस्थितः ।

शूलमूले त्वहं शम्भुरग्रे देवी स्वयं स्थिता ।

जगन्माताम्बिका देवी त्वामृतेनान्वपूरयत्

॥४७॥

माण्डव्य उवाच

पूर्वमेव स्थितो यस्माच्छूलं व्याप्योमया सह ।

प्रसादप्रवणो मह्यमिदानीं चानया सह

॥४८॥

यस्याः संस्मरणादेव दौर्भाग्यं प्रलयं व्रजेत् ।

न दौर्भाग्यात्परं लोके दुःखाद्दुःखतरं किल

॥४९॥

किलैवं श्रूयते गाथा पुराणेषु सुरोत्तम ।

त्रैलोक्यं दहतस्तुभ्यं सौभाग्यमेकतां गतम्

॥५०॥

विष्णोर्वक्षःस्थलं प्राप्य तत्स्थितं चेति नः श्रुतम् ।

पीतं तद्वक्षसस्त्रस्तदक्षेण परमेष्ठिना

॥५१॥

तस्मात्सतीति संजज्ञ इयमिन्दीवरेक्षणा ।

यजतस्तस्य देवेश तव मानावखण्डनात्

॥५२॥

जुहावाग्नौ तु सा देवी ह्यात्मानं प्राणसंज्ञिकम् ।

आत्मानं भस्मसात्कृत्वा प्रालेयाद्रेस्ततः सुता

॥५३॥

मेनकायां प्रभो जाता साम्प्रतं या ह्युमाभिधा ।

अनादिनिधना देवी ह्यप्रतर्क्या सुरेश्वर

॥५४॥

यदि तुष्टोऽसि देवेश ह्युमा मे वरदा यदि ।

उभावप्यत्र वै स्थाने स्थितौ शूलाग्रमूलयोः

॥५५॥

अवतारो यत्र तत्र संस्थितिं वै ततः कुरु

॥५६॥

श्रीमार्कण्डेय उवाच

तेनैवमुक्ते सहसा कृत्वा भूमण्डलं द्विधा ।

निःसृतौ शूलमूलाग्राल्लिङ्गार्चाप्रतिरूपिणौ

॥५७॥

प्रद्योतयद्दिशः सर्वा लिङ्गं मूले प्रदृश्यते ।

वामतः प्रतिमा देवी तदा शूलेश्वरी स्थिता

॥५८॥

विलोभयन्ती च जगद्भाति पूरयती दिशः ।

दृष्ट्वा कृताञ्जलिपुटः स्तुतिं चक्रे द्विजोत्तमः

॥५९॥

माण्डव्य उवाच

त्वमस्य जगतो माता जगत्सौभाग्यदेवता ।

न त्वया रहितं किंचिद्ब्रह्माण्डेऽस्ति वरानने

॥६०॥

प्रसादं कुरु धर्मज्ञे मम त्वाज्ञप्तुमर्हसि ।

ईदृशेनैव रूपेण केषु स्थानेषु तिष्ठसि ।

प्रसादप्रवणा भूत्वा वद तानि महेश्वरि

॥६१॥

श्रीदेव्युवाच

सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि ।

सर्वलोकेषु यत्किंचिद्विहितं न मया विना

॥६२॥

तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः ।

स्मर्तव्या भूतिकामेन तानि वक्ष्यामि तत्त्वतः

॥६३॥

वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।

प्रयागे ललिता देवी कामुका गन्धमादने

॥६४॥

मानसे कुमुदा नाम विश्वकाया तथाऽपरे ।

गोमन्ते गोमती नाम मन्दरे कामचारिणी

॥६५॥

मदोत्कटा चैत्ररथे हयन्ती हास्तिने पुरे ।

कान्यकुब्जे स्थिता गौरी रम्भा ह्यमलपर्वते

॥६६॥

एकाम्रके कीर्तिमती विश्वां विश्वेश्वरे विदुः ।

पुष्करे पुरुहूता च केदारे मार्गदायिनी

॥६७॥

नन्दा हिमवतः प्रस्थे गोकर्णे भद्रकर्णिका ।

स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्त्रिका

॥६८॥

श्रीशैले माधवी नाम भद्रे भद्रेश्वरीति च ।

जया वराहशैले तु कमला कमलालये

॥६९॥

रुद्रकोट्यां तु कल्याणी काली कालञ्जरे तथा ।

महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी

॥७०॥

शालिग्रामे महादेवी शिवलिङ्गे जलप्रिया ।

मायापुर्यां कुमारी तु संताने ललिता तथा

॥७१॥

उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला ।

गयायां विमला नाम मङ्गला पुरुषोत्तमे

॥७२॥

विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ।

नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरी

॥७३॥

विपुले विपुला नाम कल्याणी मलयाचले ।

कोटवी कोटितीर्थेषु सुगन्धा गन्धमादने

॥७४॥

गोदाश्रमे त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ।

शिवचण्डे सभानन्दा नन्दिनी देविकातटे

॥७५॥

रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।

देवकी मथुरायां तु पाताले परमेश्वरी

॥७६॥

चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी ।

सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चण्डिका

॥७७॥

रमणा रामतीर्थे तु यमुनायां मृगावती ।

करवीरे महालक्ष्मी रूपादेवी विनायके

॥७८॥

आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ।

अभयेत्युष्णतीर्थे तु मृगी वा विन्ध्यकन्दरे

॥७९॥

माण्डव्ये माण्डुकी नाम स्वाहा माहेश्वरे पुरे ।

छागलिङ्गे प्रचण्डा तु चण्डिकामरकण्टके

॥८०॥

सोमेश्वरे वरारोहा प्रभासे पुष्करावती ।

वेदमाता सरस्वत्यां पारा पारातटे मुने

॥८१॥

महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ।

सिंहिका कृतशौचे तु कर्तिके चैव शांकरी

॥८२॥

उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ।

मता सिद्धवटे लक्ष्मीस्तरंगा भारताश्रमे

॥८३॥

जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ।

देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले

॥८४॥

भीमादेवी हिमाद्रौ तु पुष्टिर्वस्त्रेश्वरे तथा ।

कपालमोचने शुद्धिर्माता कायावरोहणे

॥८५॥

शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा ।

काला तु चन्द्रभागायामच्छोदे शक्तिधारिणी

॥८६॥

वेणायाममृता नाम बदर्यामुर्वशी तथा ।

ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका

॥८७॥

मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ।

अश्वत्थे वन्दिनीका तु निधिर्वैश्रवणालये

॥८८॥

गायत्री वेदवदने पार्वती शिवसन्निधौ ।

देवलोके तथेन्द्राणी ब्रह्मास्ये तु सरस्वती

॥८९॥

सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ।

अरुन्धती सतीनां तु रामासु च तिलोत्तमा

॥९०॥

चित्रे ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ।

शूलेश्वरी भृगुक्षेत्रे भृगौ सौभाग्यसुन्दरी

॥९१॥

एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ।

अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम्

॥९२॥

इदमेव परं विप्र सर्वेषां तु भविष्यति ।

पठत्यष्टोत्तरशतं नाम्नां यः शिवसन्निधौ

॥९३॥

स मुच्यते नरः पापैः प्राप्नोति स्त्रियमीप्सिताम् ।

स्नात्वा नारी तृतीयायां मां समभ्यर्च्य भक्तितः

॥९४॥

न सा स्याद्दुःखिनी जातु मत्प्रभावान्नरोत्तम ।

नित्यं मद्दर्शने नारी नियताया भविष्यति

॥९५॥

पतिपुत्रकृतं दुःखं न सा प्राप्स्यति कर्हिचित् ।

मदालये तु या नारी तुलापुरुषसंज्ञितम्

॥९६॥

सम्पूज्य मण्डयेद्देवांल्लोकपालांश्च साग्निकान् ।

सपत्नीकान्द्विजान्पूज्य वासोभिर्भूषणैस्तथा

॥९७॥

भूतेभ्यस्तु बलिं दद्यादृत्विग्भिः सह देशिकः ।

ततः प्रदक्षिणीकृत्य तुलामित्यभिमन्त्रयेत्

॥९८॥

शुचिरक्ताम्बरो वा स्याद्गृहीत्वा कुसुमाञ्जलिम् ।

नमस्ते सर्वदेवानां शक्तिस्त्वं परमा स्थिता

॥९९॥

साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना ।

त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता

॥१००॥

कराभ्यां बद्धमुष्टिभ्यामास्ते पश्यन्नुमामुखम् ।

ततोऽपरे तुलाभागेन्यसेयुर्द्विजपुंगवाः

॥१०१॥

द्रव्यमष्टविधं तत्र ह्यात्मवित्तानुसारतः ।

मन्दशभूते विप्रेन्द्र पृथिव्यां यदधिष्ठितम्

॥१०२॥

सुवर्णं चैव निष्पावांस्तथा राजिकुसुम्भकम् ।

तृणराजेन्दुलवणं कुङ्कुमं तु तथाष्टमम्

॥१०३॥

एषामेकतमं कुर्याद्यथा वित्तानुसारतः ।

साम्यादभ्यधिकं यावत्काञ्चनादि भवेद्द्विज

॥१०४॥

तावत्तिष्ठेन्नरो नारी पश्चादिदमुदीरयेत् ।

नमो नमस्ते ललिते तुलापुरुषसंज्ञिते

॥१०५॥

त्वमुमे तारयस्वास्मानस्मात्संसारकर्दमात् ।

ततोऽवतीर्य मुरवे पूर्वमर्द्धं निवेदयेत्

॥१०६॥

ऋत्विग्भ्योऽपरमर्द्धं च दद्यादुदकपूर्वकम् ।

तेभ्यो लब्धा ततोऽनुज्ञां दद्यादन्येषु चार्थिषु

॥१०७॥

सपत्नीकं गुरुं रक्तवाससी परिधापयेत् ।

अन्यांश्च ऋत्विजः शक्त्या गुरुं केयूरकङ्कणैः

॥१०८॥

शुक्लां गां क्षीरिणीं दद्याल्ललिता प्रीयतामिति ।

अनेन विधिना या तु कुर्यान्नारी ममालये

॥१०९॥

मत्तुल्या सा भवेद्राज्ञां तेजसा श्रीरिवामला ।

सावित्रीव च सौन्दर्ये जन्मानि दश पञ्च च

॥११०॥

श्रीमार्कण्डेय उवाच

एवं निशम्य वचनं गौर्या द्विजवरोत्तमः ।

नमस्कृत्य जगामाशु धर्मराज निवेशनम्

॥१११॥

तदा प्रभृति तत्तीर्थं ख्यातं शूलेश्वरीति च ।

तस्मिंस्तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः

॥११२॥

ब्राह्मणानन्नवासोभिः पिण्डैः पितृपितामहान् ।

भक्तोपहारैर्देवेशमुमया सह शङ्करं

॥११३॥

धूपगुग्गुलदानैश्च दीपदानैः सुबोधितैः ।

सर्वपापविनिर्मुक्तः स गच्छेच्छिवसन्निधिम्

॥११४॥

तस्मिंस्तीर्थे तु यः कश्चिदभियुक्तो नरेश्वर ।

अम्भिशापि तथा स्नातस्त्रिदिनं मुच्यते नरः

॥११५॥

कृष्णपक्षे चतुर्दश्यां रात्रौ जागर्ति यो नरः ।

उपवासपरः शुद्धः शिवं सम्पूजयेन्नरः ।

प्रमुच्य पापसंमोहं रुद्रलोकं स गच्छति

॥११६॥

त्रिनेत्रश्च चतुर्बाहुः साक्षाद्रुद्रोऽपरः ।

क्रीडते देवकन्याभिर्यावच्चन्द्रार्कतारकम्

॥११७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टनवत्युत्तरशततमोऽध्यायः ॥