मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ९२

3
अवन्तीखण्डः · रेवाखण्डः · 92

यमहास्यतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र यमहास्यमनुत्तमम् ।

सर्वपापहरं तीर्थं नर्मदातटमाश्रितम्

॥१॥

युधिष्ठिर उवाच

यमहास्यं कथं जातं पृथिव्यां द्विजपुंगव ।

एतत्सर्वं ममाख्याहि परं कौतूहलं हि मे

॥२॥

श्रीमार्कण्डेय उवाच

साधु साधु महाप्राज्ञ पृष्टोऽहं नृपनन्दन ।

स्नानार्थं नर्मदां पुण्यामागतस्ते पिता पुरा

॥३॥

रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।

तथासौ निर्मलो जातो धर्मराजो युधिष्ठिर

॥४॥

स पश्यन्निर्मलं देहं हसन्प्रोवाच विस्मितः

॥५॥

यम उवाच

मत्पुरं कथमायान्ति मनुजाः पापबृंहिताः ।

स्नानेनैकेन रेवायाः प्राप्यते वैष्णवं पदम्

॥६॥

समर्था ये न पश्यन्ति रेवां पुण्यजलां शुभाम् ।

जात्यन्धैस्ते समा ज्ञेया मृतैः पङ्गुभिरेव वा

॥७॥

समर्था ये न पश्यन्ति रेवां पुण्यजलां नदीम् ।

एतस्मात्कारणाद्राजन्हसितो लोकशासनः

॥८॥

स्थापयित्वा यमस्तत्र देवं स्वर्गं जगाम ह ।

यमहासेश्वरे राजञ्जितक्रोधो जितेन्द्रियः

॥९॥

विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम् ।

उपोष्य परया भक्त्या सर्वपापैः प्रमुच्यते

॥१०॥

रात्रौ जागरणं कुर्याद्दीपं देवस्य बोधयेत् ।

घृतेन चैव राजेन्द्र शृणु तत्रास्ति यत्फलम्

॥११॥

मुच्यते पातकैः सर्वैरगम्यागमनोद्भवैः ।

अभक्ष्यभक्षणोद्भूतैरपेयापेयजैरपि

॥१२॥

अवाह्यवाहिते यत्स्याददोह्यादोहने यथा ।

स्नानमात्रेण तस्यैवं यान्ति पापान्यनेकधा

॥१३॥

यमलोकं न वीक्षेत मनुजः स कदाचन ।

पित्ःणां परमं गुह्यमिदं भूमौ नरेश्वर

॥१४॥

ददतामक्षयं सर्वं यमहास्ये न संशयः ।

अमावास्यां जितक्रोधो यस्तु पूजयते द्विजान्

॥१५॥

हिरण्यभूमिदानेन तिलदानेन भूयसा ।

कृष्णाजिनप्रदानेन तिलधेनुप्रदानतः

॥१६॥

विधानोक्तद्विजाग्र्याय ये प्रदास्यन्ति भक्तितः ।

हयं वा कुंजरं वाथ धूर्वहौ सीरसंयुतौ

॥१७॥

कन्यां वसुमतीं गां च महिषीं वा पयस्विनीम् ।

ददते ये नृपश्रेष्ठ नोपसर्पन्ति ते यमम्

॥१८॥

यमोऽपि भवति प्रीतः प्रतिजन्म युधिष्ठिर ।

यमस्य वाहो महिषो महिष्यस्तस्य मातरः

॥१९॥

तासां दानप्रभावेण यमः प्रीतो भवेद्ध्रुवम् ।

नासौ यममवाप्नोति यदि पापैः समावृतः

॥२०॥

एतस्मात्कारणादत्र महिषीदानमुत्तमम् ।

तस्याः शृङ्गे जलं कार्यं धूम्रवस्त्रानुवेष्टिता

॥२१॥

आयसस्य खुराः कार्यास्ताम्रपृष्ठाः सुभूषिताः ।

लवणाचलं पूर्वस्यामाग्नेय्यां गुडपर्वतम्

॥२२॥

कार्पासं याम्यभागं तु नवनीतं तु नैरृते ।

पश्चिमे सप्तधान्यानि वायव्ये तंदुलाः स्मृताः

॥२३॥

सौम्ये तु काञ्चनं दद्यादीशाने घृतमेव च ।

प्रदद्याद्यमराजो मे प्रीयतामित्युदीरयन्

॥२४॥

इत्युच्चार्य द्विजस्याग्रे यमलोकं महाभयम् ।

असिपत्त्रवनं घोरं यमचुल्ली सुदारुणा

॥२५॥

रौद्रा वैतरणी चैव कुम्भीपाको भयावहः ।

कालसूत्रो महाभीमस्तथा यमलपर्वतौ

॥२६॥

क्रकचं तैलयन्त्रं च श्वानो गृध्राः सुदारुणाः ।

निरुच्छ्वासा महानादा भैरवो रौरवस्तथा

॥२७॥

एते घोरा याम्यलोके श्रूयन्ते द्विजसत्तम ।

त्वत्प्रसादेन ते सोम्यास्तीर्थस्यास्य प्रभावतः

॥२८॥

दानस्यास्य प्रभावेण यमराजप्रसादतः ।

नरकेऽहं न यास्यामि द्विज जन्मनि जन्मनि

॥२९॥

यमहास्यस्य चाख्यानमिदं शृण्वन्ति ये नराः ।

तेऽपि पापविनिर्मुक्ता न पश्यन्ति यमालयम्

॥३०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे यमहास्यतीर्थमाहात्म्यवर्णनं नाम द्विनवतितमोऽध्यायः ॥