मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १३६

3
अवन्तीखण्डः · रेवाखण्डः · 136

अहल्यातीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल चाहल्येश्वरमुत्तमम् ।

यत्र सिद्धा महाभागा त्वहल्या तापसी पुरा

॥१॥

गौतमो ब्राह्मणस्त्वासीत्साक्षाद्ब्रह्मेव चापरः ।

सत्यधर्मसमायुक्तो वानप्रस्थाश्रमे रतः

॥२॥

तस्य पत्नी महाभागा ह्यहल्या नाम विश्रुता ।

रूपयौवनसम्पन्ना त्रिषु लोकेषु विश्रुता

॥३॥

अस्या अप्यतिरूपेण देवराजः शतक्रतुः ।

मोहितो लोभयामास ह्यहल्यां बलसूदनः

॥४॥

मां भजस्व वरारोहे देवराजमनिन्दिते ।

क्रीडयस्व मया सार्द्धं त्रिषु लोकेषु पूजिता

॥५॥

किं करिष्यसि विप्रेण शौचाचारकृशेन तु ।

तपःस्वाध्यायशीलेन क्लिश्यन्तीव सुलोचने

॥६॥

एवमुक्ता वरारोहा स्त्रीस्वभावात्सुचञ्चला ।

मनसाध्याय शक्रं सा कामेन कलुषीकृता

॥७॥

तस्या विदित्वा तं भावं स देवः पाकशासनः ।

गौतमं वञ्चयामास दुष्टभावेन भावितः

॥८॥

विदित्वा चान्तरं तस्य गृहीत्वा वेषमुत्तमम् ।

अहल्यां रमयामास विश्वस्तां मन्दिरान्तिके

॥९॥

क्षणमात्रान्तरे तत्र देवराजस्य भारत ।

आजगाम मुनिश्रेष्ठो मन्दिरं त्वरयान्वितः

॥१०॥

आगतं गौतमं दृष्ट्वा भीतभीतः पुरंदरः ।

निर्गतः स ततो दृष्ट्वा शक्रोऽयमिति चिन्तयन्

॥११॥

ततः शशाप देवेन्द्रं गौतमः क्रोधमूर्छितः ।

अजितेन्द्रियोऽसि यस्मात्त्वं तस्माद्बहुभगो भव

॥१२॥

एवमुक्तस्तु देवेन्द्रस्तत्क्षणादेव भारत ।

भगानां तु सहस्रेण तत्क्षणादेव वेष्टितः

॥१३॥

त्यक्त्वा राज्यं सुरैः सार्द्धं गतश्रीको जगाम ह ।

तपश्चचार विपुलं गौतमेन महीतले

॥१४॥

अहल्यापि ततः शप्ता यस्मात्त्वं दुष्टचारिणी ।

प्रेक्ष्य मां रमसे शक्रं तस्मादश्ममयी भव

॥१५॥

गते वर्षसहस्रान्ते रामं दृष्ट्वा यशस्विनम् ।

तीर्थयात्राप्रसङ्गेन धौतपापा भविष्यसि

॥१६॥

एवं गते ततः काले दृष्टा रामेण धीमता ।

विश्वामित्रसहायेन त्यक्त्वा साश्ममयीं तनुम्

॥१७॥

पूजयित्वा यथान्यायं गतपापा विमत्सरा ।

आगता नर्मदातीरे तीर्थे स्नात्वा यथाविधि

॥१८॥

कृतं चान्द्रायणं मासं कृच्छ्रं चान्यं ततः परम् ।

ततस्तुष्टो महादेवो दत्त्वा वरमनुत्तमम्

॥१९॥

जगामादर्शनं भूयो रेमे चोमापतिश्चिरम् ।

अहल्या तु गते देवे स्थापयित्वा जगद्गुरुम्

॥२०॥

अहल्येश्वरनामानं स्वगृहे चागमत्पुनः ।

तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम्

॥२१॥

स मृतः स्वर्गमाप्नोति यत्र देवो महेश्वरः ।

क्रीडयित्वा यथाकामं तत्र लोके महातपाः

॥२२॥

गते वर्षसहस्रान्ते मानुष्यं लभते पुनः ।

धनधान्यचयोपेतः पुत्रपौत्रसमन्वितः

॥२३॥

वेदविद्याश्रयो धीमाञ्जायते विमले कुले ।

रूपसौभाग्यसम्पन्नः सर्वव्याधिविवर्जितः ।

जीवेद्वर्षशतं साग्रमहल्यातीर्थसेवनात्

॥२४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अहल्यातीर्थमाहात्म्यवर्णनं नाम षट्त्रिंशदधिकशततमोऽध्यायः ॥