पारेश्वरतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र पारेश्वरमनुत्तमम् ।
पराशरो महात्मा वै नर्मदायास्तटे शुभे
॥१॥तपश्चचार विपुलं पुत्रार्थं पाण्डुनन्दन ।
हिमवद्दुहिता तेन गौरी नारायणी नृप
॥२॥तोषिता परया भक्त्या नर्मदोत्तरके तटे ।
तस्य तुष्टा महादेवी शङ्करार्धाङ्गधारिणी
॥३॥भोभो ऋषिवर श्रेष्ठ तुष्टाहं तव भक्तितः ।
वरं याचय मे विप्र पराशर महामते
॥४॥पराशर उवाच
परितुष्टासि मे देवि यदि देयो वरो मम ।
देहि पुत्रं भगवति सत्यशौचगुणान्वितम्
॥५॥वेदाभ्यसनशीलं हि सर्वशास्त्रविशारदम् ।
तीर्थे चात्र भवेद्देवि सन्निधानवरेण तु
॥६॥लोकोपकारहेतोश्च स्थीयतां गिरिनन्दिनि ।
पराशराभिधानेन नर्मदादक्षिणे तटे
॥७॥श्रीदेव्युवाच
एवं भवतु ते विप्र तत्रैवान्तरधीयत ।
पराशरो महात्मा वै स्थापयामास पार्वतीम्
॥८॥शङ्करं स्थापयामास सुरासुरनमस्कृतम् ।
अच्छेद्यमप्रतर्क्यं च देवानां तु दुरासदम्
॥९॥पराशरो महात्मा वै कृतार्थो ह्यभवन्नृप
॥१०॥तत्र तीर्थे तु यो भक्त्या शुचिः प्रयतमानसः ।
स्त्र्यथवा पुरुषो वापि कामक्रोधविवर्जितः
॥११॥माघे चैत्रेऽथ वैशाखे श्रावणे नृपनन्दन ।
मासि मार्गशिरे चैव शुक्लपक्षे तु सर्वदा
॥१२॥तत्र गत्वा शुभे स्थाने नर्मदादक्षिणे तटे
॥१३॥उपोष्य परया भक्त्या व्रतमेतत्समाचरेत् ।
रात्रौ जागरणं कृत्वा दीपदानं स्वशक्तितः
॥१४॥गीतं नृत्यं तथा वाद्यं कामक्रोधविवर्जितः ।
प्रभाते विमले प्राप्ते द्विजाः पूज्याः स्वशक्तितः
॥१५॥सम्पूज्य ब्राह्मणान् पार्थ धनदानहिरण्यतः ।
वस्त्रेण छत्रदानेन शय्याताम्बूलभोजनैः
॥१६॥प्रीणयेन्नर्मदातीरे ब्राह्मणाञ्छंसितव्रतान् ।
श्राद्धं कार्यं नृपश्रेष्ठ आमैः पक्वैर्जलेन च
॥१७॥स्त्रीणां चैव तु शूद्राणामामश्राद्धं प्रशस्यते ।
आमं चतुर्गुणं देयं ब्राह्मणानां युधिष्ठिर
॥१८॥वेदोक्तेन विधानेन द्विजाः पूज्याः प्रयत्नतः ।
हस्तमात्रैः कुशैश्चैव तिलैश्चैवाक्षतैर्नृप
॥१९॥विप्रा उदङ्मुखाः कार्याः स्वयं वै दक्षिणामुखः ।
दर्भेषु निक्षिपेदन्नमित्युच्चार्य द्विजाग्रतः
॥२०॥प्रेता यान्तु परे लोके तीर्थस्यास्य प्रभावतः ।
पापं मे प्रशमं यातु एतु वृद्धिं शुभं सदा
॥२१॥वृद्धिं यातु सदा वंशो ज्ञातिवर्गो द्विजोत्तम ।
एवमुच्चार्य विप्राय दानं देयं स्वशक्तितः
॥२२॥गोभूतिसहिरण्यादि चान्नं वस्त्रं स्वशक्तितः ।
दातव्यं पाण्डवश्रेष्ठ पारेश्वरवराश्रमे
॥२३॥ये शृण्वन्ति परं भक्त्या मुच्यन्ते सर्वपातकैः
॥२४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पारेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्सप्ततितमोऽध्यायः ॥